सर्वदर्शनसंग्रह (षोडश दर्शन विमर्श - हिन्दी अनुवाद)
Sarva-Darshana-Sangraha with Hindi Commentary
माधवाचार्य (विद्यारण्य स्वामी) / पं. उमाशंकर शर्मा ऋषि द्वारा
पृष्ठ 218, कुल 316 में से
संदर्भ में पढ़ेंदर्शनम् ] भाषाटीकासमेत । ( २११ ) नन्वेकमनुसन्धित्सतोऽपरं प्रच्यवते इति न्यायेन दुःखवत् सुखमित्युच्छिद्यत इति अकाम्योऽयं पक्ष इति चेन्मैवं मंस्थाः। सुखसम्पादने दुःखसाधनबाहुल्यानुषङ्गनियमेन तप्तायः पिण्डे तपनीयबुद्ध्या प्रवर्त्तमानेन साम्यापातात् । तथाहि न्यायोपा- र्जितेषु विषयेषु कियन्तः सुखखद्योताः कियन्ति दुःखदुर्दि- नानि अन्यायोपार्जितेषु तु यद्भविष्यति तन्मनसापि चिन्त- यितुं न शक्यमित्येतत् स्वानुभवमप्रच्छादयन्तः सन्तो विदां- कुर्वन्तु विदांवरा भवन्तः ॥ २२ ॥ एकके अनुसन्धानसे दूसरा नष्ट होता है इस न्यायके समान दुःखके समान सुखकाभी उच्छेद करना यह पक्ष अयुक्त है ऐसा नहीं कहसकते सुखके सम्पादनमें अनेक दुःखसाधनसम्पर्क होनेसे तप्तलोहमें कनकबुद्धिसे प्रवृत्तिकी समान है तथाहि नीतिसे सम्पादित विषयोंमें कितने सुख खद्योत ( जुगूनू ) है ओर कितने दुःख दुर्दिन है ओर एव अन्यायसे सम्पादितोंमें जो हैं उनको मनसे चिन्तवनभी नहीं कर सकते इसको विद्वान्लोग विचारलें ॥ २२ ॥ तस्मात् परिशेषात् परमेश्वरानुग्रहवशाच्छ्रवणादिक्रमेणात्मत- त्त्वसाक्षात्कारवतः पुरुषधौरेयस्य दुःखनिवृत्तिरात्यन्तिकी निःश्रेयसमिति निरवद्यम् ॥ २३ ॥ अतः परिशिष्ट परमेश्वरके अनुग्रहवश श्रवणमननादि क्रमसे आत्मतत्त्वको साक्षा- त्कृतपुरुषको आत्यन्तिक दुःखनिवृत्तिरूप मोक्ष होता है यह निर्दुष्ट सिद्ध है ॥२३॥ नन्वीश्वरसद्भावे किं प्रमाणं प्रत्यक्षमनुमानमागमो वा । न ताव- दत्र प्रत्यक्षं क्रमते रूपादीरहितत्वेनातीन्द्रियत्वात्, नाप्यनु- मानं तद्व्याप्तिलिङ्गाभावात्, नागमः विकल्पासहत्वात् ॥ किं नित्योऽवगमयत्यनित्यो वा । आद्ये अपसिद्धान्तापातः । द्वितीये परस्पराश्रयापातः । उपमानादिकमशक्यशङ्कं नियत- विषयत्वात् ॥ तस्मादीश्वरः शशविषाणायते इति चेत्तदेतन्न चतुरचेतसां चेतसि चमत्कारमाविष्करोति । विवादास्पदं