भारतकोश
सर्वदर्शनसंग्रह (षोडश दर्शन विमर्श - हिन्दी अनुवाद)

सर्वदर्शनसंग्रह (षोडश दर्शन विमर्श - हिन्दी अनुवाद)

Sarva-Darshana-Sangraha with Hindi Commentary

माधवाचार्य (विद्यारण्य स्वामी) / पं. उमाशंकर शर्मा ऋषि द्वारा

DevanagariHindipublished316 पृष्ठ

पृष्ठ 298, कुल 316 में से

संदर्भ में पढ़ें
पृष्ठ 298

दर्शनम् ] भाषाटीकासमेत । ( २९१ ) दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् । ऐहि- कपारत्रिकविषयादौ दोषदर्शनान्निराभिलाषस्य ममैते विषया वश्याः नाहमेतेषां वश्य इति विमर्शो वैराग्यमित्युक्तं भवति ॥ समाधिपरिपन्थिकेशतनूकरणार्थं समाधिलाभार्थं च प्रथमं क्रियायोगविधानपरेण योगिना भवितव्यं क्रियायोगसम्पादने अभ्यासवैराग्ययोः सम्भवात् ॥ ५२ ॥ इस लोक और परलोकमें दुःखजनकत्व परिणामित्वादि दोष देखकर तद्विषयक अभि- लाषा छोड यह सब मेरे वश्य हैं। मैं इनके वश्य नहीं हूं इस विचारको वैराग्य कहते हैं । समाधिके विरोधी क्लेशादिको शिथिल करनेके ओर समाधिप्राप्तिके लिये प्रथम क्रिया हे योगीको योगविधानमे तत्पर होना चाहिये क्रियायोगसम्पादनसेही अभ्यास और वैराग्य होसकता है ॥ ५२ ॥ तदुक्तं भगवता-“आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥” इति । क्रिया- योगश्चोपदिष्टः पतञ्जलिना-‘तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः' इति । तपः स्वरूपं निरूपितं याज्ञवल्क्येन । “विधिनाक्तेिन मार्गेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहुस्तपसां तप उत्तमम् ॥” इति । प्रणवगायत्रीप्रभृती- नामध्ययनं स्वाध्याय इति । ते च मन्त्रा द्विविधा वैदिका- स्तान्त्रिकाश्च । वैदिकाश्च द्विविधाः प्रगीता अप्रगीताश्च । तत्र प्रगीता सामानि, अप्रगीताश्च द्विविधा छन्दोवद्धास्त- द्विलक्षणाश्च । तत्र प्रथमा ऋच । द्वितीया यजूंषि । तदुक्तं जैमिनिना-‘तेषामृग् यत्रार्थवशेन पाद्व्यवस्था गीतिषु सामा- ख्या शेषे यजु शब्द' इति ॥ ५३ ॥ योगमार्गमें चढनेकी इच्छावाले मुनिको प्रथम कर्म ( क्रिया ) करना चाहिये योगमें आरूढ मुनिको शम साधन हे । क्रिया योगभी पतञ्जलिने कहा है । तप, स्वाध्याय ओर ईश्वरप्रणिधानका नाम क्रिया योग है । वेदादिविहित प्रकार