भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 135, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 135

७६ सात्वतसंहिता गूढो यथैव दहनो मथनादुपैति आवाहतोऽपि हि तथा त्वमुपैषि चार्चाम् ॥ —(सा० २५।१२१) इति । भावदर्पणसंक्रान्तं कृत्वेत्यनेन— तमागतमिवाकाशात् तारकं कर्णिकान्तरे । भावयेदथ तन्मध्यादाराध्यमुदितं स्मरेत् ॥—(सा० ५।१०२) इत्युक्तार्थः स्मारितो भवति । वेद्यामिति पदं बिम्बाद्युपलक्षकम् । सन्निरुध्य पूजावसानिकां स्थितिं प्रार्थ्येत्यर्थः । अत्र सन्निधिसाम्मुख्यकरणमप्यपेक्षितमीश्वरादिषु ग्राह्यम् । मन्त्रोच्चारावसानतः तत्तन्मूलमन्त्रावसान इत्यर्थः । किञ्च— आवाहयामि लक्ष्मीशं परमात्मानमव्ययम् ॥ आतिष्ठतामिमां मूर्तिं मदनुग्रहकाम्यया । श्रिया सार्धं जगन्नाथो देवो नारायणः पुमान् ॥ —(ल० ३६।९४-९५) इति लक्ष्मीतन्त्रोक्तो मन्त्रश्चात्र प्रकृतः । नन्वेतच्छ्लोकपञ्चकस्याप्यावाहनपरत्वे पुराङ्कितमित्यादिश्लोकद्वयं सात्वतोपबृंहणेश्वरेपारमेश्वर्योः कुतो नोक्तमिति चेत्सत्यम्, तत्र— गन्धार्घ्यपुष्पैः सम्पूर्य मूलमन्त्रं समुच्चरन् । पीठोपरि हरेरग्रे मूर्ध्नि पुष्पाञ्जलिं क्षिपेत् ॥ —(ई०सं० ४।५९; पा०सं० ६।२२९) इत्यनेनैव तच्छ्लोकद्वयार्थः संगृहीतो भवतीति बोध्यम्, तदावाहनपात्रस्थार्घ्य- जलस्याञ्जलिद्वारेणैव बिम्बोपरि सेचनीयत्वात् । 'तिलान् सुमनसस्तस्मिन् दूर्वाः सिद्धार्थकान् क्षिपेत्' (६।१४) इत्युक्तस्य द्रव्यचतुष्टयप्रक्षेपस्य प्रधानार्घ्यजलपूरणेनैव चारितार्थ्याच्च । नन्वेवं तेनैव तद्द्रव्यचतुष्टयप्रक्षेपस्य चरितार्थ्ये सात्वते पुनः किमर्थं तदुपादान- मिति चेत्, सत्यम्— पाद्ये द्रव्यान्तरालाभे दूर्वा चार्घ्येऽथ सर्षपः । शस्तमाचमनीये तु तक्कोलं मार्जनाम्भसि ॥ इति पाद्मोक्तन्यायेनार्घ्यादिषु द्रव्यान्तरालाभेनेकैकद्रव्यप्रक्षेपेऽप्यावाहनार्घ्ये तिला- दीनां चतुर्णामपि प्रक्षेपसिद्ध्यर्थं पुनरुपादानमिति ज्ञेयम् । एवं चैवमावाहनं चरबिम्ब- कुम्भमण्डलाद्यर्चनविषयम्, न तु स्थिरबिम्बविषयम्, स्थितमायतने वाऽथ साकारं परमेश्वरम् । शङ्खचक्रधरं विष्णुं सुरसिद्धावतारितम् ॥ ऋषिभिर्मनुजैर्वाथ भक्तियुक्तैः प्रतिष्ठितम् । तन्मूर्त्तौ च स्वमन्त्रेण यजेदावाहनं विना । —(१३।५८-६०)