भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 137, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 137

७८ सात्वतसंहिता बिम्बे तादृशभावनाश्रम एव नास्ति, ब्रह्मरूपेण साक्षादेव भोगानङ्गीकरोती- त्याह—बिम्बाकृत्येति । तथा चोपबृंहितं लक्ष्मीतन्त्रेऽपि— कॢप्ते तु विग्रहे पूर्वं तथारूपोऽवतिष्ठते । भोगेषु दीयमानेषु शक्तिर्या मन्मयी परा ॥ तत्रस्था तां स्मरेत् साक्षादाददानो हरैर्यथा । —(३८।१६-१७) इति । यद्यपि पाद्मे बिम्बार्चनप्रकरणेऽपि— अर्घ्यवस्त्राम्बराकल्पपुष्पगन्धानुलेपनैः । प्रत्यर्चितं स्थितं ध्यायेत् पाद्याचमनयोः पुनः ॥ (तदानीं ध्यानं चोक्तं पाद्मे—) आसीनं स्नानकाले च पद्मासनसुखासनम् । नैवेद्यधूपदीपादावासीनं स्वस्तिकासने ॥ उपचारेषु चान्यत्र तत्तत्कर्मानुसारतः । स्थितमासीनमथवा देवं ध्यायेत पूजकः ॥ इत्युक्तम्, तथापि तत्कुम्भार्चनादिपरमेव । अथवा बिम्बस्यैव तथा ध्यानपरम्, नहि कुम्भादिष्विव तदन्तःस्थितभगवन्मात्रध्यानपरमिति ध्येयम् । अत्रापेक्षिता मन्त्रन्या- सलयभोगार्चनादयो बहवो विशेषा नृसिंहकल्पे वक्ष्यमाणा ग्राह्याः ॥ २२ ॥ बिम्ब में उस प्रकार की भावना का श्रम नहीं करना पड़ता, वह बिम्ब में साक्षात् ब्रह्म स्वरूप से अमूर्त्त भी सम्पूर्ण भोगशक्ति को स्वयं अङ्गीकार कर लेता है ॥ २२ ॥ विनिवेद्यासऽसनवरं समाहूतस्य वै प्रभोः । पादपीठं तु समान्यं मृद्वास्तरणभूषितम् ॥ २३ ॥ पाद्यार्घ्ये मधुपर्कं च तोयमाचमनीयकम् । अथासनाद्युपचारसमर्पणमाह—विनिवेद्येति सार्धेन । अत्र पाठक्रमं विहाय प्रथममर्घ्यम्, ततः पाद्यम्, तदनन्तरमाचमनीयम्, ततो मधुपर्कं च समर्पणीयम् । तत्रार्घ्यं पुष्पद्वारा भगवतो मूर्ध्नि देयम्, ‘अर्घ्यस्तृतीयाया देयो मूर्ध्न्यपिः कुसुमोद्भवताः’ (३६।१००) इति लक्ष्मीतन्त्रोक्तेः । तदानीं घण्टानादश्च कार्यः, ‘आवाहनार्घ्ये धूपे च दीपे नैवेद्यजोषणे’ (३।८३) इति, ‘घण्टाशब्दसमोपेतं दत्वाऽर्घ्यं मन्त्रमूर्धनि’ (४।१३४) इति चेश्वररादिषूक्तत्वात् । पाद्यं तु द्विवारं देयम्, ‘पाद्यदाने तु विप्रेन्द्र द्विर्दद्यात्तु पदाम्बुजे’ (१७।४६) इत्यनिरुद्धसंहितोक्तेः । इदानीं पाद्यप्रतिग्रहपादसंमा- र्जनवस्त्रपादानुलेपनान्यपि देयानि । आचमनं तु त्रिवारं समर्पणीयम् । तथा चोक्त- मनिरुद्धसंहितायाम्—‘आचामं च त्रिधा दद्याद् विमृश्य च सकृत्स्पृशेत्’ (१७।४८) इति । तदानीं ध्यानं चोक्तं पाद्मे— ध्यायेदाचमनीयस्य दानकाले जगद्गुरुम् ।