भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 138, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 138

षष्ठः परिच्छेदः ७९ आचामन्तमिवाम्भोभिः साक्षादम्भःपरिग्रहे ।। इति । अत्राचमनानन्तरं गन्धपुष्पमालादीपधूपसमर्पणं मधुपर्कानन्तरं ताम्बूलनिवेदनं चेश्वरपारमेश्वरादिषूक्तं ग्राह्यम् । तथा चोक्ताः पाद्मे मन्त्रासनोपचाराः— आवाहननमस्कारौ प्रत्युत्थानमनन्तरम् । पुष्पाञ्जलिः स्वागतोक्तिरासनं भद्रपीठिका ।। अर्घ्यं पाद्यप्रतिग्राहं पाद्यप्रोक्ताभिमर्शनम् । आलेपनं चरणयोश्चन्दनक्षोदवारिभिः ।। अपामाचमनीयं तु प्रतिग्रहणदर्शनम् । उपस्पर्शनमालेपश्चन्दनाद्यम्बुचर्चया ।। पुष्पमाला धूपदानं मधुपर्कनिवेदनम् । घनसारो नागवल्ली ........... .... ॥ इति ॥ २३-२४ ॥ अब आसनादि उपचारों के समर्पण का प्रकार कहते हैं—आवाहन किये गये उन प्रभु को जो पादपीठ सामान्य हो और कोमल आस्तरण से भूषित हो ऐसा श्रेष्ठ आसन और पादपीठ समर्पित करे । इसके बाद पाद्य, अर्घ्य, आचमनीय जलादि देकर पूजन करे ॥ २३-२४ ॥ सपुत्रदारमात्मानमष्टाङ्गपतनेन तु ॥ २४ ॥ चेतसा भक्तियुक्तेन निवेद्य तदनन्तरम् । आत्मात्मीयनिवेदनमाह—सपुत्रेति । अष्टाङ्गपतनेन (सा० ६।१८७-१८८) वक्ष्यमाणाष्टाङ्गप्रणामेन । इदानीमात्मनिवेदनविज्ञापनं चोक्तं पाद्मे— दासोऽहं ते जगन्नाथ सपुत्रादिपरिग्रहः । प्रेष्यः प्रशाधि कर्तव्ये मां नियुङ्क्ष्व हिते सदा ॥ इति ॥ २४-२५ ॥ इस प्रकार भक्ति युक्त चित्त से निवेदन करने के बाद साष्टाङ्ग प्रणिपात करके पुत्र दार सहित अपने को निवेदित करे ॥ २४-२५ ॥ भगवानथ विज्ञाप्यः कृत्वा तत्पादगौ करौ ॥ २५ ॥ स्फुटीकृतं मया देव त्विदं स्नानवरं त्वयि । सपादपीठं परमं शुभं स्नानासनं महत् ॥ २६ ॥ आसादयाशु स्नानार्थं मदनुग्रहकाम्यया । अथ स्नानार्थं विज्ञापनमाह—भगवानिति द्वाभ्याम् । कृत्वा तत्पादगौ करावित्यत्र व्यस्तकरावित्यर्थः । तथा चोक्तं पारमेश्वरे— कृत्वाभ्यर्च्यर्चिदादेवस्य पाणिना दक्षिणं पदम् । दक्षिणेनाथ वामेन वामं संगृह्य मन्त्रतः ॥ (६।३०२-३०३) इति ॥ २५-२७ ॥