सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 139, कुल 837 में से
संदर्भ में पढ़ें८० सात्वतसंहिता इसके बाद उनके चरणों पर अपना हाथ रख कर भगवान् से प्रार्थना करे कि हे देव ! मैंने आपके लिये स्नान सामग्री रख दी है । यह शुभ एवं मङ्गलदायी, पादपीठ और महान् स्नान का आसन है । हे प्रभो ! मेरे ऊपर अनुकम्पा कर स्नान के लिये लाई गई इस सामग्री को शीघ्र ग्रहण कीजिये ॥ २५-२७ ॥ स्नानासनं निवेद्याथ देवस्य द्वितयं तु वै ॥ २७ ॥ भक्तिनम्रेण शिरसा दद्यादर्घ्यं तु मूर्धनि । विनिवेद्य ततो हैमं सरत्नं च प्रतिग्रहम् ॥ २८ ॥ दद्याद्वै पाद्यकलशात् पाद्यं पादाम्बुजद्वये । सुशुभे पादुका चाथ तदन्ते स्नानशाटकम् ॥ २९ ॥ सुगन्धशालिसम्पूर्णं मात्रार्थं पात्रमुत्तमम् । दर्पणं पूर्णचन्द्राभं गन्धतोयमनन्तरम् ॥ ३० ॥ स्नानासनाद्युपचारानाह—स्नानासनमित्यादिभिः । अत्र पाणिप्रक्षालनार्थकगन्ध- तोयसमर्पणानन्तरं पादपीथोक्तावपि पाठक्रमादर्थक्रमस्य बलीयस्त्वेन स्नानासनसम- र्पणानन्तरमेव पादपीठोऽपि समर्पणीयः, 'सपादपीठं परमं शुभं स्नानासनं महत्' (६।२६) इति विज्ञापनश्लोक एवोक्तत्वात् । अत एव सात्वतोपबृंहणेश्वर(४।१४३) पारमेश्वर(६।३०४)योः स्नानासनानन्तरमेव पादपीठसमर्पणमुक्तम् । नन्वीश्वर(४।१४६)-पारमेश्वर(६।३०८)योरुभयोरपि 'पाणिप्रक्षालनार्थं तु पादपीठं ततः शुभम्' इति पाणिप्रक्षालनानन्तरमपि पादपीथोक्तिः परिदृश्यते, तस्याः का गतिरिति चेत्, सत्यम् । तत्रोभयत्रापि यथावस्थितसात्वतश्लोकानामेव प्रतिपादि- तत्त्वात् पौनरुक्त्यं दृश्यते । लक्ष्मीतन्त्रे तु— अनुज्ञाप्य ततः पश्चात् स्नानासनमनुत्तमम् । पादपीठमथार्घ्यं च ततः पाद्यप्रतिग्रहम् ॥ पाद्याम्बु पादुका स्नानशाटी मात्रा च शालिका । दर्पणं गन्धतोयं च पाणिप्रक्षालनार्थकम् ॥ दन्तकाष्ठं च वदनप्रक्षालाचमनाम्बुनी । गन्धतैलं च चूर्णं च शालिगोधूमसंभवम् ॥ हरिद्राचूर्णसंमिश्रमीषत् पङ्ककभावितम् । उद्वर्तनार्थं तदनु स्नानार्थं खलिसंयुतम् ॥ उष्णाम्बु चन्दनं चन्द्रमिश्रितं लेपनार्थकम् । (लक्ष्मी० ३९।५-९) इति सात्वतश्लोकानामुपबृंहितत्वान्न पादपीठपुनरुक्तिः । अतस्तत्पौनरुक्त्यं नानुष्ठानप्रतिपादकम्, किन्तु श्लोकपूरणार्थं ज्ञेयम् । यथा पारमेश्वरे मानसे भोगयाग- प्रकरणे—'मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु' (जय० १२।८१; पा० ५।१३०) इति जयाख्यवचने प्रतिपादितेऽप्यविरुद्धार्थं परिगृह्य विरुद्धं लक्ष्म्यादित्वं परित्यज्य हृन्मन्त्रादित्वमेवाङ्गीक्रियते, तद्वदिहापीति सन्तोष्टव्यमायुष्मता । अत एवा- स्मत्तातपादैः सात्वतामृते पाणिप्रक्षालनतोयसमर्पणानन्तरं पादपीठो नोक्तः ।