भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 139, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 139

८० सात्वतसंहिता इसके बाद उनके चरणों पर अपना हाथ रख कर भगवान् से प्रार्थना करे कि हे देव ! मैंने आपके लिये स्नान सामग्री रख दी है । यह शुभ एवं मङ्गलदायी, पादपीठ और महान् स्नान का आसन है । हे प्रभो ! मेरे ऊपर अनुकम्पा कर स्नान के लिये लाई गई इस सामग्री को शीघ्र ग्रहण कीजिये ॥ २५-२७ ॥ स्नानासनं निवेद्याथ देवस्य द्वितयं तु वै ॥ २७ ॥ भक्तिनम्रेण शिरसा दद्यादर्घ्यं तु मूर्धनि । विनिवेद्य ततो हैमं सरत्नं च प्रतिग्रहम् ॥ २८ ॥ दद्याद्वै पाद्यकलशात् पाद्यं पादाम्बुजद्वये । सुशुभे पादुका चाथ तदन्ते स्नानशाटकम् ॥ २९ ॥ सुगन्धशालिसम्पूर्णं मात्रार्थं पात्रमुत्तमम् । दर्पणं पूर्णचन्द्राभं गन्धतोयमनन्तरम् ॥ ३० ॥ स्नानासनाद्युपचारानाह—स्नानासनमित्यादिभिः । अत्र पाणिप्रक्षालनार्थकगन्ध- तोयसमर्पणानन्तरं पादपीथोक्तावपि पाठक्रमादर्थक्रमस्य बलीयस्त्वेन स्नानासनसम- र्पणानन्तरमेव पादपीठोऽपि समर्पणीयः, 'सपादपीठं परमं शुभं स्नानासनं महत्' (६।२६) इति विज्ञापनश्लोक एवोक्तत्वात् । अत एव सात्वतोपबृंहणेश्वर(४।१४३) पारमेश्वर(६।३०४)योः स्नानासनानन्तरमेव पादपीठसमर्पणमुक्तम् । नन्वीश्वर(४।१४६)-पारमेश्वर(६।३०८)योरुभयोरपि 'पाणिप्रक्षालनार्थं तु पादपीठं ततः शुभम्' इति पाणिप्रक्षालनानन्तरमपि पादपीथोक्तिः परिदृश्यते, तस्याः का गतिरिति चेत्, सत्यम् । तत्रोभयत्रापि यथावस्थितसात्वतश्लोकानामेव प्रतिपादि- तत्त्वात् पौनरुक्त्यं दृश्यते । लक्ष्मीतन्त्रे तु— अनुज्ञाप्य ततः पश्चात् स्नानासनमनुत्तमम् । पादपीठमथार्घ्यं च ततः पाद्यप्रतिग्रहम् ॥ पाद्याम्बु पादुका स्नानशाटी मात्रा च शालिका । दर्पणं गन्धतोयं च पाणिप्रक्षालनार्थकम् ॥ दन्तकाष्ठं च वदनप्रक्षालाचमनाम्बुनी । गन्धतैलं च चूर्णं च शालिगोधूमसंभवम् ॥ हरिद्राचूर्णसंमिश्रमीषत् पङ्ककभावितम् । उद्वर्तनार्थं तदनु स्नानार्थं खलिसंयुतम् ॥ उष्णाम्बु चन्दनं चन्द्रमिश्रितं लेपनार्थकम् । (लक्ष्मी० ३९।५-९) इति सात्वतश्लोकानामुपबृंहितत्वान्न पादपीठपुनरुक्तिः । अतस्तत्पौनरुक्त्यं नानुष्ठानप्रतिपादकम्, किन्तु श्लोकपूरणार्थं ज्ञेयम् । यथा पारमेश्वरे मानसे भोगयाग- प्रकरणे—'मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु' (जय० १२।८१; पा० ५।१३०) इति जयाख्यवचने प्रतिपादितेऽप्यविरुद्धार्थं परिगृह्य विरुद्धं लक्ष्म्यादित्वं परित्यज्य हृन्मन्त्रादित्वमेवाङ्गीक्रियते, तद्वदिहापीति सन्तोष्टव्यमायुष्मता । अत एवा- स्मत्तातपादैः सात्वतामृते पाणिप्रक्षालनतोयसमर्पणानन्तरं पादपीठो नोक्तः ।