सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 165, कुल 837 में से
संदर्भ में पढ़ें१०६ सात्वतसंहिता प्रोक्ष्यित्वाऽर्घ्यतोयेन पूजयित्वा निधाय च । स्रुक्स्रुवसंस्कारमाह—स्रुक्स्रुवाविति द्वाभ्याम् । पूजयित्वेत्यत्र स्रुक्स्रुवाधि- देवतास्तन्मन्त्राश्च जयाख्योक्ता ईश्वरपारमेश्वर्योरेव संगृहीताः ॥ ११३-११५ ॥ अब स्रुक्-स्रुवा का संस्कार कहते हैं—फिर स्रुक्स्रुवा हाथों में ले कर दर्भपुञ्ज से उसकी धूल पोछे । तदनन्तर जल द्वारा प्रक्षालन करे और दर्भकूर्च से पुनः साफ करे, फिर उत्तप्त अग्नि की ज्वाला में उसे प्रतप्त करे । तदनन्तर अर्घ्य जल से प्रोक्षण कर पूजन करे और स्थापित कर देवे ॥ ११३-११५ ॥ बहुशाखैरभग्नाग्रैः समूलैः सुसमैः कुशैः ॥ ११५ ॥ चतुर्भिर्वामहस्तेन त्वादायाथ पवित्रकम् । दक्षिणानामिकायां तु चतुष्काण्डविनिर्मितम् ॥ ११६ ॥ अङ्गुलीकरूपं च कृत्वा वै तदनन्तरम् । संस्कृताज्यस्य विप्रुड्भिः संस्पृशेदिन्धनादिकम् ॥ ११७ ॥ अथ वामहस्ते वलयपवित्रधारणं दक्षिणानामिकायां पवित्रधारणं चाह—बहु- शाखैरिति द्वाभ्याम् । पवित्रलक्षणं तु पारमेश्वरे— चतुरङ्गुलमात्रं तु सदा विष्ण्वधिदैवतम् । महाविष्ण्वधिदैवस्तु ग्रन्थिरेकाङ्गुलो भवेत् ॥ विष्ण्वधिदैवं वलयं द्वयमङ्गलमुच्यते । (३।२२-२३) इति । समिदादिषु संस्कृताज्यसेचनमाह— संस्कृतेति । विप्रुड्भिः = बिन्दुभिरित्यर्थः ॥ ११६-११७ ॥ जिस कुशा में बहुत शाखायें हों, जिसका अग्रभाग तथा मूल अभग्न हों, जो एक समान हों, ऐसे चार कुशाओं का वलय बना कर बायें हाथ में धारण करे तथा दक्षिण हाथ में चार गौंने वाले कुशा से अंगूठी के समान पवित्री बना कर उसे धारण करे और संस्कृत घी के बिन्दुओं को इन्धनादि पर छिड़क देवे ॥ ११५-११७ ॥ निःशेषदोषशान्त्यर्थमथाग्नेराहृतस्य च । शतं शतार्धं पादं वा त्वाहुतीनां स्वशक्तितः ॥ ११८ ॥ तिलानां घृतसिक्तानां शुद्धेन हविषा सह । होतव्यं कर्मसिद्ध्यर्थं यथा तदवधारय ॥ ११९ ॥ आहुत्यामुद्धृतायां च मूलमन्त्रावसानतः । प्रणवान्तं पदं ब्रूयादग्निं शोधय शोधय ॥ १२० ॥ यथावस्थितरूपेण ततस्तेनैव बुद्धिमान् । दद्यात् पूर्णाहुतिं पश्चात् कृतेन तु चतुष्प्लीम् ॥ १२१ ॥