भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 173, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 173

११४ सात्वतसंहिता नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ पदमन्त्रश्रुतर्थोऽयं प्रणवस्य पुरन्दर । ॐकारसहितानेतान् मन्त्रान् पूर्वविदो विदुः ॥ केवलस्तारकश्चैव चत्वारश्च तदादिकाः । पञ्चैते व्यापका मन्त्राः पञ्चरात्रे प्रकीर्तिताः ॥ इति ॥ —(२४।६७-७०, ७४) अत एव— सम्प्रोक्ष्यार्घ्याम्भसा चेध्मान् चतुर्था संविभज्य च । पूजयेदर्घ्यपुष्पाभ्यां द्वादशाक्षरविद्यया ॥ (६।१०६) इति वासुदेवाद्युद्देशेन चतुर्था विभक्तानामिध्मानां तन्मन्त्रैरर्चनीयत्वेऽपि द्वादशा- क्षरस्य व्यापकत्वाद् द्वादशाक्षरविद्ययेत्युक्तम् । एवं भद्रपीठशोधनप्रकरणेऽपि— 'प्रक्षाल्य द्वादशार्णेन प्रणवाद्यन्तकेन तु' (६।४) इत्युक्तम् । नन्वत्रोभयत्रापि व्यापकं वासुदेवद्वादशाक्षरमिति को वा नियमः, तस्य पूर्वमनु- क्तत्वात् । उक्तेष्वेव योऽसौ द्वादशाक्षरः, स तु ग्राह्यः । स चाप्यार्चनप्रकरणोक्त- श्रुत्यर्थमन्त्रः स्यादिति चेन्न, तस्याप्यव्यक्रमेणार्चनप्रकरण एवोपयुक्तत्वात्, एकव्यक्ति- मात्रनियततया चातुरात्म्यार्चनप्रकरणेऽनुपयुक्तत्वाच्च, अत्र केवलप्रणवेनाप्यर्चनोक्त्या उक्तेष्वेवान्यतमो ग्राह्य इति नियमाभावाच्च व्यापकं द्वादशाक्षरमेव ग्राह्यमिति सिद्धम् । एवं पुष्पार्चनान्तं नित्ययागो ज्ञेयः । तथा च लक्ष्मीतन्त्रे— पुष्पाञ्जलिमुपादाय वह्निस्थामर्चयेत् ततः । नित्ययागोऽमेतावानूर्ध्वं कामाहुतिं क्षिपेत् ॥ यदि कामयमानः स्यात् तत्तद्विध्यनुरूपिणीम् ।—(४०।७१-७२) इति ॥ १५५-१५६ ॥ इसके पश्चात् जल रहित आज्यार्घ्य सहित कुसुमों से चार बार समन्त्रक प्रभु की पूजा करे ॥ १५५-१५६ ॥ ततो मोक्षाप्तये होमं यथाशक्ति समाचरेत् ॥ १५६ ॥ शतपूर्वं सहस्रान्तं दद्यात् पूर्णाहुतिं ततः । एकं मन्त्रचतुष्केण चतुर्भिश्चतुरोऽथवा ॥ १५७ ॥ ततः शतादिसंख्यया यथाशक्ति मोक्षार्थं होमम्, तदन्ते वासुदेवमन्त्रचतुष्टयेन सकृदेव पूर्णाहुतिम्, यद्वा प्रतिमन्त्रं पूर्णाहुतिचतुष्टयं जुहुयादित्याह—तत इति सार्धेन । अत्रापेक्षिताः काम्याहुतिभेदा होमद्रव्यप्रमाणादीनि स्विष्टकृत्प्रायश्चित्तपूर्णाहुतिप्रकारा- दयो बहवो विशेषा ईश्वरादिषु प्रतिपादिता ग्राह्याः ॥ १५६-१५७ ॥ इसके बाद साधक मोक्षप्राप्ति के लिये यथा शक्ति सौ अथवा सहस्र संख्या पर्यन्त होम करे । फिर पूर्णाहुति करे । चार मन्त्रों से एक बार में पूर्णाहुति करे अथवा चार मन्त्रों से चार बार आहुति देकर पूर्णाहुति करे ॥ १५६-१५७ ॥