भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 174, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 174

षष्ठः परिच्छेदः ११५ प्राग्वत् पूजां पुनः कुर्याद् दर्भैः संमार्ज्य च स्रुचम् । यथा भवति निःस्नेहमथ प्राक्स्थापितेन तु ॥ १५८ ॥ पुरतश्चाम्भसाऽऽपूर्य तां च पात्रेण तेन वा । प्रागादौ कुण्डबाह्ये तु प्रादक्षिण्‍येन सेचयेत् ॥ १५९ ॥ पवित्रकेणाथ ऊर्ध्वं विनिक्षिप्य करेण वा । शेषं स्वशिरसो दद्यात् स्वस्थानेऽथ त्वधोमुखे ॥ १६० ॥ उत्तरपूजापूर्वकं स्रुक्स्रुवसंमार्जनपरिषेचनादिकमाह—प्राग्वदिति सपादैस्त्रिभिः । प्राग् आसादनकाले पुरतः स्वाग्रतः स्थापितेनाम्भसा अर्घ्योदकेनेत्यर्थः, 'अर्घ्यपात्रात्तु चापूर्य कुण्डबाह्ये प्रदक्षिणम्' (ई०सं० ५।२७६; पा०सं० ७।२४५) इतीश्वरपार- मेश्वरोक्तेः । तां स्रुचमित्यर्थः । चकारेण तस्या अपि दर्भैः सम्मार्जनमर्घ्यपूरणं चोच्यते । पात्रेण तेन वा स्रुचा स्रुवेणेत्यर्थः । ऊर्ध्वं कुण्डोर्ध्व इत्यर्थः । स्वस्थाने पूर्वं यत्रासादितौ तत्रेत्यर्थः । होमभाण्डे स्रुक्स्रुवावित्यर्थः ॥ १५८-१६१ ॥ फिर कुशा से स्रुवा का संमार्जन कर उसे स्नेह रक्षित कर (सुखा कर) उसकी पूजा करे । फिर उस स्रुवा को जल से भर कर अथवा उसी जल पात्र से ही सर्वप्रथम पूर्व में, फिर कुण्ड के बाहर, फिर दाहिनी ओर सर्वत्र जल छिड़के ॥ १५८-१५९ ॥ फिर पवित्री से ऊर्ध्व में, अथवा हाथ से जल सर्वत्र छिड़के । शेष जल से अपने शिर पर, अपने स्थान पर, अथवा अपने नीचे जल छिड़के ॥ १६० ॥ निदध्याद्धोमभाण्डे ते भस्मना तदनन्तरम् । जलनिर्मथितेनैव ह्यूर्ध्वपुण्ड्रचतुष्टयम् ॥ १६१ ॥ हृद्यंसयोर्ललाटे च कुर्याद् दीपशिखाकृति । होमाङ्गं तिलकधारणमाह—भस्मेनेति । अत्र मन्त्राश्चोक्ताः पारमेश्वरे—'शिर- स्तनुत्रहन्मन्त्रैर्ललाटे चांसयोर्हृदि' (७।१४१) इति । एवं भस्मना तिलकधारणं वैष्णवानां विरुद्धमिति न शङ्कनीयम्, अग्निकार्याङ्ग- त्वात् । तथा च सच्चरित्ररक्षायामूर्ध्वपुण्ड्राधिकारे—'तत्र हि पूर्वमेव धृतोर्ध्वपुण्ड्रस्य समाराधितवासुदेवस्याग्निकार्यसमनन्तरमिदं विधीयमानं तत्रैवाग्निकार्यानुप्रविष्टं मन्त- व्यमायुष्मता' (पृ० ६९) इति ॥ १६१-१६२ ॥ फिर स्रुक् स्रुवा स्थापित करे । तदनन्तर भस्म का तिलक करे । फिर जल से भिगोकर चार स्थानों पर ऊर्ध्वपुण्ड्र लगाये ॥ १६१ ॥ यह ऊर्ध्वकुण्ड हृदय में दोनों कन्धों में तथा ललाट में, इन चारों स्थानों में दीपशिखा की आकृति के समान लगाना चाहिए ॥ १६२ ॥ एवं परिसमाप्ते तु अग्निकार्येऽर्पिते सति ॥ १६२ ॥ संविभागः पितॄणां च यथा कार्यस्तथोच्यते ।