सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 175, कुल 837 में से
संदर्भ में पढ़ें१९६ सात्वतसंहिता एवं कृतस्य होमस्य भगवदर्पणानन्तरं पितृसंविभागः कार्य इत्याह-एवमिति । भगवते होमसमर्पणप्रकारस्त्वीश्वरादिषु प्रदर्शितो ग्राह्यः ॥ १६२-१६३ ॥ इस प्रकार यज्ञ कार्य के समाप्त हो जाने पर समस्त अग्निकार्य (याग) को विष्णु को समर्पित कर देने पर, जिस प्रकार पितरों को संविभाग प्रदान करना चाहिये । अब उसे कहा जा रहा है ॥ १६२-१६३ ॥ कुण्डस्य योनिनिकटे दक्षिणाग्रान् स्तरेत् कुशान् ॥ १६३ ॥ भद्रपीठसमीपे तु क्ष्मातले वा तदूर्ध्वतः । संविभागस्थानमाह-कुण्डस्येति ॥ १६३-१६४ ॥ कुण्ड के योनि के निकट दक्षिणाग्र कुशा बिछावें । किं वा भद्रपीठ के समीप, अथवा पृथ्वी के ऊपर दक्षिणाग्र कुशा बिछावें ॥ १६३-१६४ ॥ स्तरोपरि विकीर्याथ तिलान् सरजतोदकान् ॥ १६४ ॥ क्रमेण भावयेत् तत्र पितृनथ पितामहान् । तत्र दक्षिणाग्रकुशास्तरणोपरि तिलोदकविकिरणपूर्वकं पित्रादीनां भावनामाह— स्तरोपरीति । अत्र पितृपितामहशब्दाभ्यां प्रपितामहवृद्धप्रपितामहौ चोपलक्ष्येते, स्तरोर्ध्वे स्वस्वसंज्ञाभिरभ्रान्तं तु यथाक्रमम् । भावयेत् पुरुषादीनां सारूप्यं समुपागतान् ॥ पितॄन् पितामहांश्चैव तथैव प्रपितामहान् । तत्पितॄंश्चाथ शंसन्तः सन्तानं स्वविभागतः ॥-(७।२९४-२९५) इति पारमेश्वरोक्तेः ॥ १६४-१६५ ॥ इसके बाद उन कुशों पर तिल तथा चाँदी के पात्र का जल छिड़क देवे । तदनन्तर क्रमशः पिता, पितामह और प्रपितामह का क्रमशः उनकी तृप्ति के लिये ध्यान करे ॥ १६४-१६५ ॥ तृप्तये ह्याथ सर्वेषां देवाय विनिवेद्य च ॥ १६५ ॥ प्रोक्षितान्यन्नपात्राणि चत्वारि कबलानि वा । स्तरोर्ध्वे तु निधायाथ सम्पूज्यार्घ्यादिना ततः ॥ १६६ ॥ क्रमेण चातुरात्म्यैर्मन्त्रैरप्यययोगतः । ततस्तु नाम्ना गोत्रेण मन्त्रपूर्वं तिलोदकम् ॥ १६७ ॥ सर्वेषामर्घ्यकलशात् प्रदद्याच्च यथाक्रमम् । अथ तेषां पिण्डनिर्वापणमर्घ्याद्यर्चनं तिलोदकप्रदानं चाह—तृप्तय इति त्रिभिः । अत्र देवाय विनिवेद्येत्यत्र पाकपात्रावशिष्टान्नादिकमिति ज्ञेयम्, निवेदितस्य पुनर्निवेदना- योगात् । तथा च पारमेश्वरे— ये यजन्ति पितॄन् देवान् गुरून्पि तथैव च ।