सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 176, कुल 837 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः ११७ स्थापितस्त्वनुयागार्थं प्रापणांशः पुरा तु यः । तस्मात् किञ्चित् समादाय संविभागं समाचरेत् । पितॄणां चैव बन्धूनामाश्रितानां तथैव च । संविभागावशिष्टेन स्वानुयागं समाचरेत् । यद्वा स्थाल्यवशिष्टं च किञ्चिदादाय पात्रगम् । प्राग्वन्निवेद्य देवाय तेन पित्र्यं समाचरेत् । ये वैश्वदेवनिरता विप्राद्या वैष्णवाश्च ते । यल्लब्धं भगवद्भुक्तं तस्मादादाय चांशकम् । तेन कृत्वा वैश्वदेवमवशिष्टांशकेन तु । कुर्युः प्राणादियात्रां तु विधानेन द्विजोत्तम ॥ इति ॥ सच्चरित्ररक्षायां (पृ० १२७-१२८) चोदाहृता इमे श्लोकाः । अन्नपात्राणी- त्यत्र पारमेश्वरे— तमालकदलीपूर्वदलेषु क्षालितेषु च ॥ संविभज्य चतुर्थात्रं निधाय प्रणवेन तु । —(७।२९९-३००) इत्युक्तं ज्ञेयम् । स्तरोर्ध्वे निधायेत्यत्र मन्त्रश्चोक्तः पारमेश्वरे— प्राग्वत् स्वधावसानाद्यैर्मन्त्रैरोङ्कारपूर्वकैः । हृन्मन्त्रालङ्कृतैर्विप्र तथा संज्ञापदान्वितैः ॥ पिण्डं प्रकल्पयामीति ततः पूर्ववदाचरेत् । —(७।३०३-३०४) इति पिण्डोपरि दर्भैराश्छादनं पूर्वमास्तरणोपरि भावितानां पितृपितामहादीनां तत्रा- वाहनं च प्रतिपादितं तत्रैव— प्रणवैर्दक्षिणाग्राणि सेचितानि तिलाम्बुना ॥ नाडीरूपाणि दर्भाणि पिण्डानामूर्ध्वतो न्यसेत् । प्रविष्टान् भावयेत् तेषु नाडीमार्गैरनुक्रमात् ॥ पितॄनावाहयामीति स्तरोर्ध्वं प्राक्स्थितांस्ततः । —(७।३०४-३०६) इति । अर्घ्यादिनेत्यत्रादिशब्देन गन्धादयो ग्राह्याः । अप्य(थ योऽत्र नाव? ययोगतः पितॄनावाह)यामीति स्तरोर्ध्वं गतः । चातुरात्मीयैमन्त्रैः ॐपुरुषाय नम इत्यादि- भिश्चतुर्भिः पूर्वोक्तैर्मन्त्रैरित्यर्थः । नाम्ना गोत्रेण मन्त्रपूर्वं तिलोदकं दद्यादिति । अत्रैवं प्रयोगः—ॐपुरुषाय नमः, मौञ्ज्यायनगोत्राय नृसिंहशर्मणे पुरुषरूपिणे पित्रे इदं तिलोदकं ददामीति । एवं पितामहादीनाप्यूह्यम् । अर्घ्यादिसमर्पणेऽप्येवमेव मन्त्रा ज्ञेयाः ॥ १६५-१६८ ॥ देवताओं के निवेदन से शेष बचे हुए अन्न पात्रादि परिस्तरण के ऊपर रखे । इसके बाद पुरुषाय नमः इत्यादि चतुरात्म्य मन्त्रों से क्रमशः पितरों की अर्घ्यादि द्वारा पूजा करे । फिर नाम गोत्र उच्चारण कर सभी को अर्घ्य कलश से तिलोदक निकाल कर क्रमानुसार प्रदान करे ॥ १६५-१६८ ॥