सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 197, कुल 837 में से
संदर्भ में पढ़ें१३८ सात्वतसंहिता व्रतारम्भकर्तव्यतानिरूपणम् कर्तव्यमिति वै कर्म त्वैश्वर्यं यः समाचरेत् । भक्त्या व्रतच्छलेनैव तस्यायं विहितः क्रमः ॥ १० ॥ अतो वासुदेवादीनां केशवादीनां च प्रीणनव्रतानुष्ठानक्रमो वक्ष्यत इत्याह— कर्तव्यमितीति । ऐश्वर्यम् ईश्वरसम्बन्धि, तत्प्रीणनमित्यर्थः । यद्वा ऐहलौकिकैश्वर्यादि- सम्पादकमित्यर्थः । उभयथा कर्मणो विशेषणम् ॥ १० ॥ अब वासुदेवादि तथा केशवादिकों को प्रसन्न करने के लिये व्रतानुष्ठान का क्रम कहते हैं—जो वैष्णव ऐहलौकिक ऐश्वर्यादि के सम्पादन करने वाले, कर्म एवं भक्ति से अथवा व्रतादि के बहाने से भी व्रतानुष्ठान करता है उसके लिये यह विहित कर्म है ॥ १० ॥ कार्तिकस्य दशम्यां तु मासस्य तु निशागमे । घृतेन पञ्चगव्येन बिम्बपादाम्भसा तु वा ॥ ११ ॥ कृत्वा स्वकोष्ठसंशुद्धिं निस्सृत्योदरगं मलम् । स्मरन् प्रभुं समाचम्य पाणौ कृत्वा कुशोदकम् ॥ १२ ॥ तत्क्षेपपूर्वकं सङ्कल्प आवर्तव्यो व्रतं प्रति । ॐ व्रताधिपतये देव नित्यनिर्मलमूर्तये ॥ १३ ॥ वत्सरं परिपीडैस्तु त्वामहं तोषयाम्यजम्। दशम्यां सायंकाले पञ्चगव्या(द्य)न्यतमप्राशनेन स्वशरीरशुद्धिमाचमनप्राणायामौ कुशोदकप्रक्षेपपूर्वकं संकल्पं चाह—कार्तिकस्येति सार्धद्वाभ्याम् । घृतेन पञ्चगव्येन बिम्बपादाम्भसा तु वेत्यत्रोत्तरोत्तरं श्रेष्ठं सम्बोध्यम् । तथा च सच्चरित्ररक्षायां तृतीयेऽधिकारे ब्रह्माण्डे— पृथिव्यां यानि तीर्थानि तेषु स्नातेषु यत्फलम् । विष्णोः पादोदकं मूर्ध्नि धारयेत् सर्वमाप्नुयात् ॥ मानवो यस्तु गङ्गायां स्नानं पानं समाचरेत् । तस्य यादृग् भवेत् पुण्यं तादृक् पादाम्बुधारणात् ॥ त्रिषु लोकेषु यत्तीर्थं प्रयागं पुष्करादिकम् । तत्पादयुग्मे कृष्णस्य तत्र तिष्ठति नित्यशः ॥ श्रीभागवते— पादोदकस्य माहात्म्यं जानात्येव हि शङ्करः । विष्णुपादोद्भवां गङ्गां शिरसा धारयन् हि सः ॥ प्रायश्चित्तमनुप्राप्तः कृच्छ्रं वाप्यघमर्षणम् । विष्णुपादोदकं पीत्वा शुद्धिमाप्नोति तत्क्षणात् ॥ (पृ०११०)