सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 220, कुल 837 में से
संदर्भ में पढ़ेंअष्टमः परिच्छेदः समन्त्रकव्रतविधिः श्रीभगवानुवाच व्रतमेतदमन्त्रं च सामान्यं सार्वलौकिकम् । सितेतरविभागेन प्रोक्तं मन्त्रद्वय शृणु ॥ १ ॥ अथाष्टमो व्याख्यास्यते । पूर्वममन्त्रकं व्रतमुक्तम्, इदानीं समन्त्रकं शृण्वित्याह— व्रतमिति । सामान्यं सार्वलौकिकं ब्राह्मणादिचतुर्वर्णानामिति साधारणमित्यर्थः । समन्त्रकं व्रतं तु ब्राह्मणमात्रकार्यम् । उक्तं खलु (प्रथमे? द्वितीये) परिच्छेदे— व्यामिश्रयागयुक्तानां विप्राणां वेदवादिनाम् ॥ समन्त्रे तु चतुर्व्यूहे अधिकारो न चान्यथा । त्रयाणां क्षत्रियादीनां प्रपन्नानां च तत्त्वतः ॥ अमन्त्रमधिकारस्तु चतुर्व्यूहक्रियाक्रमे । (२।८-१०) इति ॥ १ ॥ श्री भगवान् ने कहा—हे सङ्कर्षण! यह सार्वलौकिक एवं सामान्य अमन्त्रक व्रत कहा गया है । सामान्य तथा सार्वलौकिक इसलिये है कि ब्राह्मणादि चारों वर्णों के लिये अनुष्ठेय है । किन्तु आगे कहा जाने वाला वक्ष्यमाण व्रत 'समन्त्रक व्रत' है और केवल ब्राह्मण मात्र के लिये कर्तव्य है ॥ १ ॥ प्राग् गुरुं प्रार्थयित्वा तु दृष्टादृष्टप्रदः स हि । ज्ञात्वा स्थिरमतिं कुर्यात् तदर्थे चक्रमण्डलम् ॥ २ ॥ प्रथमं शिष्यो गुरुं प्रार्थयेत्, गुरुः शिष्यं स्थिरबुद्धिं ज्ञात्वा तद्व्रतार्थं मण्डलं विलिखेदित्याह—प्रागिति । प्रार्थयित्वा कृतकृत्यो भवेदिति भावः ॥ २ ॥ प्रथमतः शिष्य गुरु की प्रार्थना करे, क्योंकि गुरु दृष्ट एवं अदृष्ट दोनों प्रकार के फलों को देने वाला है । तदनन्तर गुरु शिष्य को वैष्णव धर्म के लिये स्थिरबुद्धि समझ कर शिष्य के लिये चक्र मण्डल का निर्माण करे ॥ २ ॥ चातुरात्म्यार्चनम्, अङ्गमन्त्रार्चनञ्च तन्मध्ये चतुरात्मा तु यष्टव्यः कर्णिकोपरि । चतुर्दिक्ष्वीक्षमाणस्तु वासुदेवादितः क्रमात् ॥ ३ ॥