भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 221, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 221

१६२ सात्वतसंहिता तन्मण्डलमध्ये कर्णिकोपरि वासुदेवादिचातुरात्म्यार्चनं कार्यमित्याह—तन्मध्य इति ॥ ३ ॥ उस मण्डल के मध्य में कर्णिका के ऊपर वासुदेवादि चातुरात्म्य का क्रमशः चारों दिशाओं में अर्चन करे ॥ ३ ॥ हृदादिनेत्रपर्यन्तमङ्गषट्कं यजेत् ततः । अर्घ्यादिभिः क्रमाद् भोगैर्व्रतज्ञेन पुराहृतैः ॥ ४ ॥ तदनन्तरमङ्गमन्त्रार्चनं वासुदेवादीनामर्घ्यादिभिः पूजनं चाह—हृदादीति । अङ्गमन्त्राणामर्चनस्थानं तु— तदोदितं विभोर्देहाद् हृदयाद्यं चतुष्टयम् ॥ न्यसेत् कमलपत्राणामा पूर्वाद्युत्तरान्तिमम् । अग्नीशरक्षोवायव्यदलेष्वस्त्रं यथाक्रमम् ॥ नेत्रं केसरजालस्थं चक्रं नाभित्रयोपरि । (१७।६५-६७) इति नृसिंहकल्पे वक्ष्यमाणं ज्ञेयम् ॥ ४ ॥ तदनन्तर हृदय से लेकर नेत्र पर्यन्त स्थान में षडङ्गन्यास करे । फिर पहले से एकत्रित अर्घ्यादि भोगों से उन वासुदेवादि का अर्चन करे ॥ ४ ॥ ततः कुण्डान्तरे चैव संस्कृतेऽग्नौ च विन्यसेत् । चक्रं मन्त्रगणोपेतं समिद्भिस्तर्पयेत् क्रमात् ॥ ५ ॥ पश्चात् तण्डुलसंमिश्रैः सघृतैर्बहुभिस्तिलैः । सचक्रमण्डलस्य भगवतोऽग्निमध्ये ध्यानं सन्तर्पणं चाह— तत इति सार्धेन ॥ ५-६ ॥ इसके बाद कुण्ड के भीतर स्थापित अग्नि में न्यास करे । तदनन्तर समस्त मन्त्रगणों से युक्त चक्र का क्रमशः समिधाओं से तर्पण करे । इसके बाद तण्डुल मिश्रित अधिकाधिक घृत और तिलों से होम करे ॥ ५-६ ॥ अर्घ्योदकेन शिरसा पवित्रीकृत्य साम्प्रतम् ॥ ६ ॥ नतजानुशिरः शिष्यं कृत्वासौ श्रावयेत् प्रभुम् । त्वदाराधनकामोऽयं व्रतं चरितुमिच्छति ॥ ७ ॥ सङ्कल्पसिद्धयै भगवन् पूरयास्य मनोरथान् । इति विज्ञाप्य देवेशं ततः पुष्पाणि दापयेत् ॥ ८ ॥ ततः शिष्यं शिरोमन्त्रेण प्रोक्ष्य तं नतजानुशिरस्कं कृत्वा त्वदाराधनश्लोकं विज्ञाप्य शिष्याञ्जलिस्थपुष्पाणि मण्डलोपरि प्रदापयेदित्याह—अर्घ्योदकेनेति सार्ध- द्वाभ्याम् । यद्यप्यस्मिन् त्वदाराधनकामोऽयमित्यादिश्लोके व्रतशब्दस्य विद्यमानत्वात्,