भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 222, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 222

अष्टमः परिच्छेदः १६३ अयमस्येति पदद्वयेन पुरोव(र्ति)शिष्यस्योक्तत्वाच्च व्रतप्रकरण एवाचार्येण विज्ञापनीयो- ऽयं श्लोकः, तथापि नित्याराधनस्यापि शातवार्षिकव्रतरूपत्वात्, अयमस्येति पद- द्वयस्य स्वात्मव्यवहारेऽपि योग्यत्वाच्च वङ्गिवंशेश्वरकृतनित्यार्चनकारिकादिष्वप्ययं श्लोकः प्रतिपादितः । अतोऽस्मत्तातपादैरपि सात्वतामृते चोक्त इति बोध्यम् ॥ ६-८ ॥ इसके बाद अर्घ्यादिक से तथा शिरो मन्त्र से शिष्य का प्रोक्षण करे । फिर शिष्य को साष्टाङ्ग सिर झुका कर उसके लिये प्रभु से गुरु प्रार्थना करे । हे भगवन् ! यह मेरा शिष्य आप की आराधना करने के लिये व्रताचरण करना चाहता है । अतः हे भगवन् ! इसके संकल्प की सिद्धि के लिये आप इसका मनोरथ पूर्ण करें । भगवान् से इतना निवेदन करने के बाद शिष्य से अञ्जलिस्थ पुष्पों को प्रदान करवाये ॥ ६-८ ॥ अष्टाङ्गमथ वै कुर्यात् प्रणामं सप्रदक्षिणम् । भूयो भूयोऽनवच्छिन्नं भक्तिश्रद्धापुरस्सरम् ॥ ९ ॥ प्रदक्षिणप्रणामावाह—अष्टाङ्गमिति । चतुर्मूर्तीनामपि चतुर्वारं प्रणामस्य कर्तव्य- त्वाद् भूयो भूय इत्युक्तम्, नैतावताऽसकृत् प्रणामसिद्धिः ॥ ९ ॥ ततस्तस्योपदेष्टव्यं विधानं मन्त्रपूर्वकम् । सान्तं षष्ठस्वरारूढमनुस्वारविभूषितम् ॥ १० ॥ बीजमाद्यस्य च विभोर्वासुदेवस्य कीर्तितम् । तदेव जीवबीजस्थं षष्ठस्वरविवर्जितम् ॥ ११ ॥ द्वितीयस्वरसंयुक्तं सङ्कर्षणस्य बीजराट् । उभयोरन्तरे रेफमाद्यबीजस्य योजयेत् ॥ १२ ॥ बीजं प्रद्युम्ननाथस्य तृतीयं सर्वकामदम् । जीवारूढं हकारं तु लान्तस्योपरि विन्यसेत् ॥ १३ ॥ विसर्गसहितं बीजमनिरुद्धस्य वाचकम् । द्विभुजाः सर्व एवैते सूर्येन्दुशतसन्निभाः ॥ १४ ॥ शिष्यस्य व्रतार्थं मन्त्रोपदेशमाह—तत इत्यर्धेन । वासुदेवादिबीजचतुष्टयमाह— सान्तमिति चतुर्भिः । सान्तं सकारान्ते स्थितं हकाराख्यं वर्णं षष्ठस्वरारूढम्, ऊकारान्वितम् अनुस्वारविभूषितं बिन्दुसंयुक्तम् । तथा च हूमिति वासुदेवस्य बीजं भवति । तदेव हकाराख्यं वर्णमेव । जीवबीजस्थं सकारान्वितम्, षष्ठस्वरविवर्जितम् = ऊकाररहितम्, द्वितीयस्वरसंयुक्तम् = आकारान्वितम् । तथा च ह्सामिति सङ्कर्षणस्य बीजं भवति । आद्यबीजस्य वासुदेवबीजस्य, उभयोरन्तरे हकारोकारयोरन्तरे, रेफं योजयेत् । तथा च ह्रूमिति प्रद्युम्नस्य बीजं भवति । जीवारूढं सकारस्थं हकारं लान्तस्य वकारस्योपरि न्यसेत्, विसर्गसहितम् अन्तिमस्वरसंयुक्तं च कुर्यात् । तथा च ह्सृवमित्यनिरुद्धबीजं भवति ।

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक) · पृष्ठ 222, कुल 837 में से · BharatKosha