सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 233, कुल 837 में से
संदर्भ में पढ़ें१७४ सात्वतसंहिता दक्षिणोत्तरपाणिभ्यां पृष्ठतः केशवादिषु ॥ ५८ ॥ युग्मं युग्मं परिज्ञेयं क्रमेणोर्ध्वगतं त्विदम् । शङ्खचक्रकजं विद्या साथ शङ्खोऽथ हेतिराट् ॥ ५९ ॥ तच्छङ्खं सकजं विद्याऽशङ्खं चक्रं गदा त्वरि । गदा चक्रं कजं पद्मं चक्रं शङ्खं ततो गदा ॥ ६० ॥ केशवादीनां पश्चात्करद्वयस्थितलाञ्छनक्रममाह—दक्षिणोत्तरेति सार्धद्वाभ्याम् । कजं = पद्ममित्यर्थः । विद्या = गदेत्यर्थः । तद् अम्बुजं = सशङ्खमित्यर्थः । विद्याशङ्खमिति पदच्छेदः । अशङ्खं = चक्रमित्यर्थः । यतोऽन्यथा त्रिविक्रमस्य शङ्खद्वयसाधारणं भवति । ननु किं तावता प्रत्यवाय इति चेन्न, प्रत्येकमायुध- चतुष्टयधारणनियमात् । विद्या चक्रमिति पाठश्रेदेवं क्लिष्टकल्पनश्रम एव नास्ति । अरि चक्रमित्यर्थः ॥ ५८-६० ॥ अब केशवादि के पश्चात् दो-दो हाथों में स्थित लाञ्छन कहते हैं—ऊर्ध्व के दक्षिण एवं उत्तर पाणि में क्रमशः दो-दो लाञ्छन इस प्रकार है—शङ्ख, चक्र, कज (पद्म), विद्या (गदा), शङ्ख, हेतिराट् (चक्र), शङ्ख, पद्म, विद्या, चक्र, चक्र, गदा, अरि (चक्र), गदा, चक्र, कज (पद्म), पद्म, चक्र, शङ्ख, गदा ॥ ५८-६० ॥ तद्वद् भूयोऽग्रसंस्थाभ्यामधरस्थं द्वयं द्वयम् । ज्ञेयं दामोदरान्तानां द्वादशानामिदं शृणु ॥ ६१ ॥ पद्मं गदा ध्वनिश्चक्रं तत्पद्मं हेतिराड् ध्वनिः । विद्या चक्रं च तद्विद्यात् पद्मं शङ्खं च साऽम्बुजम् ॥ ६२ ॥ पद्मध्वनिगदाशङ्खाः सविद्याम्बुरुहं त्वरि । अथ मुख्यहस्तद्वयस्थितायुधक्रममाह—तद्वदिति सार्धद्वाभ्याम् । ध्वनिः शङ्ख- मित्यर्थः । तत् चक्रमित्यर्थः पुनः तच्चक्रमित्यर्थः । स शङ्ख इत्यर्थः । पुनः स शङ्ख इत्यर्थः । एवं च पद्मगदाशङ्खचक्राख्यायुधचतुष्टयधारणं केशवादिद्वादशमूर्तीनामपि समानम्, किन्तु हस्तभेदैस्तद्धारणमेव तत्तन्मूर्तेर्विशेषः । स च तन्त्रभेदेन नैकरूपः । वस्तुतस्तु पाद्मोक्त एव प्रायेणैतदेककण्ठो भवति तथाहि— केशवस्याम्बुजं शङ्खं चक्रं दण्डस्थायुधम् । प्रादक्षिण्येने बाहूनामन्येषामुच्यते क्रमात् ॥ नारायणः शङ्खपद्मगदाचक्रधरः स्मृतः । माधवो गदया सार्धं शङ्खचक्राम्बुजायुधः ॥ गोविन्दश्चक्रदण्डाब्जशङ्खायुधधरो भवेत् । विष्णुर्गदाब्जशङ्खारिधरः स्यान्मधुसूदनः ॥ चक्रशङ्खाब्जदण्डास्त्रधरः कार्यस्त्रिविक्रमः । पद्मशङ्खारिदण्डास्त्रो वामनः शङ्खचक्रधृक् ॥ गदाब्जपाणिश्च तथा श्रीधरो धृतवारिजः ।