सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 234, कुल 837 में से
संदर्भ में पढ़ेंअष्टमः परिच्छेदः १७५ सार्धं चक्रगदाशङ्खो हृषीकेशमतः शृणु ॥ गदाचक्राब्जशङ्खास्त्रधरो दामोदरः स्मृतः । अब्जशङ्खगदाचक्रधरा द्वादश मूर्तयः ॥ इति । अत्र त्रिविक्रमपद्मनाभोक्तलक्षणं विनाऽन्यत् सर्वमेकरूपं ज्ञेयम् । नन्वेतदुक्तं नारायणमूर्तिलक्षणं यादवाचलस्थनारायणमूर्ती न लक्ष्यत इति चेत्, सत्यम् । न तावता प्रत्यवायोऽस्ति, स्वयं व्यक्तस्य निरङ्कुशत्वात् । ननु स च नारायण- मूर्तिरेवेत्यत्र किं विनिगमकमिति चेत्, अस्ति पौराणिकी प्रसिद्धिः । न च पौराणिक- नारायणशब्दस्य व्यापकत्वान्न मूर्तिनिर्णायकत्वमिति वाच्यम्, केशवः केशिहा लोके कुरुक्षेत्रादिषु स्थितः । नारायणो मुनिश्रेष्ठाः स्थितो नारायणाचले ॥ —(पौ० सं० ३६।३०६, ई०सं० २०१२१-२२) इति पौष्करेश्वरयोर्मूर्तिविशेषनियतशब्देनैव व्यक्तोक्तेः । किञ्च, पौष्करोक्तं नारायणमूर्तिलक्षणं यादवाचलस्थनारायणे लक्ष्यत एव । तथाहि— सव्यापसव्यहस्ताभ्यां मुखाभ्यां तु गदाम्बुजे ॥ वामादौ शङ्खचक्रौ तु संधत्ते पश्चिमद्वये । नारायणाख्यो भगवान् (पौ०सं० ३६।१४७-१४८) इति । ननु तत्र मुख्यदक्षिणहस्तेऽम्बुजमपि न लक्ष्यत इति चेत्, अस्ति सूक्ष्मरेखारूपं कमलं तत्रेति सन्तोष्टव्यमायुष्मता । वक्ष्यति हि द्वादशे परिच्छेदे— यस्मात् कार्यवशेनैव मूर्तीनामपि पाणिगाः । चतुःपद्मादयो मूर्ता मूर्ताः शान्तास्तथोद्यताः ॥ (१२।१४५) इति। नास्त्रैर्वस्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये ॥ तेऽपि लाञ्छनवृन्दं तु धारयन्त्यङ्घ्रिगोचरे । ललाटे चांसपट्टे तु पृष्ठपाणितलद्वये ॥ तनूरुहद्वये मूर्ध्नि कर्मिणां प्रतिपत्तये । —(१२।१६८-१७०) इति । अत एवेश्वरनारायणार्चनप्रकरणे षडङ्गन्यासादिकमप्युक्तम् । अलं प्रसङ्गेन ॥ ६१-६३ ॥ अब दामोदरान्त के मुख्य दोनों हाथों में धारण किये हुए दो-दो आयुधों को कहते हैं—पद्म, गदा, ध्वनि (शङ्ख), चक्र, पद्म, चक्र, शङ्ख, विद्या, चक्र, पद्म, शङ्ख, कमल, पद्म, शङ्ख, गदा, शङ्ख, गदा, कमल, चक्र । ये मुख्य दो-दो हाथों के लाञ्छन हैं । विमर्श—१. वासुदेव—केशव, नारायण, माधव—श्री, वागेश्वरी, कान्ति । २. सङ्कर्षण—गोविन्द, विष्णु, मधुसूदन—क्रिया, शक्ति, विभूति । ३. प्रद्युम्न— त्रिविक्रम, वामन, श्रीधर—इच्छा, प्रीति, रति । ४. अनिरुद्ध—हषीकेश,