सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 238, कुल 837 में से
संदर्भ में पढ़ेंअष्टमः परिच्छेदः १७९ मध्यस्थितकेशवस्यारस्थितकेशवस्य चैकदेवत्वात्दम्बुनैव पृथक् कलशाभिषेकः, नारायणादीनां तु पञ्चगव्यादिभिरिति ज्ञेयम् । एवं चात्र त्रयोदशकलशात्मकमेव स्नपनम् । तत्र तु अम्बुना कलशद्वयपूरणस्याप्रकृतत्वाद् द्वादशकलशात्मकत्वेनैव प्रतिपादितत्वाच्चाम्बुनैक एव कलशः पूर्यः । तथा चाम्बुनेति पदस्यापि सार्थक्यं भवतीति चेन्न, अम्बुनैव कलशद्वयपूरणे पञ्चगव्यादिद्वादशद्रव्येष्वेकतमस्य गत्य- भावात् । न च गन्धपुष्पाम्बुनेत्यत्रैकवचनाद् गन्धसहितपुष्पोदकमेवार्थः, न तु द्रव्य- द्वयम् । अतः पञ्चगव्यादीन्येकादशैवेति वाच्यम्, हेमरत्नोकेनेत्यत्राप्येकवचनेन विनि- गमनाविरहात् पञ्चविंशतिकलशस्नपनप्रकरणे गन्धपुष्पोदकयोर्हेमरत्नोदकयोश्च पार्थ- क्येनोक्तत्वाच्च । नन्वम्बुना पञ्चगव्येनेत्याद्युक्तद्रव्येकं परित्यज्य पञ्चगव्यादीनामेव ग्रहणमनुचित- मिति चेन्न, श्रीसात्वतषष्ठपरिच्छेदोक्तपञ्चविंशतिकलशस्नपने क्षीरादीनि परित्यज्य धात्रीफलोदकादिभिरेव द्वादशकलशस्नपनमीश्वरपारमेश्वर्योः प्रतिपादितं यथा समुचितं भवति, तद्वदिदमपि बोध्यम् । ननु च तत्र निर्विवादं द्वादशैव द्रव्याणि प्रतिपादितानि, अत्र तु त्रयोदश- द्रव्याणामप्युक्तत्वात् तन्मध्ये किं त्याज्यम्, कानि ग्राह्याणि, तत्र किं विनिगमकमिति चेदुच्यते, मध्यस्थितस्य केशवस्याभिषेकार्थं यदुक्तं तत् त्याज्यम्, अरस्थकेशवादि- क्रमेण यान्युक्तानि, तानि द्वादशद्रव्याण्यपि ग्राह्याणि । केशवादिक्रमेणोक्तानां द्रव्याणां मध्ये कस्यचित् परित्यागानौचित्यमेव तत्र विनिगमकमिति सूक्ष्मदृष्ट्या द्रष्टव्य- मायूष्मता ॥ ७५-७६ ॥ अब स्नपन का द्रव्य कहते हैं—जल से एवं पञ्चगव्य के दूध से इसके बाद दही, घृत, मधु तथा सर्वौषधि के जल से स्नान करावे । इसके बाद बीजाम्बु फल, तोय, गन्ध, जल, पुष्प जल, फिर हेमरत्नोदक फिर कुम्भस्थ जल से पृथक्-पृथक् स्नान करावे ॥ ७५-७६ ॥ सितं विलेपनं पुष्पं धूपं मधु घृतं दधि । नैवेद्यं विविधं पूतं व्रीहयो यवसंयुताः ॥ ७७ ॥ निवेद्य राजते पात्रे यथाशक्ति विनिर्मिते । पात्राभावाच्च रजतं स्वल्पमात्रं न लोपयेत् ॥ ७८ ॥ अथ केशवादित्रिकस्य सितवर्णत्वात् श्वेतवर्णचन्दनकुसुमादिभिरेव तदर्चनम्, रजतपात्रे यवव्रीहिमात्रानिवेदनम्, पात्रालाभे मात्रादानेन सह किञ्चिद्रजतं वा देयमिति चाह—सितमिति द्वाभ्याम् ॥ ७७-७८ ॥ इसके बाद सित, विलेपन, पुष्प, धूप, मधु, घृत, दधि, विविधपुत, नैवेद्य, यव संयुक्त व्रीहि इत्यादि पदार्थ यथाशक्ति विनिर्मित करे और रजत पात्र में स्थापित कर नैवेद्य अर्पित करे । यदि पात्र न प्राप्त हो तो स्वल्प रजत निवेदन करे । किन्तु क्रिया का लोप न करे ॥ ७७-७८ ॥