सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 239, कुल 837 में से
संदर्भ में पढ़ें१८० सात्वतसंहिता पश्चात् तद्भगवत्पूतं मधुपर्कादिकं तु वै। प्रतिपाद्य गुरोर्भक्त्या प्रसन्नेनान्तरात्मना ॥ ७९ ॥ अनन्तरं गुर्वर्चनमाह—पश्चादिति ॥ ७९ ॥ अब गुरुपूजन कहते हैं—इसके बाद भगवान् को निवेदित मधुपर्कादि पदार्थ प्रसन्नचित्त से भक्तिपूर्वक गुरु को प्रदान करे ॥ ७९ ॥ यवान्नं व्रीहिजं त्वादौ समश्नीयाद् घृतान्वितम्। व्रतिनो भोज्यद्रव्यमाह—यवान्नमित्यर्थेन ॥ ८०॥ ततः प्रभृतिकालाच्च प्रत्यहं केशवस्य तु ॥ ८० ॥ स्थानद्वयं निविष्टस्य पूजनं च समाचरेत्। प्राग्वन्मध्ये केशवस्य देवीयुक्तस्य बाह्यतः ॥ ८१ ॥ ततो नारायणादीनां सदेवीनां च वै क्रमात्। सर्वेषां पूजनं कुर्यात् प्रादक्षिण्येन यत्नतः ॥ ८२ ॥ यथासम्भवतो भक्त्या पुष्पधूपादिकेन तु। यावदभ्येति दशमी सिता पौषस्य वै तिथिः ॥ ८३ ॥ एवं पुष्यशुद्धदशमीपर्यन्तं प्रत्यहं केशवस्य कर्णिकामध्येऽरप्रदेशे च स्थान- द्वयेऽर्चनम्, तत्र मध्ये केवलस्य, अरस्थाने देव्या सहार्चनम्, तथैवारस्थितानां नारायणादीनामपि तत्तद्देवीभिः सह प्रादक्षिण्येनार्चनं च कार्यमित्याह—तत इति सार्द्धैस्त्रिभिः ॥ ८०-८३ ॥ इसके बाद सर्वप्रथम घृतान्वित यवान्न और व्रीहिज अन्न से स्वयं भोजन करे। उस काल से लेकर पुष्य नक्षत्र युक्त शुक्ल दशमी पर्यन्त केशव का कर्णिका मध्य में पूजन करे तथा अर स्थान में देवी के साथ दोनों स्थानों में अर्चन करे। इसी प्रकार अर में स्थित देवी सहित नारायणादि का क्रमशः सभी का प्रदक्षिण क्रम से यथा संभव प्राप्त पुष्प, धूपादि के साथ भक्तिपूर्वक पूजन करे ॥ ८०-८३ ॥ ततः प्रभृतिकालाच्च प्रागुक्तविधिनाऽखिलम्। नारायणाख्यमन्त्रेण व्रतकर्म समापयेत् ॥ ८४ ॥ तमर्चयेत् तु प्रथमं मध्ये कारणमूर्तिगम्। बहिर्देवीसमेतं च प्राग्वत् स्नानादिना प्रभुम् ॥ ८५ ॥ द्वादश्यन्तं विधानेन केशवेन समन्वितम्। किन्त्वत्र विहितं पश्चात् पूजनं केशवस्य च ॥ ८६ ॥ दिनावसाने द्वादश्यां धूपं दत्त्वा क्षमापयेत्।