भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 248, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 248

अष्टमः परिच्छेदः १८९ कल्प एवं अधम कल्प वाले मनुष्यों के द्वारा केवल पत्र, पुष्प, फल और जलादि यथोपलब्ध स्वल्प सामग्री से भी अनुष्ठेय है । यथाशक्ति आरण्यक पुष्पों से, दूर्वाङ्कुरों से, जल से, पत्र, जप, जागरणादि से, दीपारोपण, मार्जन, अनुलेपनादि, कैङ्कर्यों से अनुष्ठेय है ॥ १३०-१३२ ॥ व्रीहीन् सक्तूनथाज्यं च तिलान्यन्नान्यथाहरेत् । संवत्सरस्य पूजार्थं दानार्थं प्राशनाय च ॥ १३३ ॥ व्रतार्थं पूर्वं चतुर्विधमात्रा (द्या?) र्जनमाह—व्रीहीनिति ॥ १३३ ॥ सम्पूर्ण संवत्सर तक पूजा के लिये, दान के लिये, प्राशन के लिये, सर्वप्रथम इस व्रीहि व्रत में सूक्त घृत, तिल एवं अन्न एकत्रित करे ॥ १३३ ॥ पूर्वं मासत्रयं दद्याद् व्रीहीन् वै विनिवेद्य च । द्वादश्यां भोजनात् पूर्वं हितं तत्प्राशनं सदा ॥ १३४ ॥ अपरं सक्तवश्चैव तृतीयं त्रितयं घृतम् । तिलानां त्रितयं चान्यत् प्राशनं चैवमेव हि ॥ १३५ ॥ मार्गशीर्षादिमासत्रयेऽपि द्वादश्यां भोजनात् पूर्वं व्रीहिमात्रादानम्, ततो व्रीह्यन्न- भोजनम्, फाल्गुनादित्रये सक्तुदानम्, तत्प्राशनम्, ज्येष्ठादित्रये आज्यदानम्, तत्प्राशनम्, भाद्रपदादित्रये तिलदानम्, तिलप्राशनं चाह—पूर्वमिति द्वाभ्याम् ॥ १३४-१३५ ॥ मार्गशीर्ष से लेकर तीन मास तक द्वादशी में भोजन से पूर्व व्रीहिपात्र का दान करे । तदनन्तर ब्रहि अन्न का भोजन तथा फाल्गुनादि तीन मास तक समुदान एवं तत्प्राशन करे । फिर ज्येष्ठादि तीन मास तक आज्यदान एवं आज्यप्राशन और भाद्रपदादि तीन मास तक तिलदान तथा तिलप्राशन करे ॥ १३४-१३५ ॥ द्वादशीनिर्णयकथनम् स्याद् यद्येकादशी पूर्णा द्वादश्यथ तया सह । परेऽहनि तदा कुर्याद् द्वादश्यामर्चनादिकम् ॥ १३६ ॥ द्वादशीनिर्णयमाह—स्यादिति । एकादशी पूर्णा स्याद्यदि द्वादशीदिनेऽप्यवशिष्टा चेदित्यर्थः । तया सह एकादश्या सह द्वादशी च पूर्णा स्याद्यदि त्रयोदशीदिनेऽप्य- वशिष्टा चेदित्यर्थः । तदा परेऽहनि द्वादश्यां त्रयोदशीदिनावशिष्टद्वादश्यामेवार्चनादिकं पूर्वोक्तव्रतार्चनपारणादिकं कुर्यादित्यर्थः । तथा च दर्शनिर्णये चन्द्रिकायाम्— सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा । वैष्णवी च त्रयोदश्यां घटिकैकापि दृश्यते ॥ गृहस्थोऽपि परां कुर्यात् पूर्वा नोपवसेद् गृही । इति पूर्णशब्दार्थ उक्तः । अत्रैकादश्याः पूर्णशब्दविशेषणेनैव दशमीवेधराहित्य- मप्युच्यते, यतो दर्शनिर्णये—