सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 307, कुल 837 में से
संदर्भ में पढ़ें२४८ सात्वतसंहिता मर्म तस्य च पक्षस्थावेकममन्तरीकृतौ ॥ ४६ ॥ ताभ्यामवस्थितेनैव सूत्रेणैतत् प्रजायते । पुनर्मध्याद् द्वितीयं यद् मर्म चोर्ध्वं प्रवर्तते ॥ ४७ ॥ उसमें मध्यम मर्म मान से पूर्व दिशा में स्थित जो पाँचवाँ मर्म है, उन संस्पर्शों में एक कोष्ठ बढ़ाए और बढ़ाए गये सूत्र से दो कोष्ठ में अर्ध चन्द्राकार लाञ्छन करे । उसके नीचे की दो पङ्क्ति में एक द्वादश कोष्ठ की सिद्धि के लिये, उसके दशक के बाहर दक्षिण दो कोष्ठों में और उत्तर के दो कोष्ठों में पूर्ववत् अर्ध चन्द्राकार दो चिह्न तिरछे लिख कर मध्य से चौथा जो मर्म (= सन्धि) उसके दक्षिण भाग में स्थित मर्म (= सन्धि) द्वय में स्थित सूत्र से इसी प्रकार उसके वाम भाग के मर्मद्वयावस्थित सूत्र से पहले से लिखा हुआ अर्ध चन्द्राकार, तीनों लाञ्छनों को एक में मिला देवे ॥ ४३-४७ ॥ तस्माद् वै त्र्यन्तरीभूतं चतुर्थं पक्षयोर्द्वयोः । मर्म तत्स्थेन सूत्रेण वृत्तार्थे पूर्ववल्लिखेत् ॥ ४८ ॥ ब्रह्ममर्मणि षष्ठस्य प्रत्यग्दिक्संस्थितस्य च । मर्मणोऽप्यथ वै सूत्रं कृत्वा तत्सम्प्रसार्य च ॥ ४९ ॥ यावद् वृत्तार्थबुध्नस्थं शृङ्गकोटेस्तु सन्निधिम् । एवं सूत्रद्वये दत्ते धिष्ण्यः शङ्खाकृतिर्भवेत् ॥ ५० ॥ प्रथमं शङ्खकुण्डलक्षणं दर्शयन् तत्कुण्डक्षेत्रमध्यखातस्य शङ्खाकारतासिद्ध्यर्थं परितो लाञ्छनक्रममाह— पञ्चममित्यारभ्य धिष्ण्यः शङ्खाकृतिर्भवेदित्यन्तम् । ब्रह्मकर्माद्यं = मध्यममर्मप्रारम्भकमित्यर्थः । मर्म = प्राक्पश्चिमायतसूत्रस्य दक्षि- णोत्तरायतसूत्रस्य च सन्धिस्थानमित्यर्थः ॥ ४३-५० ॥ तथा चैवं कुण्डनिर्माणप्रकारः— कुण्डस्थानं पूर्वं मण्डलोक्तप्रकारेण सूत्रपातै- रष्टादशधा विभज्य तत्र मध्यमान्मर्मस्थानात् पञ्चमं प्राक्दिक्स्थ यन्मर्म तत्संस्पर्शा- नामेककोष्ठदीर्घेण सूत्रेण कोष्ठद्वयेऽर्धचन्द्राकारं लाञ्छनं कृत्वा तदधःपङ्क्तिद्वये कोष्ठद्वादशकस्यैक्यसिद्ध्यर्थं तद्दशकाद् बहिर्दक्षिणकोष्ठद्वये तदुत्तरकोष्ठद्वये च पूर्ववदर्धचन्द्राकारं लाञ्छनद्वयं तिर्यग्विलिख्य मध्याच्चतुर्थं यन्मर्म तद्दक्षिणभागस्थ- मर्मद्वयावस्थितेन सूत्रेण तद्वामभागमर्मद्वयावस्थितेन सूत्रेण च पूर्वं विलिखितमर्धचन्द्रा- कारलाञ्छनत्रयं चैकीकृत्य पुनर्मध्याद् द्वितयमूर्ध्वस्थं यन्मर्म तस्मात् त्र्यन्तरीभूतं चतुर्थं दक्षि(णं? ण)पार्श्वस्थं वामपार्श्वस्थं च यन्मर्म तदवस्थितेन सूत्रेण पूर्ववद् दक्षिणकोष्ठद्वये वामकोष्ठद्वये चार्धचन्द्राकारं लाञ्छनद्वयं तिर्यग् विलिखेत् । एवं कृते पूर्वोक्तद्वादशक- स्याधःपङ्क्तिद्वयेऽपि भागद्वादशकस्यैक्यं भवति । अथ पश्चिमदिशि मध्यात् षष्ठस्य मर्मणः सूत्रद्वयं प्रसार्य पूर्वोक्तयोर्दक्षिणोत्तरभागस्थार्धचन्द्राकारलाञ्छनयोः शृङ्गाग्राभ्यां सह योजयेत् । एवं कृते शङ्खाकारता सिद्ध्यति ॥ ४३-५० ॥