सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 317, कुल 837 में से
संदर्भ में पढ़ें२५८ सात्वतसंहिता ध्यानम्, ‘‘इत्येवमादिः सर्वेषाम्’’ (९।९६) इत्यादिभिः पद्मनाभध्रुवध्यानं च प्रति- पादितमित्यर्थः । शेषाणाम् अवशिष्टानामित्यर्थः । शेषादीनामनन्तादीनां पाताल- निलयपर्यन्तानां पातालशाय्यन्तानां षट्त्रिंशद्विभवदेवानामित्यर्थः ॥ ३-४ ॥ एक एव जगन्नाथः स्वरूपाद्यैस्तु शक्तिभिः ॥ ४ ॥ नानात्वेनाप्यनन्तो यो भक्तानुग्रहकाम्यया । तस्याभिमानिकं रूपं शृणु सर्वेश्वरस्य तु ॥ ५ ॥ तत्रादावनन्तस्य रूपं शृण्वित्याह—एक इति सार्धेन ॥ ४-५ ॥ श्री भगवान् ने कहा—मैंने पूर्व के मुख्य-मुख्य तीन ध्रुवान्त (विशाखयूप, पद्मनाभ और ध्रुव) (द्र. ९.४९-९६) का ध्यान पूर्व में कह दिया है अब शेष अनन्तादिकों से प्रारम्भ कर पातालशायी पर्यन्त ३६ विभव देवताओं के ध्यान को सुनिए । एक ही जगन्नाथ अपनी शक्तियों से स्वरूपों से अनेक होने के कारण जो भक्तों पर अनुग्रह करने के लिय अनन्त नाम से अभिमानिक रूप धारण करते हैं उन सर्वेश्वर के स्वरूप को सुनिये ॥ ४-५ ॥ तुहिनाचलसंकाशं पूर्णचन्द्रसमाननम् । स्वमणिव्यञ्जितेनैव युक्तं फणगणेन तु ॥ ६ ॥ प्रोद्वहन्तं हलं चक्रमपसव्यद्वयेन तु । वामहस्तद्वयेनैव शङ्खं मुसलमेव च ॥ ७ ॥ नित्यसन्निहिताशेषशक्तिं सर्वज्ञमच्युतम् । मनस्यन्तर्मुखानां यत् कर्मिणां पूरयेच्च तत् ॥ ८ ॥ तस्य ध्यानप्रकारमाह—तुहिनेति त्रिभिः । शेषकृत्यं भगवत्कैङ्कर्यधुरीणामि- त्यर्थः । नन्वनेनानन्तस्य भगवदाविष्टत्वमात्रं ज्ञायते, न साक्षादवतारत्वम्, कथं तस्य मुख्यप्रादुर्भावेष्वन्तर्भाव इति चेन्न, भगवदधिष्ठितबद्धचेतनानामेव मुख्येष्वनन्तर्भावात् । अन्तर्मुखानां निजभक्तानां मनसि यद्वाञ्छितमस्ति, तत् पूरयेत् प्रयच्छेदित्यर्थः । अनन्तस्थानं तु श्रीविष्णुपुराणे— आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः ॥ तस्य वीर्यं स्वभावं च स्वरूपं रूपमेव च । नहि वर्णयितुं शक्यं ज्ञातं वा त्रिदशैरपि ॥ यस्य सा सकला पृथ्वी फणामणिशिखारुणा । आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति ॥ (२।५।२०-२२) इति ॥ ६-८ ॥ भगवान् अनन्त का स्वरूप तुहिन (बर्फ) के समान स्वच्छ है तथा चन्द्रमा के समान मुख है, जो अपने फण समूहों में स्थित मणि समूहों से सारी पृथ्वी