सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 318, कुल 837 में से
संदर्भ में पढ़ेंद्वादशः परिच्छेदः २५९ प्रकाशित कर रहे हैं, जो अपने अपसव्य (दाहिने) दो हाथों से हल और चक्र धारण किये हुए हैं और दोनों बायें हाथों से शङ्ख और मुशल धारण किये हुए हैं। सम्पूर्ण शक्तियाँ जिनके सन्निधान में हैं, जो सर्वज्ञ अच्युत हैं और जो मन में अन्तर्मुख जीवों की अभिलाषा पूर्ण करते हैं ॥ ६-८ ॥ १. शक्तीशध्यानकथनम् शक्तीशोऽप्यथ सञ्चिन्त्यः पुण्डरीकनिभेक्षणः । इच्छारूपधरश्चैव सौम्यः प्रहसिताननः ॥ ९ ॥ व्यक्तये च फलादीनां भक्तानामनुकम्पया । पीडयन् स्वाङ्घ्रियुग्मेन वसुधां च करद्वयम् ॥ १० ॥ युगानुसारिकान्तिश्च चतुर्वक्त्रश्चतुर्भुजः । मूर्तचक्रगदाहस्तः अमूर्ताब्जाम्बुजाङ्कितः ॥ ११ ॥ शमं नयति सन्तापं कमलेनेन्दुखान्तिना । नानामन्त्रमयीं विद्यां व्यञ्जयत्यमलात्मनाम् ॥ १२ ॥ सम्यग् वाक्पतिना चैव कम्बुना शब्दमूर्तिना । आज्ञाप्रतीक्षकेणैव गदाचक्रद्वयेन तु ॥ १३ ॥ प्रेरितेन हिनस्त्याशु साधुसन्तापकारिणाम् । नारसिंहेन वक्त्रेण भवभीतिविघातकृत् ॥ १४ ॥ पुष्णाति सर्वभूतानि वाराहेणामृतात्मना । कुरुते पश्चिमस्थेन कापिलेनोपसंहृतिम् ॥ १५ ॥ भक्तिश्रद्धापराणां च स्मृतमात्रः सदैव हि । हृन्मध्ये गगने भूमौ वह्निमध्ये जलान्तरे ॥ १६ ॥ चतुर्णां ब्राह्मणादीनां स्वयमेवानुकम्पया । चातुरात्म्येन रूपेण चतुर्धा व्यक्तिमेति च ॥ १७ ॥ आत्मतुल्येन देहेन शङ्खपद्माङ्कितेन तु । मूर्तिमद्भिर्हलाद्यैस्तु युक्तेन वदनैर्विना ॥ १८ ॥ वर्णानुरूपवर्णेन समेनाप्यसमेन तु । अन्योन्यानुगतेनैव पूर्वोद्दिष्टेन नान्यथा ॥ १९ ॥ अथ शक्त्यात्मध्यानमाह—शक्तीश इत्येकादशभिः । इच्छारूपधरः, वक्ष्य- माणवाहनदेवीभुजास्त्रभेदैर्नानारूपधर इत्यर्थः । अमूर्ताब्जाम्बुजाङ्कितः, अमूर्तः = केवलरेखारूपः, अब्जः = शङ्खः, अम्बुजं = कमलम्, ताभ्यामङ्कितः । एवं शक्तीशा- वतारो व्यूहाद् विभवाद्वा संभवतीति बोध्यम् । यतोऽस्मिन्नेव परिच्छेदे वक्ष्यति—