सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 320, कुल 837 में से
संदर्भ में पढ़ेंद्वादशः परिच्छेदः २६१ कर्णपीठनिविष्टं च ध्येयं पाणियुगं विभोः। अथ मधुसूदनध्यानमाह—प्रलयानलेति सार्द्धद्वाभ्याम्। अस्यावतारस्य प्रादुर्भा- वान्तरत्वमुक्तं पौष्करे— मधुकैटभमाथी च प्रादुर्भावेश्वरस्य च। प्रादुर्भावान्तरं विद्धि पद्मनाभस्य वै विभोः॥—(३६।२१४) इति। अस्य स्थानमप्युक्तं तत्रैव— मधुकैटभमाथी च संस्थितः सोऽवनीतले॥ क्षीरोदकक्षतिक्षेत्रे सुरासुरनिषेविते।—(३६।३४३-३४४) इति॥ २०-२२॥ अब मधुसूदन का ध्यान कहते हैं—प्रलयकालीन ऐसे शक्तीश का ध्यान करना चाहिए जो अग्नि तथा सूर्य के समान देदीप्यमान, अष्टबाहु, विशाल कन्धे वाले तथा अग्निष्टोम कराङ्कित मधुसूदन हैं। जो मूर्त्तिमान रज तथा तम की प्रवृत्ति के लिये शङ्ख, चक्र तथा बाण और धनुष धारण किये हुए हैं तथा जो अपने कर्णपीठ पर अपने दोनों हाथों को रखे हुए हैं, ऐसे मधुसूदन का ध्यान करना चाहिए॥ २०-२२॥ ३. विद्याधिदेव ध्यानकथनम् विद्याधिदेवं भगवच्चतुर्वक्त्रं चतुर्भुजम्॥ २२॥ लम्बकूर्चं जटादण्डकमण्डल्वक्षसूत्रिणम्। फुल्लरक्ताम्बुजाभासं श्वेतपद्मकराङ्कितम्॥ २३॥ अथ विद्याधिदेवध्यानमाह—विद्याधिदेवमिति सार्धेन। यद्यपि चतुर्वक्त्रमित्यस्य श्रुतीर्वक्त्रेभ्यः प्रोद्गिरन्तमित्यस्य चैककण्ठ्याद् “वेदविदे” (सा० सं० २३।५०) इति विद्याधिदेवमन्त्रवर्णलिङ्गाद् उत्तरत्र स्मरेद् ध्यायेदिति पौनरुक्त्यप्रसङ्गासंभवाच्च “श्रुतीर्ऋगाद्या वक्त्रेभ्यः प्रोद्गिरन्तमन्तः स्मरेत्” (१२।२४) इति वाक्यस्यापि पूर्वेणान्वयः स्वरसः, तथापि सर्वज्ञैः श्रीमत्पराशरभट्टारकैः सहस्रनामभाष्ये (पृ० ४८३) तस्य वाक्यस्य कपिलध्यानपरत्वेनोत्तरत्र योजितत्वादस्मादृशैस्तच्चलयितुं न शक्यम्। किञ्च, यद्यप्यस्य विद्याधिदेवस्य चतुर्वक्त्रत्वजटाकमण्डल्वक्षसूत्रधरत्वादि- लक्षणानामुक्तत्वादयं विरिञ्चिरिति ज्ञायते, तथापि सहस्रनामभाष्ये (पृ० १८३) निय- मेन तेषां ब्रह्मादीनां भगवदवतारगणनास्वपरिगणनात्, देवमनुष्यादिवत्, सृष्टिप्रकरणेषु सृज्यतया परिगणनात्, प्रत्युत तेषां प्रादुर्भावेभ्यो भेदव्यपदेशात्, प्रादुर्भावविलक्षणेन प्रादुर्भावान्तरशब्देन निर्देशात्, भगवद्विभूतिलेशोद्भवत्वतत्तत्प्रादुर्भावविशेषाधीनप्रवृत्ति- त्वादिव्यवहाराच्च ब्रह्मणः प्रादुर्भावत्वं निह्नुतम्। किञ्च, कालो वियन्नियन्ता च शास्त्रं नानाङ्गलक्षणम्। विद्याधिपतयश्चैव सरुद्रः सगणः शिवः॥