सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 321, कुल 837 में से
संदर्भ में पढ़ें२६२ सात्वतसंहिता प्रजापतिसमूहस्तु इन्द्र सपरिवारकः। —(९।९१-९२) इत्यादिपूर्वोक्तभवोपकरणदेवतावर्ग एव प्रजापतिसमूह इत्यत्र चतुर्मुखस्याप्यन्त -र्भावश्चोक्तः। तस्मात् “परमात्मने” (सा०सं० २३।५१) इति मन्त्रवर्णलिङ्गाच्च नायं विद्याधिदेवो विरिञ्चिः, अपि तु साक्षात् प्रादुर्भाव इति ज्ञेयम्। ननु पौष्करे— मधुकैटभमाथी च प्रादुर्भाविश्वेरस्य च। प्रादुर्भावान्तरं विद्धि पद्मनाभस्य तद्विभोः॥ —(३६।२१४) इत्यादिभिर्मधुसूदनादीनामपि प्रादुर्भावान्तरत्वं बहुशः कण्ठरवेणोक्तम्। किं तावता तेषामपि प्रादुर्भावत्वविरोध इति चेन्न, समुच्चितैः पूर्वोक्तैर्हेतुभिश्चतुर्मुखादीनां प्रादुर्भावत्वविरोधात्, मधुसूदनादिषु तथाविधहेतुसमुच्चयस्यानवकाशाच्च ॥२२-२३॥ विद्याधिदेव का ध्यान—चार भुजा, चार मुख वाले लम्बे कूर्च (दाढ़ी), जटा, दण्ड, कमण्डल तथा अक्षमाला धारण किये हुए, विकसित रक्त कमल के समान कान्ति वाले, हाथ में श्वेत पद्म धारण किये हुए विद्याधिदेव का स्मरण करना चाहिये ॥ २२-२३ ॥ ४. कपिलध्यानकथनम् श्रुतीर्ऋग्गाद्या वक्त्रेभ्यः प्रोद्गिरन्तमतः स्मरेत्। निर्धूमाङ्गारवर्णाभं शङ्खपद्माक्षसूत्रिणम्॥ २४ ॥ फुल्लरक्ताब्जविभवं देवताद्यात्मसूत्रकम्। ध्यायेदभयपाणिं तं कपिलं तेजसां निधिम्॥ २५ ॥ अथ कपिलध्यानमाह—श्रुतीरिति द्वाभ्याम्। वक्त्रेभ्य इति पूजायां बहुवचनं बोध्यम्। यद्वा तस्याप्यैच्छिकं चतुर्मुखत्वं वक्तव्यम्। अस्य श्रुतिप्रवर्तकत्वं तु सहस्र- नामभाष्य एव प्रतिपादितम्, “सत्यवृत्तिस्त्रिविक्रमः। महर्षिः कपिलाचार्यः” (५७- ५८ श्लो०) इत्यत्र— “ईदृशेन महामहिम्ना वाच्येन विक्रान्तत्रिवेदस्त्रिविक्रमः। त्रिरित्येवं त्रयो वेदाः कीर्तिता मुनिसत्तमैः। क्रमसे तांस्तथा सर्वान् त्रिविक्रम इति स्मृतः॥” (पृ० ४८१) इति, “यथोक्तवेददर्शनान्महर्षिः” (पृ० ४८२) इति च। अस्य पातालतलवा- सित्त्वं सुप्रसिद्धम्। अर्चारूपस्थानं तु पौष्करे— प्राक्समुद्राप्याने तु भूभागे शुभलक्षणे॥ कापिलीं मूर्तिमासाद्य वासुदेवः स्थितः प्रभुः। (३६।३५७-३५८) इति प्रतिपादितम् ॥ २४-२५ ॥ अब कपिल का ध्यान कहते हैं—वेद की ऋचाओं का स्मरण करते हुए, विधूम अग्नि के समान तेजस्वी शङ्ख, पद्म एवं अक्षमाला धारण किये हुए,