भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 322, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 322

द्वादशः परिच्छेदः २६३ विकसित रक्त वर्ण के समान तेजस्वी आत्मज्ञानी, आदिदेव, अभयपाणि तथा तेजोनिधि कपिल का ध्यान करे ॥ २४-२५ ॥ ५. विश्वरूपध्यानकथनम् योऽन्तः सर्वेश्वरो देवः साक्षिभूतो व्यवस्थितः । स्फटिकोपलवद् भावान् स्वशक्त्युत्थान् बिभर्ति च ॥ २६ ॥ अविद्याविष्कृतानां तु भक्तानां सत्पदाप्तये । तमनादिं जगन्नाथं बहिः स्थूलतरात्मनाम् ॥ २७ ॥ द्यावापृथिव्योरन्तःस्थं विश्वरूपमनुस्मरेत् । अनेकवक्त्राङ्घ्रिकरम् अनेकमकराङ्कितम् ॥ २८ ॥ यद्यप्यनेकवदनम् अनेकभुजभूषितम् । तथापि वै त्रयस्त्रिंशद् वदनैर्विविधैर्युतम् ॥ २९ ॥ चतुरभ्यधिकैर्दिव्यैश्चत्वारिंशन्महाभुजैः । ब्रह्मरुद्रेन्द्रदक्षार्कचन्द्रसिद्धास्तथा श्रुतिः ॥ ३० ॥ पौरुषस्य तु वक्त्रस्य चोर्ध्ववक्त्रस्थितास्त्वमी । पिशाचाग्निमरुच्छैलद्वीपगन्धर्ववारिभिः ॥ ३१ ॥ वक्त्रैरूर्ध्वस्थितैर्ध्यायेद् दक्षिणं वदनं विभोः । पातालदिङ्‌महामेघलोकराशिग्रहोत्थितैः ॥ ३२ ॥ वक्त्रैस्तारासमेतैस्तु ध्यायेद् वक्त्रं तु पश्चिमम् । यक्षान्तकाम्बुनागाद्यैर्वसुनक्षत्रयोगणैः ॥ ३३ ॥ वक्त्रैर्वराहवक्त्रोर्ध्वस्थितैर्ध्यायेच्च दक्षिणम् । पद्माद्यं चातुरात्मीयमस्त्राणां दशकं महत् ॥ ३४ ॥ प्रोच्छ्रितं हि सुवर्णाद्यं तल्लाञ्छनचतुष्टयम् । लोकेशास्त्राष्टकं चैव पुस्तकं चाक्षसूत्रकम् ॥ ३५ ॥ दर्वी कमण्डलुहैमश्चाभयं हि वरान्वितम् । दर्भाजिनं ततश्छत्रं सुशुभं चामरं सितम् ॥ ३६ ॥ स्रुक्स्रुवौ चापि कलशौ वेदिर्वह्निसमन्विता । चन्द्रार्कमण्डले पूर्णे नागेन्द्रो मणिदर्पणः ॥ ३७ ॥ पुष्पस्रग् व्यजनं दिव्यं विश्वपत्रलता तथा । स्मर्त्तव्यास्तु भुजेष्वस्य विभोः संस्थानकैः समैः ॥ ३८ ॥ यथोदितक्रमेणैव व्यत्ययो न भवेद् यथा । भाभिर्नानाप्रकाराभिर्देहोत्थाभिरिदं जगत् ॥ ३९ ॥