सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 327, कुल 837 में से
संदर्भ में पढ़ें२६८ सात्वतसंहिता धर्ममूर्तिर्महात्मा वै धर्मारण्ये सुरार्चिते। अनुग्रहपरस्त्वास्ते लोकानां लोकपूजितः ॥ (३६।३३२) इति च श्रीपौष्करे सुस्पष्टं प्रतिपादितम् ॥ ५४-५७ ॥ अब धर्म का ध्यान कहते हैं—जो सामान्य अमल, अनादि, विभु हैं। जिनकी प्रसन्नता के बिना प्रबुद्ध जन भी जिन्हें नहीं प्राप्त कर पाते, उनके स्थूल रूप को उनकी प्राप्ति के लिये, हे सङ्कर्षण ! आप सुनिए। जो हिमालय के समान स्वच्छ हैं, जिनका मुख्य सौम्य है, जिनकी चार भुजायें हैं, जो शङ्ख एवं पद्म के बहाने से काम और अर्थ धारण किये हुए हैं, जो साधुमार्ग में स्थित जनों के अर्थ एवं काम को बुद्धि से नियन्त्रण करते हैं ऐसे वरदपाणि, श्वेत, अक्षमाला धारण करने वाले भगवान् धर्म का स्मरण करना चाहिये ॥ ५४-५७ ॥ १०. हयग्रीवध्यानकथनम् वाङ्मयं निखिलं यस्य वस्तुजातमनश्वरम् । शक्तित्वेन स्वभावस्थं चिद्रूपस्यामलद्युतेः ॥ ५८ ॥ वरवाजिमुखं ध्यायेदथ वागीश्वरं विभुम्। सूर्यकान्ताग्निसंकाशमनेकभुजभूषितम् ॥ ५९ ॥ कमलं चाक्षसूत्रं च वेदिं त्रेताग्निभूषिताम्। साज्यधारौ स्रुक्स्रुवौ तु विष्टरं सोमसंयुक्तम् ॥ ६० ॥ दर्भाजिनं मेखलां चाप्यपसव्येषु षट्स्वमी । स्मरेद् वामकरेष्वस्य पुस्तकं शङ्खमेव च ॥ ६१ ॥ दण्डं कमण्डलुं दर्वीमेकस्मिंस्त्रितयं करे । पूर्णं ग्राम्यैस्तथारण्यैश्चरुबीजैस्तु पञ्चमे ॥ ६२ ॥ स्रुङ्मूलफलपत्रैस्तु यज्ञद्रव्यैः सदक्षिणैः। सर्वाश्रमोपकरणैर्युक्तं चमसभाजनम् ॥ ६३ ॥ ध्येयमस्य भुजे षष्ठे वृत्तभूतैर्ऋगादिभिः । वेदाङ्गैरुपवेदैस्तु संस्कारैः समखैस्तथा ॥ ६४ ॥ अथ हयग्रीवध्यानमाह—वाङ्मयमित्यादिभिः । सोमसंयुक्तं सोमलतान्वित- मित्यर्थः । ग्राम्यारण्यबीजभेदास्त्वीश्वरपारमेश्वरयोर्हविःपाकप्रकरणे प्रतिपादिता द्रष्टव्याः । विष्णुपुराणे च— व्रीहयः सयवा माषा गोधूमा अणवस्तिलाः । प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलुत्थकाः ॥ श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः । तथा वेणुयवाः प्रोक्तास्तद्वन्मर्कटका मुने ॥