सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 344, कुल 837 में से
संदर्भ में पढ़ेंद्वादशः परिच्छेदः २८५ समान कान्ति वाले, कमल नेत्र, हाथ में धनुष एवं बाण धारण किये हुए उन विश्वात्मा भगवान् राम का ध्यान करना चाहिये ॥ १५१-१५२ ॥ ३३. वेदव्यासध्यानकथनम् वाग्वेदमण्डलं यो वै स्वरूपद्युतिलक्षणम् । स्वयं स्वोत्थं विभजति त्रिधा पश्यन्तिपूर्वकम्॥ १५३ ॥ बोधमारुतहृत्पूर्वस्थानेष्वभ्युदितं क्रमात् । स्मर्तव्यः सोऽपि भगवानतसीकुसुमद्युतिः ॥ १५४ ॥ वहन् वै वामहस्तेन सर्वशास्त्रार्थपुस्तकम् । दक्षिणेन तु शास्त्रार्थमादिशंश्च यथास्थितम् ॥ १५५ ॥ युगानुसारिबोधानामक़्खेदजननाय च । विभजंस्तु चतुर्धा वै वेदमेकं त्रिकालवित् ॥ १५६ ॥ अथ वेदव्यासध्यानमाह—वाग्वेदमण्डलमियादिभिः । स्वरूपद्युतिलक्षणम्, अन्तःस्थितज्योतिःस्वरूपमित्यर्थः, ‘‘स्वरूपज्योतिरवान्तर्भावयन् संस्थितं हृदि’’ (३४।६३) इति पौष्करोक्तेः । केवलशान्तस्वरूपमिति यावत् । वाग्वेदमण्डलं शब्दब्रह्मोत्यर्थः । पश्यन्तीपूर्वकं त्रिधा विभजति पश्यन्ती-मध्यमा-वैखरीभेदैस्त्रेधा विभक्तं करोतीत्यर्थः । एताः शब्दब्रह्मणोऽवस्थाः सुव्यक्तमुक्ता लक्ष्मीतन्त्रे— बोधोन्मेषः स्मृतः शब्दः शब्दोन्मेषोऽर्थ उच्यते । उद्यच्छब्दोदयः शक्तेः प्रथमः शान्ततात्मनः ॥ स नाद इति विख्यातो वाच्यतामसृणस्तदा । नादेन सह शक्तिः सा सूक्ष्मेति परिगीयते ॥ नादात् परो य उन्मेषो द्वितीयः शक्तिसंभवः । (बिन्दुरित्युच्यते सोऽत्र वाच्योऽपि मसृणः स्थितः ॥) पश्यन्ती नाम साऽवस्था मम दिव्या महोदया । ततः परो य उन्मेषस्तृतीयः शक्तिसंभवः ॥ मध्यमा सा दशा तत्र संस्कारयति सङ्गतिम् । वाच्यवाचकभेदस्तु तदा संस्कारतामयः ॥ चतुर्थस्तु य उन्मेषः शक्तेर्माध्यमिकात् परः । वैखरी नाम साऽवस्था वर्णवाक्यस्फुटोदया ॥ अस्ति शक्तिः क्रियात्मा मे बोधरूपाऽनुसारिणी । सा प्राणयति नादादिं शक्त्युन्मेषपरम्पराम् ॥ शान्तरूपाऽथ पश्यन्ती मध्यमा वैखरी तथा । —(१८।२२-२९) इति । बोधमारुतहृत्पूर्वस्थानेष्वभ्युदितं क्रमादिति पश्यन्त्याद्यवस्थात्रयस्य विशेषणं बोध्यम्,