सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 348, कुल 837 में से
संदर्भ में पढ़ेंद्वादशः परिच्छेदः २८९ अपि संसारिणो जन्तोः स्वभावाद् वैष्णवस्य च ॥ १७० ॥ न जहात्यच्युतं लिङ्गं किं पुनर्विभवाकृतेः । सर्वेषां कामचारित्वं यदुक्तं वै मया पुरा ॥ १७१ ॥ तदङ्घ्रिभुजवर्णास्यबृहन्मध्याणुलक्षणम् । एकाद्यनेकसंख्यं च दृश्यं सर्वत्र सर्वदा ॥ १७२ ॥ उक्तमर्थं किंपुनर्न्यायेन द्रढयति—अपीति । जन्तोरिति, विभवाकृतेरिति च कर्मणि षष्ठी । केवलवैष्णवजनस्यैव सामुद्रिकलक्षणपरीक्षणकाले हस्ताद्यवयवेषु चक्रादिलाञ्छनं दृश्यते । साक्षाद्विष्णोर्विभवावतारस्य तथा लाञ्छ(नस्त्वेकः?ने कुतः) संदेह इति भावः । उक्तानां विभवदेवानां सर्वेषामपि "कृष्णरूपाण्यसंख्यानि" इतिवद् भुजवर्णाद्युधादिभिरसंख्यातकामरूपधरत्वमाह—सर्वेषामिति सार्धेन ॥ १७०-१७२॥ जब वे अपना अच्युत लिङ्ग (= चिह्न) भी नहीं त्यागते हैं, फिर विभवा- कृति चिह्न के विषय में क्या कहा जाय? ऊपर कहे गये सभी विभव देवों के जब असंख्य कृष्ण रूप हैं तब उनकी भुजायें, वर्ण और आयुध भी असंख्य हो सकते हैं ॥ १७०-१७२ ॥ न त्वन्यरूपता कार्या करणं कामरूपता । यस्मादस्ति पृथग्भूतो व्यापारो विश्वमन्दिरे ॥ १७३ ॥ देवानां स्थितिसंहारसृष्टिकाले स्वकः स्वकः । सत्येवं नियमे सिद्धे तथापि भगवद्वशात् ॥ १७४ ॥ चातुरात्म्यसमूहात् तु यत्पद्मदलभूस्थितम् । तथा विभवदेवानां मध्यात् पद्मदलेक्षण ॥ १७५ ॥ एकस्त्वनुग्रहार्थं तु शक्त्यात्मा भावितात्मनाम् । बिभर्ति बहुभेदोत्थं रूपं सद्वाहनस्थितम् ॥ १७६ ॥ एवं सर्वेषां कामरूपवत्तापि नहि मूर्त्तिविपरीतज्ञानजननी, तत्तन्मूर्त्तिनिर्णायक- विजातीयस्वस्वव्यापारसत्त्वादित्याह—न त्विति सार्धेन । यद्यप्येवं सर्वेषां कामरूप- धरत्वनियमः सिद्धः, तथापि सर्वे देवा युगपत् कामरूपधरा न भवन्ति, जाग्रद्व्यूह- वासुदेवादीनां मध्ये पद्मनाभादिविभवदेवानां मध्ये वा एको जगद्रक्षणार्थं वक्त्रभुजास्त्र- शक्तिवाहनभेदैर्बहुधा रूपं बिभ्रन् शक्त्यात्मसंज्ञां भजतीत्याह—सत्येवमिति सार्ध- द्वाभ्याम् । यत्पद्मदलभूस्थितं जाग्रद्व्यूहसं(ज्ञां?ज्ञं) चातुरात्म्यमित्यर्थः, तत्पत्रमध्ये भगवान् जाग्रत्संज्ञे पदे त्वथ । यष्टव्यो भावनीयश्च यथा तदधुनोच्यते ॥ (५।४) इति जाग्रद्व्यूहस्य हि पद्मदलभूस्थितत्वमुक्तम् ॥ १७३-१७६ ॥ इस प्रकार सबकी कामरूपता भी मूर्त्तिविपरीत ज्ञान की जननी नहीं हैं