भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 349, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 349

२९० सातवतसंहिता क्योंकि उसमें तत्तन्मूर्त्ति निर्णायक द्विजातीय एवं स्व-स्व व्यापार स्थित हैं, क्योंकि इस विश्वमन्दिर में उन देवताओं के सृष्टि, स्थिति एवं संहार काल में अपने-अपने कामरूप परतत्त्व के नियम हैं तथापि भगवद्वश से एवं चातुरात्म्य समूह से जो पद्मदल की भूमि में स्थित हैं वे जाग्रद् व्यूह वासुदेव के मध्य में, अथवा पद्मनाभादि विभव देवों के मध्य में कोई एक भी इस जगत् की रक्षा के लिये वक्त्र, भुजा, अस्त्र, शक्ति एवं वाहन भेदों से अनेक रूप धारण करते हुए शक्ति संज्ञा प्राप्त कर लेते हैं ॥ १७०-१७६ ॥ वाहनस्य भेदान्, तल्लक्षणकथनम् यदनुस्मरणाद् ध्यानादर्चनादचिरात् पुमान् । प्राप्नोति मनसोऽभीष्टं तन्मे निगदतः शृणु ॥ १७७ ॥ सत्यः सुपर्णो गरुडस्तार्थ्यश्च विहगेश्वरः । पञ्चात्मकस्य प्राणस्य विकारस्त्वेष पञ्चधा ॥ १७८ ॥ आचाङ्घ्रिगोचरात् सर्वो यस्य देहस्तु पौरुषः । द्विभुजस्तुहिनाभश्च स सत्यः प्राणदैवतम् ॥ १७९ ॥ सुपर्णः पद्मरागाभो निर्मलः स्वर्णलोचनः । गरुडः काञ्चनाभस्तु कुटिलभ्रवरुणेक्षणः ॥ १८० ॥ केकराक्षस्तु तार्थ्यो वै प्रावृड्जलदसन्निभः । द्रवत्कनकनेत्रस्तु शबलाभश्च पञ्चमः ॥ १८१ ॥ चतुर्भुजाः सुपर्णाद्याः सौम्यरूपास्त्वनाकुलाः । पतत्त्रिचरणाः सर्वे पक्षमण्डलमण्डिताः ॥ १८२ ॥ लम्बोदराः सुपीनाङ्गाः कुण्डलाद्यैस्तु भूषिताः । कुटिलभूसुवृत्ताक्षा वक्रतुण्डाः स्मिताननाः ॥ १८३ ॥ अपानादिसमीराणामाधिपत्येन संस्थिताः । महाबला महाकाया रक्ततुण्डोऽत्र पञ्चमः ॥ १८४ ॥ आधेयचरणाधःस्थः सव्य आद्यस्य वै करः । दक्षिणश्चाक्षसूत्रेण सुसितेन च भासितः ॥ १८५ ॥ एवमेव सुपर्णस्य परिज्ञेयं भुजद्वयम् । नाभ्युद्देशेऽपरो वाम उत्तानस्तु सविस्मयः ॥ १८६ ॥ पुष्पस्तबकसम्पूर्ण ऊर्ध्ववक्त्रस्तु दक्षिणः । गरुडस्य द्वयं विद्धि हृद्देशेऽञ्जजलीरूपिणम् ॥ १८७ ॥ तत्रैव सम्पुटाकारं चतुर्थस्य करद्वयम् ।

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक) · पृष्ठ 349, कुल 837 में से · BharatKosha