सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 350, कुल 837 में से
संदर्भ में पढ़ेंद्वादशः परिच्छेदः २९१ दक्षिणेऽमृतकुम्भस्तु वामे तु विषमः फणी ॥ १८८ ॥ पञ्चमस्य द्वयं शेषं त्रयाणां च द्वयोः समम् । आधेयचरणाक्रान्तो यदि वै दक्षिणः करः ॥ १८९ ॥ सञ्चारो विहितो वामे त्वक्षसूत्रस्य वै तदा । आधेयचरणाधःस्थं यस्य पाणितलद्वयम् ॥ १९० ॥ निरस्तसूत्रं तं विद्धि वाहनं भगवन्मयम् । अथ प्रसक्तस्य वाहनस्य भेदान् तल्लक्षणं चाह—यदनुस्मरणादित्यादिभिर्भागव- न्मयमित्यन्तैः । आ चाङ्घ्रिगोचरात् चरणादारभ्य यस्य सर्वो देहः पौरुषः समस्तोऽपि कायः पुरुषाकृतिरित्यर्थः । प्राणदैवतं प्राणाधिपतिरित्यर्थः । केकराक्षः केकरे वक्रे अक्षिणी यस्य स तथोक्तः । "बलिरः केकरे" (२।६।४९) इत्यमरः । केकरपदेनैव वक्राक्षत्वे सिद्धेऽप्यत्र पृथगक्षपदनिर्देशात् केकरशब्दस्य वक्रमात्रपरत्वं बोध्यम् । पारमेश्वरव्याख्याने तु—"केकराक्षो भगवद्ध्यानवशादर्धोन्मीलितलोचनः" इति लिखितम्, तद्विचारणीयम् । शबलाभः = चित्रवर्णाभ इत्यर्थः । आद्यस्य सत्यस्य सव्यः करो वामहस्तः । आधेयचरणाधस्थः आधेयस्य निजस्कन्धाधिरूढस्य भगवतः पादपद्माधः स्थित इत्यर्थः । दक्षिणस्तु अक्षसूत्रेण भासितः । अत्र चकारद्वयेन कदाचिद्वामहस्तस्याप्यक्षसूत्रभासितत्वम्, दक्षिणस्याप्याधेयचरणा(धः)स्थितत्वं च संभवतीत्यर्थः सूच्यते— आधेयचरणाक्रान्तो यदि वै दक्षिणः करः । सञ्चारो विहितो वामे त्वक्षसूत्रस्य वै तदा ॥ —(१२।१८९-१९०) इत्युक्तेः । ननु— स्वस्वाङ्गुष्ठद्वयप्रोतगणित्रोभयपाणिना । पुष्पाञ्जलिधराः सर्वे मुख्येन विहगोत्तमाः ॥ —(ई०सं० ८।४८, पा०सं० ८।४७-४८) इतीश्वरपारमेश्वरोक्तेः करद्वयेऽप्यक्षसूत्रधारणं स्यात्, किन्तु दक्षिणहस्ते भग- वच्चरणाक्रान्ते सति तदा वामहस्तस्थितस्याक्षसूत्रस्य सञ्चारो गणनार्थं सञ्चालनं स्यादित्यर्थः सरस इति चेन्न, आधेयचरणाधःस्थं यस्य पाणितलद्वयम् । निरस्तसूत्रं तं विद्धि वाहनं भगवन्मयम् ॥ —(१२।१९०-१९१) इति वचनविरोधात् । भ(ग?) वदुक्तार्थे सिद्धे निरस्तसूत्रसञ्चारं तं विद्धीति वचनं (कथं) प्रवर्तेत । स्वस्वाङ्गुष्ठद्वयप्रोतगणित्रोभयपाणिनेत्यत्रापि पुष्पाञ्जलिप्रकरणाद- ङ्गुष्ठद्वयप्रोतमेकमेवाक्षसूत्रमिति ज्ञायते । यद्वा दक्षिणे वामे वाऽङ्गुष्ठेऽक्षसूत्रं धार्यमिति ज्ञापनार्थमङ्गुष्ठद्वयमप्युक्तमिति ज्ञेयम् । सुपर्णस्य भुजद्वयं मुख्यहस्तद्वयमेवमेव सत्योक्तलक्षणमेवेत्यर्थः । अपरो वामः