सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 351, कुल 837 में से
संदर्भ में पढ़ें२९२ सात्वतसंहिता पाश्चात्यो वामहस्तः सविस्मयः, विस्मयमुद्रान्वित इत्यर्थः । दक्षिणः पाश्चात्यो दक्षिण- हस्तस्तु पुष्पस्तबकसम्पूर्णः, मन्दारपुष्पस्तबकान्वित इत्यर्थः । ऊर्ध्ववक्त्र उत्तानश्रे- त्यर्थः । तथा चेश्वरपारमेश्वर्योः— सुपर्णः पश्चिमाभ्यां तु पाणिभ्यां दक्षिणादितः । मन्दारपुष्पस्तबकं दधद् विस्मयमुद्रिकाम् ॥ इति । —(ई०सं० ८।४९, पा० सं० ८।४८-४९) गरुडस्य द्वयं पश्चात्करद्वयमित्यर्थः । चतुर्थस्य करद्वयं तार्क्ष्यस्य पश्चात्कर- द्वयमित्यर्थः । पञ्चमस्य विहगेश्वरस्य दक्षिणे पश्चाद्दक्षिणकरे । वामे पश्चाद्वामकर इत्यर्थः । त्रयाणां गरुडतार्क्ष्यविहगेश्वराणाम् । शेषं द्वयमवशिष्टं मुख्यहस्तद्वयम् । द्वयोः समं सत्यसुपर्णयोः समम्, तन्मुखहस्तयोः सदृशमिति यावत् । ननु गरुडस्य द्वयमित्याद्युक्तमेव मुख्यहस्तद्वयं स्यात् । त्रयाणां शेषं पश्चात्करद्वयं द्वयोः सुपर्णपश्चात्करयोः सदृशमित्यर्थः सरस इति चेन्न, तथाऽर्थवर्णने तत्तत्स्कन्धा- धिरूढभगवच्चरणारविन्दयोराधारासिद्धेः, “पञ्चमो विहगेश्वरः । दक्षिणेन सुधाकुम्भं वामेन तु फणीश्वरम्” (ई०सं० ८।५१, पा०सं० ८।५०-५१) इतीश्वरपारमेश्वरो- पबृंहणविरोधाच्च । ननु किं तर्हि मूलोपबृंहणयोः सर्वत्रैकार्थ्यं संभवति ? अत्र भवदुक्तरीत्या विरोधे परिहृतेऽपि, तथाविधाभ्यां गरुडस्ते धत्ते व्यत्ययेन तु । तार्क्ष्यः पश्चिमयोर्नित्यं धत्ते दक्षिणवामयोः ॥ कद्रू तथाऽमृतं कुम्भम् .... ..... ........ —(ई०सं८।५०-५१, पा०सं० ८।४९-५०) इति वचनम्, स्वस्वाङ्गुष्ठद्वयप्रोतगणिन्त्रोभयपाणिना । पुष्पाञ्जलिधराः सर्वे मुख्येन विहगोत्तमाः ॥ —(ई०सं० ८।४८, पा०सं० ८।४७-४८) इति वचनं च मूलविरुद्धं भवति । तत्र का गतिरिति चेत्, सत्यम् । उप- बृंहणवचनविरोधेऽपि न प्रत्यवायः । तथाहि—तत्र सत्यादीनां प्रधानपक्षीश्वरपरिवार- त्वदशाप्रकरणाद् भगवद्वाहनत्वस्य तदानीमप्राप्तत्वाच्च सर्वेषामपि मुख्यहस्ताभ्यां पुष्पाञ्जलिधरत्वमेवोक्तम्, सुपर्णविहगेश्वरयोर्मूलानुसारेणैव सामञ्जस्यात् । पश्चा- त्कराभ्यां पुष्पस्तबकविस्मयमुद्रिकाधारणं सुधाकुम्भफणीश्वरधारणं चोक्तम् । गरुड- तार्क्ष्ययोस्तु मुख्यहस्ताभ्यामेव पुष्पाञ्जलिधारणस्योक्तत्वात् पुनः पश्चात्कराभ्यामञ्जलि- पुटधारणस्यासामञ्जस्यात् सुपर्णविहगेश्वरोक्तलाञ्छनयोरेवाभ्यां व्यत्ययेन धारण- मुक्तमिति ज्ञेयम् । भगवद्वाहनत्वदशायां सत्यादीनां ध्यानं तु यथामूलं विलिखित- मीश्वरे ॥ १७७-१९९ ॥