सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 364, कुल 837 में से
संदर्भ में पढ़ेंत्रयोदशः परिच्छेदः भूषणाद्यस्त्रदेवताध्यानम् श्रीभगवानुवाच यागेऽस्मिंस्त्वेकपीठे वै सर्वसामान्यलक्षणे । ध्येया विशेषरूपेण किरीटाद्यखिलास्तु वै ॥ १ ॥ चतुर्भुजाश्चतुर्वक्त्रा वस्त्रस्रग्भूषणान्विताः । पुनर्विशेषयागानामर्चनावसरे वपुः ॥ २ ॥ एकाननं च सर्वेषां द्विभुजं विहितं सदा । अथ त्रयोदशः परिच्छेदो व्याख्यास्यते । अत्र प्रथमं किरीटादिभूषणानां लाञ्छ- नानां च सर्वेषामपि स्वातन्त्र्येणार्चनप्रकरणे चतुर्मुखत्वं चतुर्भुजत्वं च ध्येयम्, पारतन्त्र्ये- णार्धनप्रकरणे तु द्विभुजत्वमेकमुखत्वमेव ध्येयमित्याह—याग इति सार्द्धद्वाभ्याम् । अत एव जयाख्य (१३।१५१) लक्ष्मीतन्त्रादिषु (३८।६८) भोगयागप्रकरणे कौस्तुभा- दीनां द्विभुजत्वमेवोक्तम् । ननु तर्हीश्वरपारमेश्वरयोर्भोगयागप्रकरणेऽपि श्रीवत्सकौस्तुभयोश्चतुर्भुजत्वम्, “उद्गिरन्तं स्वकैर्मुखैः” (ई०सं० ४।१२०, पा०सं० ६।३६३) इत्यनेन शङ्खस्य चतुर्मुखत्वं चोक्तम् । तस्य का गतिरिति चेत्, सत्यम् । तत्र सात्वतोक्तस्वतन्त्रार्चनपर- ध्यानश्लोका एव यथावस्थितं विलिखिताः । तथापि तत्रैवोत्तरत्र— ध्येयाः स्वरुचिसंयुक्ता द्विभुजाः पुरुषोपमाः ॥ सास्त्राः किरीटपूर्वा ये गदामालाङ्गनाकृतीः । —(ई०सं० ४।१२०-१२१, पा०सं० ६।२६९-२७०) इत्युक्तत्वान्न विवादावकाशः ॥ १-३ ॥ श्री भगवान् ने कहा—इस सर्वसामान्य एक पीठ नामक याग में विशेष रूप से किरीट आदि समस्त भगवान् के भूषणभूत चिह्नों का स्वतन्त्र रूप से अर्चन प्रकरण में चतुर्मुखत्व तथा चतुर्भुजत्व स्वरूप ही ध्येय है, किन्तु पारतन्त्र्य अर्चन के प्रकरण में इन सभी वस्त्र, माला एवं आभूषणों का द्विभुजत्व तथा एक मुखत्व स्वरूप समझना चाहिये ॥ १-३ ॥