सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 388, कुल 837 में से
संदर्भ में पढ़ेंपञ्चदशः परिच्छेदः ३२९ कुशकूर्चनिर्माणप्रकारकथनम् बहुशाखमभग्नाग्रं समूलं यदपुष्पितम् ॥ ५ ॥ प्राङ्मुखो दर्भमादाय प्रणवेन पुरा क्षितेः । ततस्तेनैव तन्मूलं प्राग्वत् कुर्यादधिष्ठितम् ॥ ६ ॥ तस्य मध्यमनालं यन्त्यग्भूतमवतिष्ठते । आराध्य मन्त्रनाथेन स्मरेद् व्याप्तं महात्मना ॥ ७ ॥ विवर्तं परमात्मीयमध्यक्षाख्यं च विद्धि तम् । अनेकगर्भमुच्चं यत्काण्डं काण्डेषु चोत्तमम् ॥ ८ ॥ अणिमादिगुणैर्युक्तं पुंस्तत्त्वं तेन कल्प्यते । वाचकं तस्य योक्तव्यं हंसयुक्तं द्विलक्षणम् ॥ ९ ॥ बहिःकाण्डचतुष्केण चित्तपूर्वं चतुष्टयम् । ग्रथनीयमधोवक्त्रमव्यक्तान्तं स्वकैः पदैः ॥ १० ॥ प्रणवादिमोऽन्तैस्तु व्यापकं सूक्ष्मलक्षणम् । एवं श्रोत्रादिकान् पञ्च स्वनाम्ना ग्रथयेत् तथा ॥ ११ ॥ कर्मेंन्द्रियाणि तदनु ततस्तन्मात्रपञ्चकम् । पञ्चकं त्वथ भूतानां बद्ध्वा वै क्ष्माऽवसानिकम् ॥ १२ ॥ अवशिष्टैस्तु तत्काण्डैर्बध्नीयात् तत् तरण्डवत् । विना शिखासमूहेन समुत्तानावधेरथ ॥ १३ ॥ किञ्चित् तदूर्ध्वदेशाच्च यथा नो याति वै पुनः । बहुधा काण्डसंघस्तु कल्पितस्तत्त्वसंख्यया ॥ १४ ॥ विभिन्नानां च काण्डानां भङ्गादेकतमस्य च । उत्पद्यतेऽन्यथात्वं च तस्मात् तद् ग्रथयेद् दृढम् ॥ १५ ॥ तदर्थं कुशकूर्चनिर्माणप्रकारमाह—बहुशाखमित्यादिभिः। बहुशाखम् = अनेक- काण्डान्वितमित्यर्थः । तेनैव = प्रणवेन, तन्मूलं = दर्भमञ्जरीमूलम्, अधिष्ठितं कुर्याद् = व्याप्तं भावयेदित्यर्थः । परमात्मीयं विवर्तं = भगवदाकारान्तरमित्यर्थः । अध्य- क्षाख्यमिति विवर्तस्य विशेषणम् । अध्यक्षं नाम भगवत्सूक्ष्मरूपभेदः । तथा चोक्तं जयाख्ये— तन्महाविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज । प्रविष्टं भावयेत् सूक्ष्मे ह्यध्यक्षे ह्युभयात्मके ॥ परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् । तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ॥ सिद्धिमार्गेण हृत्पद्मे सम्प्रविष्टं तु भावयेत् । —(१५।२३५-२३७) इति । सा० सं० - 25