सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 399, कुल 837 में से
संदर्भ में पढ़ें३४० सात्वतसंहिता ज्ञात्वा भव्याशयानां च प्रसादं पारमेश्वरम् ॥ २८ ॥ विभवव्यूहसूक्ष्माख्यां दीक्षां कुर्यादनन्तरम् । पूर्वोक्तब्रह्मकूर्चादिप्रायश्चित्तानामिह जन्मनि सम्पादितदोषमात्रशामकत्वात् प्राग् बहुजन्मार्जितदोषशामनार्थं नृसिंहमन्त्रदीक्षामपि दत्त्वा तेन नृसिंहाराधनं च कारयेत् । तन्मनःपरिशुद्ध्यादिकं तस्मिन् भगवदनुग्रहं च ज्ञात्वा परव्यूहविभवमन्त्रदीक्षां दद्यादि- त्याह—एवमिति चतुर्भिः ॥ २५-२९ ॥ इस प्रकार, हे महामते ! इस जन्म के समस्त दोषों के शुद्ध हो जाने पर बहुजन्मार्जित पापों के विनाश के लिये मन्त्रपूर्वक दीक्षा देकर नारसिंही मन्त्र की दीक्षा प्रदान करे ॥ २५-२६ ॥ फिर उससे चार मास या आठ मास अथवा एक वर्ष तक बाह्य एवं आभ्यन्तर नृसिंहाराधन करावे, जब उसका मन शुद्ध हो जाय तब उसके ऊपर भगवदनुग्रह जानकर परव्यूह विभव मन्त्र की दीक्षा देवे ॥ २७-२९ ॥ सङ्कर्षण उवाच परिज्ञेयो हि कैर्लिङ्गैः साधकानामघक्षयात् ॥ २९ ॥ सम्यगाराधनान्मन्त्रप्रसादः कमलापते । तस्मिन् भगवदनुग्रहो जात इति कथं ज्ञेय इति पृच्छति सङ्कर्षणः—परिज्ञेय इति ॥ २९-३० ॥ सङ्कर्षण ने कहा—हे भगवन् ! किन-किन चिह्नों से यह ज्ञात होता है कि अब इस उपासक का पाप विनष्ट हो गया है? हे कमलापते ! किन-किन चिह्नों से जाना जाय कि आराधक के ऊपर आराधन-मन्त्र का प्रसाद हो चुका है? ॥ २९-३० ॥ श्रीभगवानुवाच चित्तप्रसादस्त्वतुलस्तेजोवृद्धिरतीव हि ॥ ३० ॥ धैर्यमुत्साहसन्तोषावकार्पण्यादयो गुणाः । येषां तेषां हि बोद्धव्यं मन्त्रात्माऽभिमुखः स्थितः ॥ ३१ ॥ प्रयुक्तिः शान्तिकादीनां कर्मणामचिरादपि । प्रयाति यदि साफल्यं विज्ञेयं तेन हेतुना ॥ ३२ ॥ सम्पन्नः पापदाहश्च प्रसन्नश्चापि मन्त्रराट् । ददाति धर्मकामार्थानचिराद् यदि योजितः ॥ ३३ ॥ अणिमाद्यष्टकं चापि विविधा योगसिद्धयः । आत्मसिद्धिसमेताश्च परितुष्टास्तदा स्मृताः ॥ ३४ ॥ एवं पृष्टस्तज्ज्ञाने हेतूनाह—चित्तप्रसाद इत्यादिभिः ॥ ३०-३४ ॥