भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 409, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 409

३५० सात्वतसंहिता दाहिने हाथ में खड्ग का और बायें हाथ में धनुष का न्यास करे। फिर श्री का न्यास दक्षिण भाग में कन्धे तक तथा उसी (श्री) से उत्तर भाग में न्यास करे। गुल्फपर्यन्त पुष्टि का तथा मुखमध्य में सरस्वती का न्यास करे। पीठ में दोनों हाथों से निद्रा का न्यास करे॥ ३४-३५॥ स्वस्मिन् देवत्वभावनाकथनम् मुद्रां बद्ध्वा स्मरेद् ध्यानं देवोऽहमिति भावयेत्। अथ प्रणवपूर्वेण स्वनाम्ना नतिना सह॥ ३६॥ मूलादिमुद्राप्रदर्शनपूर्वकं स्वस्मिन् देवत्वभावनामाह—मुद्रामित्यर्धेन। एवमेव व्यक्तमुक्तं जयाख्येऽपि— अहं स भगवान् विष्णुरहं नारायणो हरिः। वासुदेवो ह्यहं व्यापी भूतावासो निरञ्जनः॥ एवं रूपमहङ्कारमासाद्य सुदृढं मुने। (१९।४१-४२) इति। नैतावता जीवात्मपरमात्मनोः स्वरूपैक्यं शङ्कनीयम्, यतः श्रीपञ्चरात्ररक्षायां तृतीयेऽधिकारे—‘‘एतेन लाञ्छनन्यासाद्यनन्तरम् ‘‘मुद्रां बद्ध्वा स्मरेद्देवं देवोऽहमिति भावयेत्’’ (सा०सं० १७।३६) इति समाराधनग्रन्थोऽपि निर्व्यूढः। ‘‘बद्ध्वा मूलादिकां मुद्रां देवोऽहमिति भावयेत्’’ इत्यादिसंहितान्तरग्रन्थाश्चात्र तुल्यन्यायाः। ‘‘अत्र मनो ब्रह्मेत्युपासीत’’ (छा०उ० ३।१८।१) इत्यादिविध्वेतिकारादिवशाद् दृष्टिविधित्वं सुस्पष्टम्। अत एव हि तथाविधभावनयाऽप्यनन्तरयोग्यतापादन- मात्रमुक्तम्— न्यासेन देवमन्त्राणां देवतादात्म्यभावनात्। अप्राकृताङ्ककरणात् पूजामर्हति साधकः॥ इति। अन्यथा— देवतारूपमात्मानमर्चयेदर्घ्यधूपकैः। धूपावसानिकैर्भोगैर्ध्यात्वा नारायणं हृदि॥ इति समनन्तरकर्तव्यं कथं संगच्छते। नहि स्वरूपैक्यभावनायां हृदि पुन- र्नारायणध्यानमिति किञ्चित् स्यात्। न च शेषवृत्तौ प्रवर्तमानस्य स्वरूपैक्यभावनं जा- घटीति। अतो दृष्टिविधिपक्षोऽत्र स्वीकार्यः। यद्वा, गत्यन्तरे संभवति दृष्टिविधिविवक्षा च न युक्ता। अतस्तच्छरीरतया तादधीन्यादिभिः सर्वानुवृत्तस्तद्व्यपदेशः। तदभिप्रायेण च ‘‘स्वनियाम्येत्यादिकं वक्ष्यति भाष्यकारः’’ (पृ० ८६-८७) इति सुस्पष्टमुप- पादितम्॥ ३६॥ मुट्ठी बाँधकर प्रणवपूर्वक अपने नाम के आगे चतुर्थ्यन्त लगाकर नमः के साथ 'हम देव हैं' इस प्रकार की भावना करते हुए ध्यान करे॥ ३६॥ शेषपूर्वं तु वह्नयन्तमासनं परिकल्पयेत्।

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक) · पृष्ठ 409, कुल 837 में से · BharatKosha