सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 423, कुल 837 में से
संदर्भ में पढ़ें३६४ सात्वतसंहिता अन्येषामित्यनेन श्रीवत्सादिभूषणानां चक्रादिलाञ्छनानामन्तादिपीठदेवानां विष्वक्से- नादिगुरूणां द्वारावरणस्थपरिवाराणां च ग्रहणं बोध्यम् । ननु जयाख्ये एतेषामपि मुद्राः प्रतिपादिताः । तत्राप्यनुक्तमुद्राणामेव हृ(न्मन्त्रा- न्मुद्रा)प्रदर्शनं सरसमिति चेन्न, तत्तत्संहितानिष्ठैस्तत्तदुक्तप्रकारेणैवानुष्ठेयत्वात् । ननु तर्हि सात्वतोपबृंहणे जयाख्योक्ताः श्रीवत्सादिमुद्राः संगृहीता इति चेत् सत्यम् । तत्र— सामान्या सर्वमन्त्राणामेका मुद्राञ्जलिः स्मृता ॥ स्वेन स्वेन तु मन्त्रेण संयुक्तां तां प्रयोजयेत् । —(ई०सं० २३।४१-४२) इति सात्वतोक्तपक्षस्यापि प्रतिपादित्वान्न भेतव्यमायुष्मता ॥ १०४ ॥ श्रीवत्सादि अन्य देवता के अर्चन में हृन्मुद्रा को ही शिरोमुद्रा के साथ तत्तन्मन्त्रों के साथ प्रयोग करे ॥ १०४ ॥ परस्परमुखौ श्लिष्टौ शाखाक्रान्तौ परस्परम् । किन्तु वै दक्षिणं हस्तमूर्ध्वं चाप्यधरेऽपरम् ॥ १०५ ॥ अविद्यादलिनी ह्येषा मुद्रा पूर्वमुदाहृता । अथ भगवतो हस्तस्थिताया अविद्यादलिन्या मुद्राया लक्षणमाह—परस्परेति सार्धेन । हस्तौ परस्पराभिमुखौ संश्लिष्टौ परस्पराङ्गुलिभिराक्रान्तौ च कृत्वा । दक्षिण- मुत्तरं अपरमधरं कुर्यादित्यर्थः ॥ १०५-१०६ ॥ अब भगवान् के हाथ में स्थित अविद्यादलिनी मुद्रा का लक्षण कहते हैं— अपने दोनों हाथों को परस्पर सामने रख कर एक में मिला देवे । फिर परस्पर अङ्गुलियों से दोनों हाथों को आक्रान्त कर दाहिने हाथ को ऊपर तथा बायें हाथ को नीचे करे । त्रिशिखा मुद्रा पहले कही गई है और अब अविद्यादलिनीमुद्रा कही गई ॥ १०५-१०६ ॥ एवं मुद्रात्रयं कृत्वा पूजां कृत्वा पुनः प्रभोः ॥ १०६ ॥ यथाशक्ति जपं कुर्याच्छतमष्टाधिकं तु वै । पूर्वोक्तां त्रिशिखामुद्रामिमामविद्यादलिनीमुद्रां च भगवते प्रदर्श्य पुनरर्घ्यादिभि- रभ्यर्च्राष्टोत्तरशतवारं यथाशक्ति वा मूलमन्त्रं जपेदित्याह—एवमिति । हृन्मन्त्रा- दीनामेकैकवारं जपः कार्यः । तेषां मूलमन्त्राराधनाङ्गभूतत्वात् सकृज्जपेऽपि न प्रत्यवायः ॥ १०६-१०७ ॥ इस प्रकार इन मुद्राओं को भगवान् के सामने प्रदर्शित करना चाहिए फिर अर्घ्यादि द्वारा अर्चना कर मूलमन्त्र का एक सौ आठ बार अथवा यथाशक्ति जप करना चाहिए ॥ १०६-१०७ ॥