भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 424, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 424

सप्तदशः परिच्छेदः ३६५ एकैकं हृदयादीनां सर्वेषां विहितं त्वथ ॥ १०७ ॥ क्रियाङ्गत्वान्न दोषोऽस्ति अन्यथा तज्जपं विना । सकृज्जपस्याप्यकरणे प्रत्यवाय इत्याह—एकैकमिति ॥ १०७-१०८ ॥ हृन्मन्त्रादि का एक-एक बार जप करे । ये मन्त्र मूलमन्त्र के आराधन के अङ्ग हैं । अतः एक बार भी जप करने में कोई दोष नहीं । यदि इन मन्त्रों को एक बार भी जप न करे तब प्रत्यवाय होता है ॥ १०७-१०८ ॥ तमर्चयित्वाऽष्टाङ्गेन प्रणम्य परमेश्वरम् ॥ १०८ ॥ स्मृत्वाऽनुज्ञां समादाय यजेद् वह्निगतं ततः । एवं जपयज्ञानन्तरं साष्टाङ्गप्रणामजितन्तादिस्तोत्रपठनपूर्वकं भगवदनुज्ञया वह्नि- सन्तर्पणं कुर्यादित्याह—तमिति ॥ १०८-१०९ ॥ फिर साधक भगवान् का अर्चन कर अष्टाङ्ग प्रणिपात द्वारा उनको प्रणाम करे । तत्पश्चात् भगवान् का स्मरण कर वह्नि सन्तर्पण द्वारा उनके यजन की आज्ञा लेवे ॥ १०८-१०९ ॥ कुण्डं सुलक्षणं कृत्वा संस्कारैः संस्कृतं पुरा ॥ १०९ ॥ पूजयित्वार्घ्यपुष्पाद्यैस्तत्राग्निमवतार्य च । सुसमिद्धं च निर्धूमं संशुद्धं ताडनादिना ॥ ११० ॥ अर्घैर्निरम्बुकुसुमैः पूजयित्वा च भावयेत् । व्यस्तो गुणगणः षष्ठस्तेजो नाम गुणो हि यः ॥ १११ ॥ परस्य ब्रह्मणः सोऽयं सामान्यं सर्वतेजसाम् । ध्यात्वैवं नेत्रमन्त्रेण निक्षिपेत् कुण्डमध्यतः ॥ ११२ ॥ पावनैरिन्धनैः शुष्कैः कृत्वा निर्धूममेव तम् । समिद्भिरर्चयित्वाऽथ तन्मध्ये मन्त्रमण्डलम् ॥ ११३ ॥ ध्यात्वाऽभ्यर्च्य यथापूर्वं सन्तर्प्य सघृतैस्तिलैः । परिवारयुतं देवं सहस्रशतसंख्यया ॥ ११४ ॥ दद्यात् पूर्णाहुतिं सम्यग् होमसंख्यां निवेद्य च । वह्निसन्तर्पणक्रममाह—कुण्डमित्यारभ्य होमसंख्यां निवेद्य चेत्यन्तम् । सुलक्षणम् = एकादशपरिच्छेदोक्तलक्षणान्वितमित्यर्थः । संस्कारैः = षष्ठपरिच्छेदोक्तैः, उप- लेपनादिभिरित्यर्थः । पूजयित्वाऽर्घ्यपुष्पाद्यैरित्यत्रापि—"तदभ्यर्च्यर्घ्यपुष्पाद्यैर्ध्यायेत् तद्ब्रह्मपीठवत्" (६।८३) इत्याद्युक्तप्रकारो ज्ञेयः । संशुद्धं ताडनादिनेत्यत्र— सन्ताड्य चास्त्रमन्त्रेण प्रोक्षयेच्छिखया च तम् ॥ अर्चयेत् कवचेनैव कवचेनावकुण्ठ्य च ।