सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 490, कुल 837 में से
संदर्भ में पढ़ेंअष्टादशः परिच्छेदः ४३१
सभी बीज सिद्धार्थक युक्त सभी धान्यों को अस्त्र मन्त्र का ध्यान कर अस्त्र मन्त्र से जप कर उन्हें अस्त्र के समान बनावे ॥ ७९-८१ ॥ फिर विघ्न की शान्ति के लिये उन सिद्धार्थक युक्त धान्यों को दशों दिशाओं में वेग से प्रक्षिप्त करे । फिर उन धान्यों को कुशा के कूँचे से एकत्रित कर पूर्व दिशा में स्थापित करे और किसी वस्तु के भीतर रख देवे । तदनन्तर चन्दनादि द्वारा हेतिराट् चक्र लिखे ॥ ८१-८३ ॥ कुम्भमण्डलाग्निषु भगवदर्चनक्रमकथनम् करकं कुम्भसंयुक्तमलङ्कृत्य यथा पुरा ॥ ८३ ॥ भोगैः प्रावरणान्तैश्च मूर्तीभूतौ विचिन्त्य च । तद्देवताशरीरं तु पश्येदम्बरवच्छुभम् ॥ ८४ ॥ अथ कुम्भमण्डलाग्निषु भगवदर्चनक्रममाह—करकं कुम्भसंयुक्तमित्यारभ्य प्राग्वत् कुम्भेऽथ पूजित इत्यन्तम् । यथापुरमलङ्कृत्य, "प्राप्तानुज्ञोऽथ कलशमादाय शुभलक्षणम्" (१७।५७) इत्यादिसप्तदशपरिच्छेदोक्तप्रकारेणालङ्कृत्येत्यर्थः एव- मेवोक्तं जयाख्येऽपि दीक्षापटले— अथादाय दृढं शुभमेकरूपं च निर्व्रणम् ॥ कलशं मृण्मयं रम्यं सौवर्णं वाऽथ राजतम् । रत्नहाटकसद्गन्धपुष्पसर्वौषधीयुतम् ॥ शुभपादपशाखाढ्यं पट्टसूत्रकण्ठभूषणम् । गालितोदकसम्पूर्णं वारिधारान्वितं शुभम् ॥ चन्दनाद्युपलिप्तं च परितश्चार्घ्यचर्चितम् । (१६।९५-९८) इति । प्रावरणान्तैर्भोगैर्वस्त्रान्तैरुपचारैरित्यर्थः । मूर्तीभूतौ विचिन्त्य कुम्भकरकौ मन्त्रनाथसुदर्शनयोः शरीरत्वेन ध्यात्वेत्यर्थः, "तद्देवताशरीरं तु पश्येदमलवर्चसम्" (ई०सं ११।१९५, पा०सं० १२।२२४) इतीश्वरपारमेश्वरोक्तेः । विचिन्त्य चेत्यत्र चकारेण पूर्वं महाकुम्भमध्ये भगवदर्चनमपि सूचितं भवति । अन्यथा— "इदमभ्यर्थयेद् देवं सास्त्रं बद्धाञ्जलिस्थितः" (१८।८७) इत्युक्तिविरोधात् । तथा चेश्वरपारमेश्वरयोः— कुम्भमध्ये विभोः प्राग्वदासनं परिकल्प्य च ॥ तन्मध्ये पुण्डरीकाक्षं समावाह्य विधानतः । सन्निधिं सन्निरोधादि भोगयागावसानकम् ॥ पूर्ववत् सकलं कृत्वा तस्य दक्षिणदिग्गतम् । अस्त्रविग्रहरूपं च ध्यात्वाऽभ्यर्च्य यथाविधि ॥ ध्वंसयन्तं च विघ्नानां जालं कर्मावसानकम् । इति । —(ई०सं० ११।१९८-१२१, पा०सं० १२।२२७-२२९) जयाख्ये (१६।१०२) ईशानदिशि महाकुम्भस्थापनमुक्तम् । अतस्त्वेतत्पक्ष-