सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 495, कुल 837 में से
संदर्भ में पढ़ें४३६ सात्वतसंहिता तदनन्तर द्रव्य-सम्पात होम तथा पूर्णाहुति करने के बाद आहुति के अनुसार उस चरु को तीन पात्र में स्थापित करे ॥ १०९ ॥ स्थण्डिले कलशेऽग्नौ च विनियुज्य यथाविधि । तदाद्यभावितं शेषं कुशाक्रान्तं विघट्य च ॥ ११० ॥ प्रथम भाग स्थण्डिल, दूसरा कलश और तीसरा भाग अग्नि के लिये यथाविधि स्थापित करे । शेष आद्यभावित उस चरु को कुशा डाल कर उससे अच्छी तरह चरु का विलोडन करे ॥ १०९-११० ॥ क्रमान्मूलास्त्रनेत्रेण जुहुयाच्च शतत्रयम् । नीत्वा सम्पूर्णभावं च पूर्णया पुनरेव हि ॥ १११ ॥ फिर क्रमशः मूल सहित अस्त्र मन्त्र से तीन सौ आहुति देवे । इस प्रकार सम्पूर्ण चरु का हवन कर पूर्णाहुति करे ॥ १११ ॥ ततश्चोत्तरदिक् कुर्यान्मण्डलं गोमयादिना । प्राक्प्रान्तं विष्टरं तत्र दद्याद् दर्भं हृदन्तरे ॥ ११२ ॥ तन्मध्ये विन्यसेच्छिष्यं समाङ्घ्रिं स्तब्धविग्रहम् । प्राङ्मुखं यतवाक्चित्तवृत्तिरूपं धृताञ्जलिम् ॥ ११३ ॥ अथ शिष्यस्य विष्टरोपरि स्थापनं प्रोक्षणं सिद्धार्थतिलैस्ताडनं कुशाग्रेण तद्वि- ग्रहोल्लेखनं मन्त्रव्याप्ति नेत्रबन्धं पुष्पाञ्जलिप्रक्षेपणामच्युतकरेणालभनं मण्डलार्चनं तत्पुरतः पृथिव्यादिभूतसप्तकस्य तदधीशमन्त्रसंघस्य च पूजनमग्निसन्निधौ शिष्येण सहोपवेशनं शिष्यस्य कर्मवासनाविश्लेषसिद्ध्यर्थं होमं सम्पातस्पर्शं विज्ञापनं प्रायश्चित्त- होमं शिष्यस्य सूत्रात्मकशरीरकल्पनं गुल्फादिषु पृथिव्यादिव्याप्तिक्रमं पृथिव्यादिषु भुवनाध्वादीनां संस्थितिं पातालशयनादीनामवस्थानं तत्र विभवव्यूहपरमन्त्रदीक्षाभेदेन पृथिव्यादिभूतसप्तकविन्यासभेदं पुनः कुम्भार्चनं शिष्यस्य पञ्चगव्यप्राशनं चरुभोजनं दन्तधावनं तत्काष्ठपतन परीक्षां तच्छान्तिं मण्डलस्थस्य देवस्य कुम्भादौ विसर्जनं स्वप्नलाभाय शिष्यस्य शयनं तत्परितो रक्षाकरणम् आचार्यस्यापि दन्तधावनादिकं भगवत्प्रार्थनापूर्वकं प्रस्वापं चाह—ततश्चोत्तरदिक् कुर्यान्मण्डलं गोमयादिनेत्यारभ्य यावत्परिच्छेदपरिसमाप्ति । विश्वरूपाद्यं क्ष्माधरान्तं षट्कं विश्वरूपवागीशखगानन- नृसिंहसरश्शायिवराहाख्यदेवताषट्कमित्यर्थः । मधुसूदनपर्यन्तं पातालशयनादथ ॥ सप्तकं सप्तकं षटकं सम्पश्येत्क्ष्मादिपञ्चके । मनस्यवस्थितं ह्येवं शक्तीशात् त्रितयं हि यत् ॥ बुद्धौ कमलनाभात्मा देवः सर्वेश्वरः प्रभुः । (१८।१९६-१९८) इत्यस्यार्थः—पातालशयनमारभ्य पद्मनाभान्तमष्टत्रिंशद्विभवदेवेषु पाताल- शयनादिसप्तकं क्ष्मातत्त्वे, नारायणादिसप्तकमप्तत्त्वे, लोकनाथादिसप्तकं तेजस्तत्त्वे,