सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 496, कुल 837 में से
संदर्भ में पढ़ेंअष्टादशः परिच्छेदः ४३७ नारसिंहादिसप्तकं वायुतत्त्वे, क्रोडात्मादिषट्कमाकाशतत्त्वे, शक्त्यात्मादित्रयं मन- स्तत्त्वे, पद्मनाभं बुद्धितत्त्वे च सम्पश्येदित्यर्थः । सात्वतामृते तु व्यापकमन्त्रदीक्षा उक्तत्वात् येन येन हि मन्त्रेण दीक्षा कार्याऽथ कस्यचित् । तस्य तस्य तदीयानां पूर्वोद्दिष्टेन वर्त्मना ॥ कार्योऽत्रावयवानां तु विनियोगो यथोदितः । समूहवद् हृदादीनां मूलान्तानां समाचरेत् ॥ सह तत्त्वगणेनैव सर्वदाऽध्यात्मरूपताम् । सम्यग्गृह्य ततः कुर्यात् प्राग्वदभ्यर्चनं तु वै ॥ —(१९।१७२-१७४) इति वक्ष्यमाणानुसारेण क्षमातत्त्वादिषु हृन्मन्त्रादयः प्रतिपादिता इति बोध्यम् ॥ ११२-२३३ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये अष्टादशः परिच्छेदः ॥ १८ ॥ — ❦ ❖ ❦ — इसके बाद उस हवन कुण्ड की उत्तर दिशा में गोमयादि से मण्डल निर्माण करे । उसके पूर्वभाग में विष्टर के लिये कुशा स्थापित करे । उस विष्टर के मध्य में पाद समतल कराकर शरीर को स्थिर कराकर शिष्य को पूर्वाभिमुख चुपचाप स्थिर चित्त अञ्जलि बाँधे हुए बिठावें ॥ १११-११३ ॥ अस्त्रेण पूर्ववत् कुर्यात् प्रोक्षणं तस्य चाम्भसा । तेनैव ताडयेन्मूर्ध्नि दीप्तैः सिद्धार्थकैस्तिलैः ॥ ११४ ॥ अस्त्रमन्त्र से जल द्वारा उसका प्रोक्षण करे । उसी मन्त्र से दीप्त सिद्धार्थक और तिलों से शिष्य के मस्तक पर ताड़न करे ॥ ११४ ॥ अनादिवासानोत्थानां बन्धानां चालनाय च । फडन्तेनाथ चास्त्रेण कुशाग्रेणाङ्घ्रिगोचरात् ॥ ११५ ॥ समुल्लिख्य शिखान्तं च ऋज्वर्ध्वं मार्गसन्ततेः । जालवन्मन्त्रजालेन व्याप्तं स्मृत्वा च संवृतम् ॥ ११६ ॥ बध्नीयान्नेत्रमन्त्रेण तस्य नेत्रे च वाससा । वस्त्र्वर्घ्यकुसुमैर्गन्धैः कृत्वा पूर्णाञ्जलिं पुरा ॥ ११७ ॥