भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 512, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 512

एकोनविंशः परिच्छेदः दीक्षाविधिः नारद उवाच अधिवासाभिधानेयं पूर्वदीक्षाऽच्युतेन वै। कथिता सीरिणे विप्रास्तेनाऽतश्चोदितः पुनः ॥ १ ॥ अथैकोनविंशः परिच्छेदो व्याख्यास्यते। एवमधिवासदीक्षां श्रुत्वा पुनः सङ्कर्षणः पृच्छतीत्याह—अधिवासेति ॥ १ ॥ नारद जी ने कहा—हे ब्राह्मणो ! इस प्रकार दीक्षा के पूर्व की क्रिया भगवान् ने बलभद्र से कही। तदनन्तर श्री बलभद्र ने भगवान् से कहा ॥ १ ॥ सङ्कर्षण उवाच देव दीक्षाविधानं च त्वद्वक्त्रकमलादहम्। श्रोतुमिच्छामि संक्षेपाद् वैष्णवानां हिताय च ॥ २ ॥ प्रश्नप्रकारमाह—देवेति ॥ २ ॥ सङ्कर्षण ने कहा—हे देव ! अब मैं आप के मुखकमल से वैष्णवों के हित के लिये संक्षेप में दीक्षा विधान सुनना चाहता हूँ ॥ २ ॥ श्रीभगवानुवाच एकानेकस्वरूपां वै दीक्षां संसारिणां शृणु। आसाद्य यां समायान्ति देहान्तेऽभिमतं पदम् ॥ ३ ॥ एवं पृष्टः श्रीभगवान् परव्यूहविभवभेदभिन्नदीक्षात्रयस्य फलभेदानुक्त्वा तत्र दीक्षात्रयेऽप्याचारवतां शिष्याणामधिकारं वृद्धबालाङ्गनानां तु दुश्शकाचारविरहेऽप्य- धिकारं च दर्शयित्वा तेषां तत्तत्फलाभिसन्ध्यनसारेण दीक्षात्रयेऽन्यतमा कर्तव्येत्याह— एकानेकेत्यदिभिः। अत्राशक्तविषये लघुतरानुष्ठानमप्युक्तं जयाख्यलक्ष्मीतन्त्रयोः— महामण्डलयागेन हवनाद्वाऽथ केवलात्। वाचा केवलया वापि दीक्षैषा त्रिविधा पुनः॥