भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 522, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 522

एकोनविंशः परिच्छेदः ४६३ हुते होमादिभिस्तप्तैः सुरूपैरर्चितैः क्रमात् ॥ दासभूतं यदात्मानं बुद्ध्येत परमात्मनः । तदैव गात्रं कुर्वीत शङ्खचक्रादिलाञ्छितम् ॥ (३।६२-६३) इति भारद्वाजसंहितोक्तो ग्राह्यः । तत्र विष्ण्वायतनाग्निवैष्णव एव । गुरोरा- त्मनो वाऽग्निश्चेत्, स्वगृह्योक्तप्रतिष्ठापूर्वकमीश्वरतन्त्रोपबृंहितवैष्णवीकरणप्रक्रियया संस्कार्यः । ऊर्ध्वपुण्ड्रधारणमपि चक्राङ्कनानन्तरमेव कार्यम् । नाममन्त्रयागाख्य- संस्कारत्रयं तु दीक्षाकाल एवानुष्ठेयम्, तस्य दीक्षाङ्गत्त्वेनैव प्रतिपादितत्वात् । ननु तर्हि पञ्चसंस्काराणां यौगपद्येनानुष्ठानं न संभवतीति चेत्, किं तावता प्रत्यवायः । जातस्य कुमारस्य द्वादशेऽहनि नामकरणप्रकरणे शङ्खचक्राङ्कनं शास्त्रे- षूच्यते । तथैव शिष्टैरनुष्ठीयते, द्वादशेऽहनि पुत्रस्य केशवो बन्धुभिः सह । तेन श्रीशैलपूर्णेन गुरुणाऽमिततेजसा ॥ शङ्खचक्राङ्कनं पूर्वं कारयित्वाऽथ लीलया । लोके रामानुज इति नाम चक्रे सुमङ्गलम् ॥ (२।३८-३९) इति प्रपन्नामृतादिषु श्रीभाष्यकारादिशिष्टाचारोऽप्युद्घुष्यते च । अतो न पञ्च- संस्काराणां यौगपद्येनानुष्ठाननियमोऽस्ति । ननु तदानीं तेषां यौगपद्येनानुष्ठानासंभवेऽपि पुनरुपनयनानन्तरं विवाहानन्तरं वा पञ्चसंस्काराणां यौगपद्येनानुष्ठानं संभवति, तथैव भाष्यकारादिशिष्टाचारश्च प्रतिपादित इति चेत्, सत्यम् । अत एव हि दीक्षाकाले तेषां पुनःकरणे हेतुः पूर्वमस्माभिरपि प्रति- पादितः ॥ ३९-४६ ॥ फिर उसे अपनी बाईं ओर स्थापित कर उसके दोनों नेत्रों को वस्त्र से आच्छादित करे । फिर उसकी आँखे खोलकर उसके हाथों से अर्घ्य युक्त पुष्पाञ्जलि प्रक्षिप्त करावे । फिर वह शिष्य उन परमधाम भगवान् का दर्शन करे, जो मन्त्र के द्वारा सर्वोत्तम फल प्रदान करने वाले हैं । उसी समय आचार्य उस शिष्य का, वह जैसा जिस वर्ण का है उसका, वैसा ही उसी वर्ण के अनुसार यथोचित नामकरण करे ॥ ४०-४१ ॥ रहस्यसंज्ञं मुख्यं च गौणं वास्य यथास्थितम् । सामान्यं वासुदेवाद्यं नाम स्वाङ्गाच्चतुर्ष्वपि ॥ ४२ ॥ सर्वेषां सविशेषं वा यथा चानुक्रमेण तु । द्विषट्कमूर्त्यङ्कितं च स्वाम्यन्तं ब्राह्मणेषु च ॥ ४३ ॥ रहस्य संज्ञा वाला, अथवा मुख्य, अथवा गौण, अथवा यथास्थित (जैसा है) वैसा नामकरण करे, अथवा चारों वर्णों का वासुदेवादि सामान्य नामकरण करे । अथवा क्रमानुसार सभी चारों वर्णों का विशेषता युक्त नामकरण करे । ब्राह्मण शिष्य को १२ मूर्तियों से अङ्कित कर स्वाम्यन्त नामकरण करे ॥ ४२-४३ ॥