सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 524, कुल 837 में से
संदर्भ में पढ़ेंएकोनविंशः परिच्छेदः ४६५ पर स्थापित करा देवे । इस प्रकार मन्त्र से युक्त कर्म द्वारा उसका पुर्नजन्म करा देवे ॥ ४६-५० ॥ फिर शिष्य भावना के ध्यान से युक्त होकर अपने पितृ मातृ युक्त इस जगत् का त्याग कर देवे । (यहाँ तक शिष्य के भूतशोधन की प्रक्रिया कही गई) ॥ ५१ ॥ ततः कवचमन्त्रेण दद्यात् सप्ताभिमन्त्रितम् ॥ ५१ ॥ तस्योपवीतमपरमुदितं चापि यस्य यत् । उपवीतधारणार्हस्य त्रैवर्णिकस्य शिष्यस्य नूतनोपवीतधारणमाह—तत इति ॥ ५१-५२ ॥ सर्वदा दासभावत्वमापन्नस्य च तत्त्वतः ॥ ५२ ॥ अमद्यापाऽन्योत्यस्य लोकधर्मोज्झितस्य च । आप्तवद् ब्रह्मनिष्ठस्य कर्मतन्त्ररतस्य च ॥ ५३ ॥ गोदानं शूद्रजातेर्वै विहितं चैव नान्यथा । योग्यस्य शूद्रस्य तु गोदानं विहितमित्याह—सर्वदेति द्वाभ्याम् ॥ ५२-५४ ॥ वौषट्स्वाहावषट्कारनिष्ठानां तु प्रतिक्रिया ॥ ५४ ॥ नमस्कारेण मन्त्राणां कार्ये प्राप्ते ह्यनुग्रहे । तदीयमर्घ्यपुष्पाद्यं यत्किञ्चिद् यागसाधनम् ॥ ५५ ॥ सुसंस्कृतमसिद्धं वा भक्त्या कर्मण्यतां व्रजेत् । शूद्रस्य वषकाराद्यनर्हत्वान्मन्त्रशरीरे तत्प्रतिनिधित्वेन नमस्कारो योज्य इत्याह— वौषडिति । पाद्मे तु— द्वादशाक्षरमादौ तु पश्चादष्टाक्षरात्मकम् । मूर्तिमन्त्रांश्च तदनु समध्याप्य यथाविधि ॥ केवलं वैष्णवं नाम नमःप्रणववर्जितम् । हुंफडादिवषट्स्वाहावर्जितं केशवादिकम् ॥ अध्याप्य स्त्रीषु शूद्रेषु तद्देवानुलोमजे । सावित्रीं येऽनुतिष्ठन्ति तेषां विप्रवदिष्यते ॥ इति शूद्रादीनां प्रणवनमस्कारावपि निषिद्धौ । अन्यत्र— न स्वरः प्रणवोऽङ्गानि नाप्यन्यविधयः स्मृताः । स्त्रीणां च शूद्रजातीनां मन्त्रमात्रोक्तिरिष्यते ॥ इति प्रणवमात्रं निषिद्धम् । अतः संहिताभेदेन व्यवस्था ज्ञेया । पुष्पाञ्जल्यादि- समर्पणार्थं शूद्राहृतं पुष्पादिकमपि तद्भक्तिवशेन कर्मार्हं भवतीत्याह—तदीय- मिति ॥ ५४-५६ ॥