सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 537, कुल 837 में से
संदर्भ में पढ़ें४७८ सात्वतसंहिता एष वर्णाध्वैव कलाध्वरूपेण परिणमतीत्याह—स इति । कलात्मना ज्ञानादि- षड्गुणेनेत्यर्थः । तन्निष्ठानां भगवज्ज्ञानादिषाड्गुण्यानुभवनिष्ठानां कमिर्णां तदाराध- नादिकर्मवतां चेतनानां तद्ग्रहो ज्ञानादिगुणग्रहणं येन युज्यते कलाध्वरूपपरिणामेन संभवतीति पूर्वेणान्वयः ॥ १३१ ॥ वह वर्णाध्वा ही कलाध्व रूप से परिणमित होता है । जब वह वर्णाध्वा कलाध्वा के रूप में परिणमित होता है तभी उसका ज्ञान भगवान् के ज्ञानादि- षड्गुणों के उपासक चेतनात्माओं को होता है ॥ १३१ ॥ न षाड्गुण्यकलोत्था च यावन्मूर्तिर्निरञ्जना । वद केनाऽन्यथाऽमूर्तं तद्ग्रहीतुं नियुज्यते ॥ १३२ ॥ एवं शब्दमूर्तेः षाड्गुण्यात्मना परिणामाभावे तन्मयभगवन्मूर्तिज्ञानं कथं भवती- त्याह—नेति ॥ १३२ ॥ यदि उस शब्द मूर्त्ति का ज्ञानादिषाड्गुण्य के रूप में परिणाम न हो तो तन्मय भगवन्मूर्त्ति का ज्ञान भला किस प्रकार संभव हो सकता है ॥ १३२ ॥ तत्त्वाः कलामयाः सर्वे प्रभवाप्ययलक्षणाः । पूर्वोक्ता वासुदेवाद्या अध्यक्षान्ता यथोदिताः ॥ १३३ ॥ अस्मात् कलाध्वनो वासुदेवमूर्त्यादितत्त्वोत्पत्तिमाह—तत्त्वा इति ॥ १३३ ॥ उत्पत्ति एवं संहार लक्षण वाले सभी तत्त्व कलामय ही हैं जैसा कि पूर्व में वासुदेव से लेकर अध्यक्षान्त तत्त्वों को कह आये हैं । वर्णाध्वा, कालध्वा, तत्त्वाध्वा, मन्त्राध्वा, पदाध्वा, भुवनाध्वा ये ६ अध्वा हैं—वर्णाध्वा से कलाध्वा, कलाध्वा से तत्त्वाध्वा, तत्त्वाध्वा से मन्त्राध्वा, मन्त्राध्वा से पदाध्वा, पदाध्वा से भुवनाध्वा की उत्पत्ति होती है ॥ १३३ ॥ तत्त्वेभ्यो निर्गता मन्त्रास्त्वणिमादिगुणैर्युताः । षट्कलाङ्गलवैर्युक्ता येषु संख्या न विद्यते ॥ १३४ ॥ व्यञ्जितं तैः सनिर्माणं तुर्याद्यं पदसंज्ञकम् । कमिर्णामात्मलाभार्थं मोहार्थं तत् क्षयाय च ॥ १३५ ॥ द्विसप्तभुवनं विश्वं गुणत्रयमयं हि यत् । तदशुद्धं जगन्नित्यं भोग्यं प्राप्यं पृथक् स्थितम् ॥ १३६ ॥ तत्त्वाध्वनो मन्त्राध्वसमुत्पत्तिं तस्मात् पदाध्वसमुत्पत्तिं ततो भुवनाध्वोत्पत्तिं चाह—तत्त्वेभ्य इति त्रिभिः । षट्कलाङ्गलवैर्युक्ता ज्ञानैश्वर्यादिषड्गुणात्महृदया- द्यङ्गमन्त्रैरन्विता इत्यर्थः । तुर्याद्यमित्यत्र आद्यपदेन सुषुप्तिस्वप्नजाग्रत्पदत्रय- मुच्यते ॥ १३४-१३६ ॥