सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 569, कुल 837 में से
संदर्भ में पढ़ें५१० सात्वतसंहिता न शास्त्रार्थस्य शास्त्राणां बुद्धिपूर्व उपप्लवः । आचर्तव्य इहाज्ञानात् पारम्पर्यक्रमं विना ॥ ४७ ॥ शास्त्रशास्त्रार्थयोः साङ्कर्यं न कार्यमित्याह—नेति । एतद्वचनतात्पर्यमेवमुक्तं श्री- पञ्चरात्ररक्षायाम्—‘‘अस्खलितपारम्पर्यप्रत्यभिज्ञानेषु स्थानेषु परिदृश्यमानप्रमाणमूला- न्याचारपरम्परागृहीतानि च कर्माणि न मात्रयापि परिहाप्यानि, न च तद्विरुद्धान्युपा- देयानीत्युक्तं भवति’’ (पृ० ५) इति ॥ ४७ ॥ प्रष्टव्यो भगवद्भक्त आप्तो लक्षणकोविदः । प्रसिद्ध आर्जवे वृद्धो नष्टं शास्त्रार्थलक्षणम् ॥ ४८ ॥ चिरकालराष्ट्रक्षोभादिना प्रस्खलितपारम्पर्यप्रत्यभिज्ञानेषु स्थानेषु वृद्धमुखात् तज्ज्ञातव्यमित्याह—प्रष्टव्य इति ॥ ४८ ॥ जिस स्थान पर परम्परापूर्वक शास्त्रार्थ प्रस्खलित नहीं है, वहाँ परिदृश्यमान प्रमाण के साथ मूलाधार शास्त्र को स्थापित न करे । वहाँ रञ्चमात्र भी कर्म व्याख्यान परिस्खलित न करे और न लोक विरुद्ध उपदेश ही करे । जहाँ राष्ट्र क्षोभ के कारण वैष्णव ज्ञान की परम्परा प्रस्खलित हो गई है, उसके परिज्ञान परम्परा को वृद्ध वैष्णवों द्वारा जानना चाहिये ॥ ४७-४८ ॥ मुद्रामण्डलमन्त्राणां निस्सन्देहपरेण च । भवितव्यं गुरूणां च सकाशात् सर्वदैव हि ॥ ४९ ॥ मुद्रामण्डलमन्त्राश्च गुरोः सकाशान्निःसन्देहं ज्ञातव्या इत्याह—मुद्रेति ॥ ४९ ॥ भगवन्मन्त्रों में गुरु के द्वारा मुद्रा, मण्डल और मन्त्र का ज्ञान संदेह रहित होकर करे ॥ ४९ ॥ न च सर्वज्ञमन्त्राणां विना भावांशकेन तु । आनुकूल्यं गवेष्टव्यं मुक्त्वा मण्डलदर्शनम् ॥ ५० ॥ भगवन्मन्त्राणां सिद्धारिवीक्षणादिनाऽऽनुकूल्यान्वेषणं न कार्यमित्याह— न चेति ॥ ५० ॥ भगवन्मन्त्रों में सिद्ध अरिमन्त्र का विचार न करे । सर्वदा उनके अनुकूल होकर ही अन्वेषण या अनुसंधान करे ॥ ५० ॥ नाभिचक्रे तु हृत्पद्मे कन्दमूले गलावटे । भ्रूमध्ये ब्रह्मरन्ध्रे च स्थानेष्वेतेषु मन्त्रराट् ॥ ५१ ॥ स्मर्तव्यः सूर्यसंकाशः प्रवासे शयनेऽध्वनि । स्वशरीरे मन्त्रनाथस्मरणस्थानानि तत्कालांश्चाह—नाभीति सार्धेन ॥ ५१-५२ ॥