सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 578, कुल 837 में से
संदर्भ में पढ़ेंद्वाविंशः परिच्छेदः ५१९ सर्वदा स उपास्तव्य इहामुष्मिकसिद्धये । लिङ्गैरेतैः परिज्ञेयः सहजोत्यैरकृत्रिमैः ॥ ३० ॥ आचार्यैः समयी नाम शिष्यो जात्या चतुर्विधः । इस लोक तथा परलोक में सिद्धि प्राप्त करने के लिये मात्र परमात्मा ही उपासना के योग्य है । इस प्रकार स्वभाव में रहने वाले अकृत्रिम लिङ्गों से आचार्य समयी शिष्य का ज्ञान करे । ऐसे शिष्य चार प्रकार के होते हैं ॥ ३०-३१ ॥ एवं पुत्रकपूर्वा ये परिज्ञेयास्तु ते त्रयः ॥ ३१ ॥ किन्तु तस्य विशेषो यस्तमिदानीं निबोधतु । पूर्वोक्तानि समयिलक्षणानि पुत्रकादिषु त्रिष्वपि समानानि । तद्विशेषांस्तूपरि वक्ष्यामीत्याह—एवमिति ॥ ३१-३२ ॥ जिनमें समयी शिष्य का लक्षण (२२.२.३०) कह दिया गया । इसी प्रकार पुत्रक आदि तीन शिष्यों में भी पूर्वोक्त लक्षणों को जानना चाहिये ॥ ३१-३२ ॥ २. पुत्रकशिष्यस्य विशेषलक्षणकथनम् विज्ञाता गुरुणा यस्य विनियोगात् कृतार्थता ॥ ३२ ॥ स्वल्पमध्योत्तमाद्येन शिक्षितेनागमेन च । तस्यानुग्रहबुद्ध्या तु आहूतस्याच्युतालये ॥ ३३ ॥ कृत्वा निरीक्षणाद्यं च देवधाम्नि तु क्षेपयेत् । तुष्टो मन्त्रमयं सम्यक् सार्घ्यपुष्पाक्षताञ्जलिः ॥ ३४ ॥ ततः प्रभृति कालाच्च ध्यानं न्यासादिकं विना । पूजनं मन्त्रमात्रेण वह्नितर्पणवर्जितम् ॥ ३५ ॥ योग्यतापदसिद्ध्यर्थं दत्तं बिम्बेऽप्सु वा स्थले । सामान्यविधिना चोक्तो गुरुणा चार्चयाऽच्युतम् ॥ ३६ ॥ स तथेति तदुक्तं च मत्वाऽऽस्ते मुदितः सदा । आलोचयंस्तु शास्त्रार्थं स्वमुद्रामुद्रितं तु वै ॥ ३७ ॥ शक्त्या निरीक्षमाणं च योगक्षेमादिकं गुरोः । तदाराधननिष्ठस्तु तच्चित्तस्तत्परायणः ॥ ३८ ॥ पुत्रकस्य विशेषलक्षणान्याह—विज्ञाता गुरुणा यस्येत्यारभ्य स्वपुत्रादधिकः सदेत्यन्तम् । एवं च सम्यग् गृहीतशास्त्रार्थः पुत्रपदार्होऽयमिति गुरुणा ज्ञातः । मण्डलोपरि प्रक्षेपितपुष्पाञ्जलिकस्तदा प्रभृत्यत्राच्युतमर्चयेति गुरुणानुज्ञातो बिम्बे मण्डलेऽप्सु वा प्रत्यहं ध्यानन्यासवह्नितर्पणानि विना मन्त्रमात्रार्चनपरः शास्त्रार्थ- पर्यालोचनादिशीलो यः स पुत्रक इति ज्ञेयः ॥ ३२-४१ ॥