सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 581, कुल 837 में से
संदर्भ में पढ़ें५२२ सात्वतसंहिता साङ्कर्यमागमानां च वेत्ति वाक्यवशात् तु यः । अथाचार्यलक्षणमाह—लिङ्गैः पूर्वोदितैर्युक्त इत्यारभ्य सर्वैः सामयिकैर्गुणैरित्य- न्तम् । अथ प्रसङ्गात् शास्त्रसङ्करभेदं दिव्यादिभेदैरागमत्रैविध्यमपि दर्शितम् । तत्र मुनि- भाषितस्यापि सात्त्विकादिभेदैस्त्रैविध्यमैश्वर (१।५७-६३)परमेश्वरा(१०।३४७- ३७४)दिषूपबृंहितं ग्राह्यम् । एतत्साङ्कर्यविचारः श्रीपाञ्चरात्ररक्षायां बहुशः प्रतिपादितो द्रष्टव्यः । "अनिवाहकमाद्योक्तेरिति दिव्यमुनिभाषितयोर्विरुद्धार्थत्वमुच्यते । असम्बद्ध- मिति पूर्वापरविरुद्धत्वम्" (पृ० २९) इति पौरुषवाक्यलक्षणप्रकरणोक्तं पदद्वयमपि तत्रैव व्याख्यातम् । एवं च पूर्वोक्तलक्षणैर्युक्तो व्रतादिभिः सिद्धमन्त्र आचार्याभिषेकेना- भिषिक्तः पदमन्त्रार्थज्ञानसम्पन्नो यः स आचार्य इति बोध्यः । ननु "पूर्ववल्लब्धदीक्षः" (२२।४२) इति साधकस्य, 'लिङ्गैः पूर्वोदितैर्युक्तः' (२२।४७) इत्याचार्यस्य च प्राप्तदीक्षत्वमुक्तं भवति, समयिपुत्रकयोस्तु तन्नास्ति, तथापि तयोर्मन्त्रमात्रार्चने कथमधिकारः सिद्ध्यति? दीक्षाकालमन्तरा तयोर्मन्त्रः कदा प्राप्त इति चेत्, मध्ये (कमनीया?किमनया) शङ्कया? वचनात् प्रवृत्तिः, वचनान्नि- वृत्तिः । अदीक्षितानामर्चना(न)धिकारप्रतिपादकानि वचनानि तु मुद्रान्याससहितार्चना- धिकारनिषेधपराणि बोध्यानि । मन्त्रस्तु मण्डलदर्शनानन्तरं शास्त्राभ्याससमय एव संगृह्यते ॥ ४७-६१ ॥ पूर्वोक्त चिह्नों से विशेष रूप से युक्त ऐसा अभियुक्त जिसे गुरु ने भक्तों पर अनुग्रह करने के लिये विनियोजित किया हो । जो साङ्ग अथवा बिना अङ्ग के अर्थ सहित पदों को तथा पदमन्त्रों को वाच्यवाचकभावरूप से जानने वाला हो, कर- विग्रह कह्लार तथा चक्रन्यास के लिये सम, विषम, सकृत् चित्रादिक के द्वारा जो पदों के अर्थ के अनुसार वस्तुओं में विनियोग, ध्यान एवं देवता का ज्ञान रखते हुए, अध्व में व्यापकता ज्ञान रखने वाला हो, जो अपने-अपने वर्णों के अनुसार पहले कहे गये देवताओं की निर्लिङ्गता तथा शब्द ब्रह्ममितत्त्व को ठीक-ठीक जानने वाला हो, जो वाक्यों के अनुसार वाक्य-वश आगमों के साङ्कर्य को जानने वाला हो वह आचार्य के योग्य है ॥ ४७-५२ ॥ तत्र वै त्रिविधं वाक्यं दिव्यं च मुनिभाषितम् ॥ ५२ ॥ पौरुषं चारविन्दाक्ष तद्भेदमनवधारय । यदर्थाढ्यमसन्दिग्धं स्वच्छमल्पाक्षरं स्थिरम् ॥ ५३ ॥ तत्पारमेश्वरं वाक्यमाज्ञासिद्धं च मोक्षदम् । प्रशंसकं वै सिद्धीनां सम्प्रवर्तकमप्यथ ॥ ५४ ॥ सर्वेषां रञ्जकं गूढं निश्चयीकरणक्षमम् । मुनिवाक्यं तु तद्विद्धि चतुर्वर्गफलप्रदम् ॥ ५५ ॥ यह आगमों का साङ्कर्य भेद दिव्यादिभेद तीन प्रकार का कहा गया है । हे