सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 67, कुल 837 में से
संदर्भ में पढ़ें८ सात्वतसंहिता श्रीभगवानुवाच त्रिविधेन प्रकारेण परमं ब्रह्म शाश्वतम् । आराधयन्ति ये तेषां रागस्तिष्ठति दूरतः ॥ २३ ॥ इति प्रेरितो भगवान् प्रत्याह—त्रिविधेनेति । त्रिविधेन प्रकारेण परव्यूह- विभवभेदेन शाश्वतं परं ब्रह्म श्रीमन्नारायणं ये जना आराधयन्ति, तेषां दूरतो राग- स्तिष्ठतीति ॥ २३ ॥ श्रीभगवान् ने कहा—हे सङ्कर्षण! पर व्यूह विभव भेद से जो तीन भेदों वाले हैं उस परब्रह्म श्रीमन्नारायण की जो आराधना करते हैं, मेरे उन भक्तों से राग बहुत दूर चला जाता है ॥ २३ ॥ सङ्कर्षण उवाच भगवंस्त्रिविधं ब्रूहि उपेयं ब्रह्मलक्षणम् । हितार्थं च प्रपन्नानां व्यामोहविनिवृत्तये ॥ २४ ॥ पुनः सङ्कर्षण आह—भगवन्निति । हे भगवन्, त्रिविधं त्रिप्रकारम्, उपेयं प्राप्यत्वरूपं ब्रह्मलक्षणं प्रपन्नानां व्यामोहविनिवृत्तये हितार्थं च अनिष्टनिरसनेष्टप्राप्त्यर्थं ब्रूहि वदस्वेत्यर्थः ॥ २४ ॥ सङ्कर्षण ने पुनः कहा—हे भगवन् ! प्रपन्नों के हित के लिये तथा उनके व्यामोह की निवृत्ति के लिये आप तीन प्रकार वाले प्राप्यत्व रूप ब्रह्म लक्षण को कहिये ॥ २४ ॥ श्रीभगवानुवाच षाड्गुण्यविग्रहं देवं भास्वज्ज्वलनतेजसम् । सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ २५ ॥ एवं पृष्टो नारदः परत्वादिलक्षणमाह—षाड्गुण्येति । षाड्गुण्यविग्रहं = ज्ञानैश्वर्यशक्तिबलवीर्यतेजोमयविग्रहम्, भास्वज्ज्वलनतेजसं = सूर्यवह्निसमप्रभम्, सर्वतः पाणिपादं सर्वतोऽक्षिशिरोमुखं = सर्वव्यापिनमित्यर्थः । एवं भगवतः सर्वतः पाणिपादत्वादिकमनुमानगम्यम् । तथा च जयाख्ये— तथा समस्तमाक्षिप्तं यस्माद्वै परमात्मना ॥ तस्माद्वै सर्वपाणित्वं सर्वगस्यानुमीयते । नावच्छिन्नं हि देशेन न कालेनान्तरीकृतम् ॥ अतः सर्वगतत्वाद्धै सर्वतःपात् प्रभुः स्मृतः । ऊर्ध्वं तिर्यगधो यातैर्यथोच्चैर्भासयेद् रविः ॥ तद्वत् प्रकाशरूपत्वात् सर्वचक्षुस्ततो ह्यजः । यथा सर्वेषु गात्रेषु प्रधानं गीयते शिरः ॥ भवेऽस्मिन् प्राकृतानां तु न तथा तस्य सत्तम । समत्वात् पावनत्वाच्च सिद्धः सर्वशिराःप्रभुः ॥