भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

८ सात्वतसंहिता श्रीभगवानुवाच त्रिविधेन प्रकारेण परमं ब्रह्म शाश्वतम् । आराधयन्ति ये तेषां रागस्तिष्ठति दूरतः ॥ २३ ॥ इति प्रेरितो भगवान् प्रत्याह—त्रिविधेनेति । त्रिविधेन प्रकारेण परव्यूह- विभवभेदेन शाश्वतं परं ब्रह्म श्रीमन्नारायणं ये जना आराधयन्ति, तेषां दूरतो राग- स्तिष्ठतीति ॥ २३ ॥ श्रीभगवान् ने कहा—हे सङ्कर्षण! पर व्यूह विभव भेद से जो तीन भेदों वाले हैं उस परब्रह्म श्रीमन्नारायण की जो आराधना करते हैं, मेरे उन भक्तों से राग बहुत दूर चला जाता है ॥ २३ ॥ सङ्कर्षण उवाच भगवंस्त्रिविधं ब्रूहि उपेयं ब्रह्मलक्षणम् । हितार्थं च प्रपन्नानां व्यामोहविनिवृत्तये ॥ २४ ॥ पुनः सङ्कर्षण आह—भगवन्निति । हे भगवन्, त्रिविधं त्रिप्रकारम्, उपेयं प्राप्यत्वरूपं ब्रह्मलक्षणं प्रपन्नानां व्यामोहविनिवृत्तये हितार्थं च अनिष्टनिरसनेष्टप्राप्त्यर्थं ब्रूहि वदस्वेत्यर्थः ॥ २४ ॥ सङ्कर्षण ने पुनः कहा—हे भगवन् ! प्रपन्नों के हित के लिये तथा उनके व्यामोह की निवृत्ति के लिये आप तीन प्रकार वाले प्राप्यत्व रूप ब्रह्म लक्षण को कहिये ॥ २४ ॥ श्रीभगवानुवाच षाड्गुण्यविग्रहं देवं भास्वज्ज्वलनतेजसम् । सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ २५ ॥ एवं पृष्टो नारदः परत्वादिलक्षणमाह—षाड्गुण्येति । षाड्गुण्यविग्रहं = ज्ञानैश्वर्यशक्तिबलवीर्यतेजोमयविग्रहम्, भास्वज्ज्वलनतेजसं = सूर्यवह्निसमप्रभम्, सर्वतः पाणिपादं सर्वतोऽक्षिशिरोमुखं = सर्वव्यापिनमित्यर्थः । एवं भगवतः सर्वतः पाणिपादत्वादिकमनुमानगम्यम् । तथा च जयाख्ये— तथा समस्तमाक्षिप्तं यस्माद्वै परमात्मना ॥ तस्माद्वै सर्वपाणित्वं सर्वगस्यानुमीयते । नावच्छिन्नं हि देशेन न कालेनान्तरीकृतम् ॥ अतः सर्वगतत्वाद्धै सर्वतःपात् प्रभुः स्मृतः । ऊर्ध्वं तिर्यगधो यातैर्यथोच्चैर्भासयेद् रविः ॥ तद्वत् प्रकाशरूपत्वात् सर्वचक्षुस्ततो ह्यजः । यथा सर्वेषु गात्रेषु प्रधानं गीयते शिरः ॥ भवेऽस्मिन् प्राकृतानां तु न तथा तस्य सत्तम । समत्वात् पावनत्वाच्च सिद्धः सर्वशिराःप्रभुः ॥

प्रथमः परिच्छेदः ९ यथाऽनन्तरसाः सर्वे तस्य सन्ति सदैव हि । सर्वत्र शान्तरूपस्य अतः सर्वमुखः स्मृतः ॥ सत्त्वराशिर्र्यतो विद्धि स एवं परमेश्वरः । सर्वतः श्रुतिमांश्चासौ यथादृक्श्रावकोरगः ॥ (४।७६-८२) इति । एकम् = अद्वितीयम्, निःसमाभ्यधिकमिति यावत् । सर्वाश्रयं = निखिल- जगदाधारम्, प्रभुं = जगत्स्वामिनं देवं परवासुदेवं परमिति समाख्यातम् । तदेतत् परत्वविशिष्टं ब्रह्म सद् विद्धीत्यनुषङ्गः ॥ २५ ॥ श्रीभगवान् ने कहा—वह ब्रह्म ज्ञान, ऐश्वर्य, शक्ति, बल एवं वीर्य तथा तेजोमय होने से षाड्गुण्य विग्रह वाले हैं, देदीप्यमान सूर्य एवं अग्नि के समान तेजस्वी हैं । स्वतः पाणिपाद तथा सर्वतोऽक्षि एवं शिरोमुख वाले हैं ॥ २५ ॥ परमेतत् समाख्यातमेकं सर्वाश्रयं प्रभुम् । एतत्पूर्वं त्रयं चान्यज्ज्ञानाद्यैर्भेदितं गुणैः ॥ २६ ॥ विद्धि तद् व्यूहसंज्ञं सद् निःश्रेयसफलप्रदम् । एवं परलक्षणमुक्त्वा व्यूहलक्षणमाह—एतदिति । एतत्पूर्वम् = एष परवासुदेवः पूर्वं प्रथमो यस्य तत् तथोक्तम् । ज्ञानाद्यैर्गुणैर्भेदितम् बलसंवलितेनैव ज्ञानेनास्तेऽथ दक्षिणे ॥ ऐश्वर्येण तु वीर्येण प्रत्यग्भावेऽवतिष्ठते । तेजःशक्त्यात्मना सौम्ये संस्थितः परमेश्वरः ॥ (३।६-७) इति वक्ष्यमाणप्रकारेण तत्तद्गुणभेदितम् अन्यत् त्रयं = सङ्कर्षणप्रद्युम्नानिरुद्ध- त्रयम् । एवं च वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धचतुष्टयम् । व्यूहसंज्ञं तद् = ब्रह्म सद् निःश्रेयसफलप्रदं = मोक्षफलप्रदं च सद् विद्धि ॥ २६ ॥ वह एक हैं, सर्वाश्रय हैं, प्रभु है, ज्ञानादि गुणों के भेदों के कारण वह ब्रह्म तीन प्रकार के हैं । इस प्रकार उस ब्रह्म का पर स्वरूप कहा गया इसलिये परख विशिष्ट नहीं ब्रह्म सत् है, ऐसा समझना चाहिए । इससे पूर्व वही पर वासुदेव भी है, जिन्हें ज्ञानादि से भेदित किया गया है । वासुदेव, सङ्कर्षण, प्रद्युम्न एवं अनिरुद्ध भेद से उन ब्रह्म की व्यूहसंज्ञा भी है । वह व्यूह तथा सत् संज्ञक होने के कारण निःश्रेयस तथा मोक्षफल देने वाले हैं ॥ २६-२७ ॥ मुख्यानुवृत्तिभेदेन युक्तं ज्ञानादिकैर्गुणैः । नानाकृतिं च तद् विद्धि वैभवं भुक्तिमुक्तिदम् ॥ २७ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां प्रश्नप्रतिवचनं नाम प्रथमः परिच्छेदः ॥ १ ॥ — ❦ ❁ ❧ — सा० सं० - 5

१० सात्वतसंहिता अथ विभवलक्षणमाह—मुख्येति । मुख्यानुवृत्तिभेदेन ज्ञानादिभिर्गुणैर्युतम् = अस्य विभवावतारसमूहस्य अनिरुद्धोत्पन्नत्वात् स्वकारणेऽनिरुद्धे यथा शक्तितेजसो- र्मुख्यत्वं ज्ञानादिगुणचतुष्टयस्यानुवृत्तत्वम्, तथा मुख्याभ्यां शक्तितेजोभ्यामनुवृत्तै- र्ज्ञानादिगुणैश्च युक्तमित्यर्थः । विभवदेवानामनिरुद्धोत्पन्नत्वं लक्ष्मीतन्त्रेऽपि— विभवोऽनन्तरूपस्तु पद्मनाभमुखो विभोः ॥ अनिरुद्धस्य विस्तारो दर्शितस्तस्य सात्वते । (२।५८-५९ इति ।) ‘विभोः शक्त्यात्मना सौम्ये संस्थितः परमेश्वरः’ (३।७) इत्यनिरुद्धस्य तेजः- शक्तिगुणकत्वमुक्तम् । तस्मिन् ज्ञानादीनामनुवृत्तत्वे किं मानमिति चेत्? ‘विभोः शक्त्या’ (३।७ इत्यादिना) तद्वक्ष्यति तृतीये परिच्छेदे । स्पष्टमुक्तं लक्ष्मीतन्त्रेऽपि— यद्यप्येकगुणोन्मेषस्तदाप्येते हि षड्गुणाः । अन्यूनानधिकाः सर्वे वासुदेवात् सनातनात् ॥ (४।२१) इति । यद्वा मुख्यानुवृत्तिभेदेन युक्तं ज्ञानादिकैर्गुणैरित्यस्य पूर्वेणैवान्वयो ज्ञेयः । नाना- कृति पद्मनाभादिभेदेन नानाविधाकारं देवं वैभवं तद् ब्रह्म सद् विद्धि । भुक्तिमुक्ति- फलप्रदं च सद् विद्धीति परव्यूहविभवलक्षणान्युक्तानि । तथा चैवमेव क्रोडीकृतानि परादिलक्षणानि सहस्रनामभाष्ये—‘परव्यूहविभवा- त्मना त्रिविधं परं ब्रह्मेति भागवतसिद्धान्तः । तत्र परं नामाकार्यं कार्यादनवच्छिन्नपूर्ण- षाड्गुण्यमहार्णवोत्कलिकैकातपत्रीकृतनिस्समनित्यभोगविभूतिकं मुक्तोपसृप्यमनौपा- धिकमवस्थानम् । व्यूहश्च मुमुक्षुसिसृक्षया प्रदेयसृष्टिस्थितिलयाः शास्त्रतदर्थतत्फलानि ध्यानाराधने लीला चेतीदृशकार्योपयुक्तविभक्तपरगुणरूपव्यापारशीकरव्यूहनिर्वाहित- ली्लाविभूतिकं मुक्तिसाधकं चतुर्थावस्थानम् । विभवश्च तच्छायाः सुरनरतिर्यगादिः स्वविभवसजातीय ऐच्छः प्रादुर्भाववर्ग इति ।...... तत्र प्रादुर्भावाः केचित् साक्षात्, यथा मत्स्यकूर्मादयः । अन्ये तु ऋष्यादिविशिष्टपुरुषाधिष्ठानेन, यथा भार्गवराम- कृष्णद्वैपायनादयः । अपरे काले शक्त्यावेशेन, यथा पुरञ्जयादिषु । इतरे च व्यक्तिषु स्वयमेवावतीर्य, यथार्चावतार इति चतुर्धा' (द्र० ९.६१) इति । नन्वर्चावतारस्यापि प्रादुर्भावेष्वन्तर्भावो वक्तव्यः । यद्वा— विभवोऽनन्तरूपस्तु पद्मनाभमुखो विभोः ॥ अनिरुद्धस्य विस्तारो दर्शितस्तस्य सात्वते । अर्चापि लौकिकी या साभगवद्भावितात्मनाम् ॥ मन्त्रमन्त्रेश्वरन्यासात् सापि षाड्गुण्यविग्रहा । पराद्यर्चतावारेऽस्मिन् मम रूपचतुष्टये ॥ तुर्याद्यवस्था विज्ञेया इतीयं शुद्धपद्धतिः । (२।५८-६१) इति लक्ष्मीतन्त्राद्युक्तरीत्याऽर्चावतारस्य प्रथमनिर्देशः कार्य इति चेत्? ब्रूमः । अर्चावतारस्य यत्र यत्र प्रथमनिर्देशः कृतस्तत्र न विवादः । श्रीसात्वतसंहितायां तु पर- व्यूहविभवाख्यत्रिविधभेदानामेव प्रतिपादितत्वात् तदनुसारेण श्रीमत्पराशरभट्टारकैर्-

प्रथमः परिच्छेदः ११

र्चावतारस्यापि दर्शितः । स कथमुपपद्यते? यतः परव्यूहविभवानां त्रयाणामप्यर्चारूप- त्वसंभवाद् अर्चावतारस्य परादिषु त्रिषु च विभवेष्वेवान्तर्भाव उक्तः । वस्तुतस्तु वासुदेव (सङ्कर्षण)प्रद्युम्नानिरुद्धाख्यव्यूहानामेव श्रीकृष्णबलभद्र- प्रद्युम्नानिरुद्धरूपेणावतीर्णत्वेऽपि तेषां यथा विभवत्वमेव न व्यूहत्वम्, तथा परव्यूह- विभवानामर्चावताररूपेणावतीर्णत्वेऽपि तेषां विभवेष्वेवान्तर्भावः, न तु परव्यूहयोरिति भट्टारकाणामाशयः । यतः— गुणकल्पनयाऽध्वस्तोगुणोन्मेषकृतक्रमः । मूर्तीभूतगुणश्चेति त्रिधा मार्गोऽयमद्भुतः ॥ (२।३९) इति लक्ष्मीतन्त्रोक्तमूर्तीभूतगुणत्वरूपं विभवत्वं विभवार्चावतारयोरुभयत्रापि समानम् ॥ २७ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये प्रथमः परिच्छेदः ॥ १ ॥ — ❦❃❧ — मुख्यानुवृत्ति भेद से तथा ज्ञानादि गुणों से युक्त होने के कारण (चतुर्व्यूह के परव्यूहात्मक पद्मनाभादि) विभवावतार अनेक आकृतियों वाले हैं । वही विभवाव- तार भोग और मोक्ष को देने वाले हैं, ऐसा समझना चाहिए ॥ २७ ॥ ॥ इस प्रकार प्रो० रामकुबेर मालवीय के द्वितीय आत्मज डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के प्रश्नप्रतिवचन नामक प्रथम परिच्छेद की हिन्दी समाप्त हुई ॥ १ ॥ — ❦❃❧ —

द्वितीयः परिच्छेदः तुरीयव्यूहसमाराधनम्

नारद उवाच श्रुत्वैवमच्युतमुखाद् देवदेवो हलायुधः । हितार्थं भवभीतानां पुनराह द्विजोत्तमाः ॥ १ ॥ सङ्कर्षण उवाच विधिना कीदृशेनैव ह्युपासा विहिताऽत्र वै । उपासकानां भक्तानां समासाद् ब्रूहि मे विभो ॥ २ ॥ श्रीभगवानुवाच शृणु सम्यक् प्रवक्ष्यामि यदहं चोदितस्त्वया । यज्ज्ञात्वा न पुनर्जन्म पुनरेवाप्नुयान्नरः ॥ ३ ॥ अथ द्वितीयः परिच्छेदो व्याख्यास्यते । इह आदौ वासुदेवसङ्कर्षणयोर्भगवदुपा- सनप्रकारविषयकप्रश्नप्रतिवचनक्रममाह—श्रुत्वेत्यादिश्लोकत्रयेण ॥ १-३ ॥ नारद जी ने कहा—हे द्विजोत्तम गण ! अच्युत के मुख से इस प्रकार की बातें सुनकर देवाधिदेव हलायुध ने इस संसार से भयभीत होने वालों के हित के लिये पुनः पूछा ॥ १ ॥ सङ्कर्षण ने कहा—हे विभो ! आपने राग से दूर रहने के लिये उपासना का उपदेश दिया (१.२४) । अतः संक्षेप में बताइये कि यह 'उपासना' उपासक भक्तों को किस प्रकार करनी चाहिये? ॥ २ ॥ श्रीभगवान् ने कहा—हे सङ्कर्षण ! जिस प्रश्न को आपने मुझसे पूछा है, मैं उसका उत्तर सात्त्वततन्त्र में उपदिष्ट उपदेश के अनुसार दे रहा हूँ, जिसको जान लेने पर भक्त पुनः जन्मादि को प्राप्त नहीं करते ॥ ३ ॥ ब्राह्मणानां च सद्ब्रह्मवासुदेवाख्ययाजिनाम् । लक्ष्यभूतं यदासृष्टेर्हृदिस्थमधिकारिणाम् ॥ ४ ॥

द्वितीयः परिच्छेदः १३ विवेकदं परं शास्त्रं ब्रह्मोपनिषदं महत् । दिव्यमन्त्रक्रमोपेतं मोक्षैकफललक्षणम् ॥ ५ ॥ तादृक् परिस्रुतं तस्माज्जगदुद्धरणाय च । तदाद्यमुपदेक्ष्यामि यद्भेदैर्बहुभिः स्थितम् ॥ ६ ॥ सिद्धिमोक्षप्रदं शुद्धं सरहस्यमसंकुलम् । एकायनश्रुतेः सारभूतं सात्वततन्त्रमुपदेक्ष्यामीत्याह—ब्राह्मणानामिति सार्ध- त्रयेण । सद्ब्रह्मवासुदेवाख्याजिनां = सच्छब्दब्रह्मशब्दवासुदेवशब्दवाच्यवस्तुमात्रार्चन- पराणामित्यर्थः । ब्राह्मणानां लक्ष्यभूतं = विषयभूतम् । देवतान्तरयाजिनां ब्राह्मणानाम- दर्शनीयमिति भावः । अत एव अधिकारिणां शुद्धयाजिनां हृदिस्थम् अतिगोप्यमि- त्यर्थः । विवेकदं = हेयोपादेयविवेकप्रदं, परं = श्रेष्ठं, ब्रह्मोपनिषदं = तथाविध- संज्ञकम्, उप समीपे निषीदतीति उपनिषदिति । सर्वोपनिषदामपि भगवत्समीपवर्तित्वे- ऽप्यत्र ब्रह्मोपनिषदित्यनेन ब्रह्मणोऽव्यवहितसमीपवर्तित्वं सूच्यते । यद्वा ब्रह्म- मात्रप्रतिपादिका उपनिषदि(ति वा त्य)र्थः । दिव्यमन्त्रक्रियोपेतम्— दिव्यैर्बलादिकैर्मन्त्रैः साक्षात् तत्प्रतिपादकैः । अलङ्कृतमसंदिग्धमविद्यातिमिरापहम् ॥ (ई०सं० १।२१) इत्याद्युक्तप्रकारेण बलादिमन्त्रसहितम्, मोक्षमात्रफलप्रदं यच्छास्त्रमेकायनश्रुति- रूपं शास्त्रम्, तस्मान्मूलवेदाद् जगदुद्धरणाय परिस्रुतम् । परित्यज्य परं धर्मं मिश्रधर्ममुपेयुषाम् । भूयस्तत्पदकांक्षाणां श्रद्धाभक्ती उपेयुषाम् ॥ अनुग्रहार्थं वर्णानां योग्यतापादनाय च । तथा जनानां सर्वेषामभीष्टफलसिद्धये ॥ मूलवेदानुसारेण छन्दसाऽऽनुष्टुभेन च । सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम् ॥ दिव्यं सच्छास्त्रजालं तदुक्त्वा सङ्कर्षणादिभिः । प्रवर्तयामास भुवि सर्वलोकहितैषिभिः ॥ —ई०सं० १।४८-५१ इत्युक्तत्वात् । क्रमं तादृग् = मूलवेदसदृशम्, सिद्धिमोक्षप्रदं = भोगापवर्गदम्, काम्यफलप्रदत्वेऽपि भगवन्मात्रविषयत्वात् । परिशुद्धं सरहस्यं = नानाविधरहस्यमन्त्र- सहितम्, असंकुलं = देवतान्तरैरमिश्रं यदिद्व्यशास्त्रं बहुभिर्भेदैः स्थितं = नानासंहिता- भेदभिन्नम्, तदाद्यं तस्मिन् दिव्यशास्त्रे आद्यं प्रथमं सात्वततन्त्रमित्यर्थः । उपदेक्ष्यामि भवत इति शेषः ॥ ४-७ ॥ वह उपदेश सच्छब्द, ब्रह्मशब्द एवं वासुदेव शब्द के अर्चन करने वाले ब्राह्मणों का लक्ष्यभूत है । सृष्टि के प्रारम्भ से ही शुद्ध यज्ञ करने वाले अधिकारियों के हृदय में रहने के कारण यह अति गोप्य है ॥ ४ ॥

१४ सात्वतसंहिता वह उपदेश विवेक प्रदान करने वाला है और सर्वश्रेष्ठ शास्त्र है तथा महान् उपनिषद् रूप है। यह दिव्यमन्त्र क्रियोपेत तथा भोग एवं मोक्षप्रद है ॥ ५ ॥ भगवन्मात्र विषयक होने से इस उपदेश से सारे जगत् का उद्धार होता है। यह दिव्य शास्त्र अनेक प्रकार की संहिता के भेद से भिन्न-भिन्न है और सिद्धि एवं मोक्षप्रद है अर्थात् भोग एवं अपवर्ग को देने वाला है। यह अनेक प्रकार के रहस्य मन्त्रों से संयुक्त है तथा उसमें अन्य देवताओं की चर्चा नहीं है। उस दिव्यशास्त्र में आद्य सात्त्वतशास्त्र को मैं आपसे कह रहा हूँ ॥ ५-६ ॥ अष्टाङ्गयोगसिद्धानां हृद्यागनिरतात्मनाम् ॥ ७ ॥ परव्यूहविभवभेदेन तदधिकारिभेदान् दर्शयन् आदौ परस्य भगवतोऽर्चने योगि- नामधिकारमाह—अष्टाङ्गेति ॥ ७ ॥ योगिनामधिकारः स्यादेकस्मिन् हृदयेशये। व्यामिश्रयागयुक्तानां विप्राणां वेदवादिनाम् ॥ ८ ॥ वेदपारगाणामपि तदुक्तदेवतान्तरव्यामोहरहितानामेव ब्राह्मणानां परव्यूहार्चने समन्त्रमधिकारं व्यामिश्रयाजिनां तदभावं चाह—व्यामिश्रेति ॥ ८ ॥ समन्त्रं तु चतुर्व्यूहे त्वधिकारो न चान्यथा। त्रयाणां क्षत्रियादीनां प्रपन्नानां च तत्त्वतः ॥ ९ ॥ अमन्त्रमधिकारस्तु चतुर्व्यूहक्रियाक्रमे। तदा भगवदेकप्रपत्तिनिष्ठानामेव क्षत्रविट्शूद्राणां व्यूहार्चनेऽमन्त्रमधिकारमाह— त्रयाणामिति ॥ ९-१० ॥ परव्यूह विभवभेद से अधिकारियों का भेद प्रदर्शित करते हुये परमात्मा भगवान् के अर्चन में केवल योगियों का ही अधिकार है अब इस बात को कहते हैं—अष्टाङ्ग योग में तथा मानसिक योग में निरत योगियों का ही केवल एकमात्र हृदय में रहने वाले उस परब्रह्म में अर्चन का अधिकार है।•व्यामिश्रयाग में निरत वेदवादी ब्राह्मणों का परव्यूह अर्चन में समन्त्रक अधिकार है किंतु भगवदेक प्रतिपत्ति निष्ठा वाले क्षत्रिय, वैश्य एवं शूद्रों इन तीनों को इस व्यूहार्चन में अमन्त्रक भी अधिकार हैं ॥ ७-१० ॥ सक्रिये मन्त्रचक्रे तु वैभवीयेऽविवेकिनाम् ॥ १० ॥ ममतासन्निरस्तानां स्वकर्मनिरतात्मनाम्। कर्मवाङ्मनसैः सम्यग् भक्तानां परमेश्वरे ॥ ११ ॥ चतुर्णामधिकारो वै प्राप्ते दीक्षाक्रमे सति। अहङ्कारममकारग्रस्ततया विवेकरहितानामपि स्वकर्मनिष्ठानां भगवद्भक्तानां दीक्षितानां ब्राह्मणादीनां चतुर्णामपि विभवार्चने समन्त्रमेवाधिकारमाह—सक्रिय इति

द्वितीयः परिच्छेदः १५

द्वाभ्याम् । अत्र वैभवीयेविवेकिनामित्यत्र अविवेकिनामिति पदच्छेदः । नह्यत्र विवेक- रहितैरर्चनीयत्वोक्त्या विभवभेदानामपकर्षः शङ्कनीयः, अपि तु सौलभ्यातिशयेन उत्कर्ष एव सिद्ध्यति । इत्थमेवोपबृंहितं लक्ष्मीतन्त्रेऽपि— सुसिद्धयोगतत्त्वानाम्धिकारः परात्मनि । व्यामिश्रयागयुक्तानां मध्यानां व्यूहभावने ॥ वैभवीयादिरूपेषु विवेकविधुरात्मनाम् । अहन्ताममतातर्त्तानां भक्तानां परमेश्वरे ॥ अधिकारस्य वैषम्यं भक्तानामनुदृश्य सः । भजते विविधं रूपं परव्यूहादिशब्दितम् ॥ (१९।४८-५१) इति ॥ १०-१२ ॥ इस वैभवीय चतुर्व्यूहरूप क्रियाक्रम में अहन्ता एवं ममता में ग्रस्त अपने- अपने वर्णाश्रम क्रम में निरत कर्म, वाणी और मन से परमेश्वर में भक्ति रखने वाले विवेकरहित साधकों का भी समन्त्रक अधिकार है ॥ १०-१२ ॥ एवं सम्प्रतिपन्नानां मन्त्रपूर्वं यथास्थितम् ॥ १२ ॥ विधानमेकमूर्तीयं समाकर्णय साम्प्रतम् । एवं स्वस्वाधिकारानुरोधेन सम्प्रतिपन्नानां हिततमं साक्षात् परस्यार्चनविधानमादौ शृणुष्वेत्याह—एवमिति ॥ १२-१३ ॥ यदि दीक्षा ग्रहण किया हो, तब इस अर्चन में चारों वर्णों का यथाक्रम अधिकार है । इस प्रकार अपने-अपने अधिकार से सम्प्रतिपन्न भक्तों के लिए हिततम एक मूर्तीय परब्रह्म के अर्चन का विधान सर्वप्रथम सुनिये ॥ १२-१३ ॥ प्रशस्ते विजने गुप्ते गन्धलिप्ते धरातले ॥ १३ ॥ सुधूपितेऽर्घ्यपुष्पाढ्ये वर्णचक्रं प्रसाध्य च । तन्मन्त्रोद्धारार्थं चक्ररचनामाह—प्रशस्त इति ॥ १३-१४ ॥ यस्मिन् प्रतिष्ठितं विश्वमाब्रह्मभुवनान्तिकम् ॥ १४ ॥ येनोदितेन जगतः प्रभवः समनन्तरम् । स्वात्मन्युपरते यस्मिन् प्रलयः सम्प्रजायते ॥ १५ ॥ प्रेरकं चन्द्रसूर्याभ्यां सबाह्याभ्यन्तरं तु यत् । 'मन्त्राणां जननी साक्षान्मम शब्दमयी तनुः' (लक्ष्मी. २३।११) इति वर्णचक्रस्य साक्षाद् भगवच्छरीरकत्वात् तस्य निखिलजगदाधारत्वं सृष्ट्यादिहेतुत्वं चाह—यस्मि- न्निति द्वाभ्याम् ॥ १४-१६ ॥ अब मन्त्रोद्धार के लिये चक्ररचना का प्रकार कहते हैं—प्रशस्त, सुधूपित, विजन, सुगुप्त, गन्धलिप्त एवं अर्घ्यपुष्पों से समृद्ध धरातल में द्वादशारचक्र निर्माण

१६ सात्वतसंहिता करे। वह वर्णचक्र साक्षात् भगवान् का शरीर है। जिसमें आब्रह्मभुवन समस्त लोक प्रतिष्ठित हैं, जिनके द्वारा इस जगत् की उत्पत्ति हुई है, अपनी आत्मा के उपरत कर लेने पर इस जगत् का जिसमें प्रलय हो जाता है जो चन्द्रमा और सूर्य के द्वारा सारे जगत् के बाहर भी है और भीतर भी है, प्रेरक है ॥ १४-१६ ॥ नित्योदितं यदक्षस्थं वर्णमीश्वरवाचकम् ॥ १६ ॥ यत्र स्थानविभागेन वागात्मा भगवान् स्थितः । तत्र प्रणवादिवर्णसंस्थितिक्रममाह—नित्योदितमित्यादिभिः ॥ १६-१७ ॥ जो प्रणव रूप से नित्योदित है, अक्ष पर निवास करने वाला है और जो वर्ण रूप से ईश्वर का वाचक है। इस वर्ण चक्र पर भिन्न-भिन्न स्थानों पर वर्णात्मा भगवान् स्थित हैं ॥ १६-१७ ॥ अकाराद्यो विसर्गान्तः सौरश्चान्द्रः कलागणः ॥ १७ ॥ ह्रस्वदीर्घविभागेन नाभौ यत्र द्विरष्टकः । कादिभान्तोऽप्यरान्तस्थः प्राकृतस्तत्त्वसञ्चयः ॥ १८ ॥ पृथिव्यादिप्रकृत्यन्तो युग्मयोगेन लाङ्गलिन् । कलनादेहभृत् कालो नेमिगो नवलक्षणः ॥ १९ ॥ मकाराद्यो हवर्णान्तो यत्र प्रधिगणे स्वयम् । कालवैश्वानरः साक्षान्मार्ताण्डायुतसन्निभः ॥ २० ॥ ज्वालाऽयुतसहस्राढ्यो वर्णान्तो भगवान् स्थितः । 'अकाराद्यो विसर्गान्त' इत्यत्र अकारादीनां ह्रस्वानामष्टवर्णानां सौरत्वादा- लोकाद्यात्मकत्वम्, अकारादीनां दीर्घाणामष्टानां चान्द्रत्वाद् द्रवताद्यात्मकत्वं चोक्तं जयाख्ये— आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे ॥ पाकः प्राप्तिरिति ह्यष्टौ सूर्यभागेव्यवस्थिताः । अकारादिषु ह्रस्वेषु वर्णेष्वेतेष्वनुक्रमात् ॥ द्रवता शैत्यभावश्च तृप्तिः कान्तिः प्रसन्नता । रसतास्वाद आनन्दो ह्यष्टौ चान्द्रा इमा मताः ॥ आकारादिषु दीर्घेषु संस्थिता मातृकात्मना । अविनाभावरूपेण अन्योन्येन सदैव हि ॥ अष्टानामति चाष्टौ तु संस्थिता बहिरन्तरे । (६।१३-१७) इति ॥ १७-२१ ॥ आमध्यात् प्रधिपर्यन्तां नमोन्तां वर्णसन्ततिम् ॥ २१ ॥ उच्चार्यार्घ्यादिनाऽभ्यर्च्य विद्याबीजं हि चक्रराट् ।

द्वितीयः परिच्छेदः १७ ततः समुद्धरेन्मन्त्रं परमात्मनि वाचकम् ॥ २२ ॥ वर्णचक्रार्चनपूर्वकं मन्त्रमुद्धरेदित्याह—आमध्यादिति द्वाभ्याम् । चक्रराट् = वर्णचक्रमित्यर्थः । विभक्तिविनिमयच्छान्दसः । तथा चात्रैवं प्रयोगः—प्रशस्ते विजने गुप्ते गन्धलिप्तेऽर्घ्यपुष्पाढ्ये सुधूपिते धरातले द्वादशारं चक्रं विलिख्य तन्मध्येऽक्षस्थाने प्रणवं, नाभौ अकारादिविसर्गान्तान् षोडशस्वरान्, द्वादशारेषु प्रत्यरं वर्णयुग्मक्रमेण ककारादिभकारान्तानि चतुर्विंशतिवर्णानि, नेमिभागे मकारादिहकारान्तवर्णनवकम्, प्रधिगणे क्षकारं च विलिख्य आमध्यात् प्रधिपर्यन्तं वर्णपरम्पराम् ॐ ओं नमः, ॐ अं नम इत्यादिक्रमेणोच्चार्यार्घ्यादिभिरभ्यर्च्य मन्त्रमुद्धरेत् ॥ २२-२२ ॥ ‘अ’ से लेकर विसर्गान्त १६ स्वर वर्ण ह्रस्व एवं दीर्घ के विभाग से (अकारादि ८ ह्रस्व वर्ण सौर रूप से तथा आकारादि ८ दीर्घ वर्ण चान्द्र रूप से) नाभि में स्थित हैं। ‘क’ से लेकर ‘भ’ पर्यन्त २४ वर्ण दो-दो के क्रम से १२ ‘अरा’ पर स्थित हैं। इन्हें ‘प्राकृत तत्त्व सञ्चय’ कहा जाता है ॥ १७-१८ ॥ नेमि भाग में कलनात्मक देह धारण किये स्वयं काल मकार से हकार पर्यन्त ९ वर्ण का रूप धारण किये हुये स्थित हैं । प्रधिगण में क्षकार लिखे । यह वर्णात्मक कालवैश्वानर साक्षात् करोड़ों मार्तण्ड के समान देदीप्यमान हैं और हजारों ज्वालाओं से परिवेष्टित वर्णात्मा भगवान् स्थित हैं । अतः मध्य से लेकर प्रधिपर्यन्त ॐ ओं नमः, ॐ अं नमः इत्यादि क्रम से वर्णों को लिख कर अर्घ्यादि से अर्चन करे और मन्त्र का उद्धार करे । यह चक्रराट् विद्या का बीज है और परमात्मा का वाचक है ॥ १९-२२ ॥ गलन्तममृतप्रख्यमचिरान्मोक्षसिद्धिदम् । अक्षस्थमुद्धरेत् पूर्वं नेमिषष्ठमनन्तरम् ॥ २३ ॥ नाभिद्वितीयेनाक्रान्तं द्वितीयमिदमक्षरम् । द्वितीयं दशसंख्याच्च तदधश्चाष्टमात् परम् ॥ २४ ॥ नाभेस्त्रयोदशोपेतं द्वितीयमिदमक्षरम् । अथ द्वितीयं नवमान्नाभितुर्यादिनान्वितम् ॥ २५ ॥ द्वितीयमष्टमाद् वर्णं केवलं विद्धि पञ्चमम् । विज्ञानपदमादाय त्र्यक्षरं तदनन्तरम् ॥ २६ ॥ आद्यमेकादशाद् वर्णं भिन्नं नाभ्यपरेण तु । नेमेस्तृतीयवर्णस्य ततस्तमुपरि न्यसेत् ॥ २७ ॥ मन्त्राणां नवमं ह्येतद् दशमं मे निबोधत । नाभिद्वितीयेनाक्रान्तं प्राग्वर्णं चाष्टमारगम् ॥ २८ ॥ नेमेर्द्वितीयं तदनु नेमेरादाय चाष्टकम् । तदुद्देशात् तृतीयं च स्थितं तत् पञ्चमोपरि ॥ २९ ॥

१८ सात्वतसंहिता त्रयोदशमिदं विद्धि नवमादपरं ततः । षष्ठस्य नेमिवर्णस्य चोर्ध्वं तत्रितयं न्यसेत् ॥ ३० ॥ युक्तं नाभितृतीयेन ह्यथ षोडशमुच्यते । द्वितीयं दशमाद् वर्णान्नाभ्येकादशसंयुतम् ॥ ३१ ॥ चैतन्यायपदं दद्यात् सनमस्कमतः परम् । द्वाविंशाणो ह्ययं मन्त्रः पदैः षड्भिरलङ्कृतः ॥ ३२ ॥ तत्रकारमाह-(ततः स? अक्षस्थ) मुद्धरेदित्यादिभिः । पूर्वमक्षस्थं प्रणवमुद्धरेत् । अनन्तरं नाभिद्वितीयेनाक्रान्तं आकारेण युक्तं नेमिषष्ठं शकारमुद्धरेत् । अथ दश- संख्या(द्) द्वितीयं दशमारस्थधकारयोर्द्वितीयं नकारमुद्धृत्य तदधः अष्टमात् परं अष्ट- मादराद् द्वितीयवर्णं तकारं संयोज्य तन्नाभेत्रयोदशोपेतम् ओकारान्वितं कुर्यात्, ततो नवमाद् द्वितीयं दकारं नाभितुर्यादिना इकारेणान्वितं कुर्यात्, अथ अष्टमाद् द्वितीयं वर्णं तकारं केवलमुद्धरेत् । अथ विज्ञानेति वर्णत्रयमुद्धरेत् । तत एकादशादाद्यं पकारं नाभ्यपरेण आकारेण भिन्ने संयुक्तं कृत्वा तन्नेमेस्तृतीयस्य वर्णस्य रेफस्योपरि न्यसेत् । अथ नाभिद्वितीयेनाक्रान्तम् आकारयुक्तम् अष्टमारगं प्राग्वर्णं णकारमुद्धरेत् । तदनु नेमेर्द्वितीयं यकारमुद्धरेत् । ततो नेमेरष्टकम् सकारमुद्धरेत् । ततस्तत्पञ्चमोपरि वकारोपरि स्थितं तदुद्देशात् तृतीयं रेफमुद्धरेत् । ततो नवमादपरं दकारमुद्धरेत्, अथ षष्ठस्य नेमिवर्णस्य शकारस्योर्ध्वं तत्तृतीय रेफं न्यसेत् । तन्नाभितृतीयेन इकारेण युक्तं कुर्यात्, अथ दशमाद् द्वितीयं वर्णं नकारं नाभ्येकादशसंयुतम् एकारान्वितं कुर्यात् । ततः सनमस्कं नमस्कारशिरस्कं चैतन्यायेति चतुरक्षरं पदमुद्धरेत् । तथा च 'ॐशान्तो- दितविज्ञानप्राणाय सर्वदर्शिने चैतन्याय नमः' इति द्वाविंशाक्षरः षड्भिः पदैरलङ्कृतो मन्त्रः समुद्धतो भवति ॥ २३-३२ ॥ यह महामन्त्र अमृत का स्राव करता है और शीघ्र मोक्ष प्रदान करता है । सर्वप्रथम अक्ष पर स्थित प्रणव मन्त्र का उद्धार करे । इसके बाद नाभि द्वितीय (आकार) से आक्रान्त, नेमि (मकार) से षष्ठ शकार का उद्धार करे, (शा), फिर आप पर स्थित दकार दशम अरे पर स्थित धकार से द्वितीय (नकार), उसके बाद अष्टम अरा पर स्थित द्वितीय वर्ण तकार को उस नकार में मिला देवे । स्वरूप (न्तो) । इसके बाद नवम से द्वितीय दकार को नाभितुर्य इकार से युक्त करे (दि) फिर अष्टम से द्वितीय वर्ण तकार का केवल उद्धार करे (त), इसके बाद विज्ञान इस तीन वर्ण का उद्धार करे । इसके बाद ग्यारहवें का आदि पकार, उसे नाभि के ऊपर वर्ण आकार से संयुक्तकर, उसे नेमि के तृतीय वर्ण रेफ के ऊपर संयुक्त करे (प्रा) । फिर नाभि द्वितीय आकार से आक्रान्त, अष्टमारगं प्राग्वर्ण णकार का उद्धार करे (णं), उसके बाद नेमि के द्वितीय वर्ण (यकार) का उद्धार करे (य), इसके बाद नेमि के आठवें वर्ण (सकार) का उद्धार करे । इसके बाद उसके पञ्चम वर्ण वकार, उसके ऊपर तृतीय वर्ण रेफ का उद्धार करे (र्व), इसके बाद नवम से दूसरे दकार वर्ण का उद्धार करे (द), इसके बाद षष्ठस्थ नेमि वर्ण को शकार,

द्वितीयः परिच्छेदः १९ फिर उससे तृतीय रेफ वर्ण का उद्धार करे । उसे नाभि के तृतीय वर्ण इकार से संयुक्त करे (र्शि), इसके बाद दशम से द्वितीय वर्ण नकार, जिसे नाभि के एकादश वर्ण एकार से संयुक्त कर देवे (ने) । इसके बाद सनमस्कं नमस्कार शिरस्थ 'चैतन्याय' इस चार अक्षर का उद्धार करे । यहाँ २२ अक्षर का मन्त्र कहा गया जो छः पदों से अलङ्कृत है ॥ २३-३२ ॥ तत्रैकार्णं पदं ज्ञानं चतुर्वर्णं पदं बलम् । षडक्षरं चाप्यैश्वर्यं वीर्यं पञ्चाक्षरं परम् ॥ ३३ ॥ चतुर्वर्णं पदं तेजः शाक्तं स्याद् द्व्यक्षरं च यत् । तेषामेव षण्णां पदानामक्षरसंख्याकथनपूर्वकं ज्ञानादिगुणवाचकत्वमाह—तत्रेति सार्धेन । अथ बलस्य ज्ञानोपसर्जनत्वात् तद्व्यवहितमेव तदुक्तम् । एवमेव ऐश्वर्यो- पसर्जनं वीर्यम्, वीर्यशक्त्युपसर्जनं तेजश्चोक्तमिति ज्ञेयम् । बलादीनां ज्ञानाद्युपसर्जनत्वं सुस्पष्टमुपबृंहितं लक्ष्मीतन्त्रे— तिस्रो मम स्वभावाख्या विज्ञानैश्वर्यशक्तयः ॥ उन्मिषत्यः पृथक् तत्त्वत्रयेण परिकीर्तिताः । बलं वीर्यं तथा तेज इत्येतत्तु गुणत्रयम् ॥ श्रमाद्यविद्याभावाख्यंज्ञानादेरुपसर्जनम् । (२।४९-५१) इति । वस्तुतस्तु ऐश्वर्यादिपञ्चकमपि ज्ञानधर्म इति विज्ञेयम्, ज्ञानात्मकं परं रूपं ब्रह्मणो मम चोभयोः ॥ शेषमैश्वर्यवीर्यादि ज्ञानधर्मः सनातनम् । (२।२५-२६) इति लक्ष्मीतन्त्रोक्तेः । ज्ञानादीन्यपि तत्रैव विवृतानि— अहमित्यान्तरं रूपं ज्ञानरूपमुदीर्यते ॥ प्रकाशकादिकं रूपंस्फटिकादिसलक्षणम् । अतस्तज्ज्ञानरूपत्वं मम नारायणस्य च ॥ अव्याहतिर्यदुद्यन्त्यास्तदैश्वर्यं परं मम । इच्छेति सोच्यते तत्तत्तच्छास्त्रेषु पण्डितैः ॥ जगत्प्रभूतिभावो मे यः सा शक्तिरुदीर्यते । सृजन्त्या यच्छ्रमाभावो मम तद्बलमिष्यते ॥ भरणं यच्च कार्यस्य बलं तच्च प्रचक्षते । शक्त्यंशकेन च प्राहुर्भरणं तत्त्वकोविदाः ॥ विकारविरहो वीर्यं प्रकृतित्वेऽपि मेसदा । स्वभावं हि जहात्याशु पयो दधिसमुद्भवे ॥ जगद्भावेऽपि सा नास्ति विकृतिर्मम नित्यदा । विकारविरहो वीर्यमिति तत्त्वविदां मतम् ॥ विक्रमः कथितो वीर्यमैश्वर्यांशस्तु स स्मृतः ।

२० सात्वतसंहिता सहकार्यानपेक्षा मे सर्वकार्यविधौ हि या ॥ तेजः षष्ठं गुणं प्राहुस्तमिमं तत्त्ववेदिनः । पराभिभवसामर्थ्यं तेजः केचित् प्रचक्षते ॥ ऐश्वर्ये योजयन्त्येके तत्तेजस्तत्त्वकोविदाः । इति पञ्च गुणा एते ज्ञानस्य स्रुतयो मताः ॥(२।२६-३५) इति अथ मन्त्रार्थ उच्यते—अत्रादौ प्रणवेन तन्नादान्तगगनस्थितः परवासुदेवो विवक्ष- णीयः, इदानीं तस्य प्रकृतत्वात् । तथा च लक्ष्मीतन्त्रे— ओमित्येतत् समुत्पन्नं प्रथमं बिन्दुतारकम् । बिन्दुना भूषयेत् पश्चान्नादेन तदनन्तरम् ॥ ध्यायेत् सन्ततिनादान्तां तैलधारात्मवाक्यताम्। एतत्तद् वैष्णवं रूपं त्र्यक्षरं ब्रह्म शाश्वतम् ॥ अनिरुद्धस्त्वकारोऽत्र प्रद्युम्नः पञ्चमः स्वरः । सङ्कर्षणो मकारस्तु वासुदेवस्तु पञ्चकः ॥ चतुर्णामविभागं तु नादरूपं सुरेश्वर । नादस्य या परा काष्ठा साऽहन्ता परमेश्वरी ॥ शक्तिः सा परमा रूपा नादान्तगगनाह्वया । शब्दब्रह्ममयी सूक्ष्मा साहं सर्वविगाहिनी ॥ विरामे सति नादस्य यः स्पष्टीभवति ध्रुवम् । ज्योतिस्तत् परमं ब्रह्मलक्ष्मीनारायणात्मकम् ॥ एतत्ते वैष्णवं धाम कथितं पौरुषं परम् ।(२४।६-१२) इति शान्तोदितविज्ञानप्राणाय शान्तोदितं सूक्ष्मरूपम्, स्वात्ममात्रानुभवदशाविशिष्ट- मिति यावत् । यतः शान्तोदिता नित्योदिता चेति दशाद्वयमीश्वरस्य प्रसिद्धम् । तत्र शान्तोदितावस्था नाम स्वात्ममात्रानुभवदशा, नित्योदितावस्था तु स्वभूत्यनुभवदशा । तथा च श्रीगुणरत्नकोशव्याख्याने— ‘तैस्तैः कान्तेन शान्तोदितगुणविभवैः’ (२५श्लो०) इत्यत्र दशाद्वयं व्याख्यातम् । गर्गकुलीनरामानुजीये श्रीरङ्गराजस्तवव्याख्याने तु- ‘प्रथन्ते सोऽनन्तः स्ववशघनशान्तोदितदशः’ (उ० ३७ श्लो०) इत्यत्र स्वभूतिस्वगुणानुभवदशा शान्तोदितदशा, स्वरूपानुभवदशा नित्यो- दितदशेति व्युत्क्रमेणोक्तम् । तत्प्रामादिकम् । यतस्तत्कर्तृक एव वरदराजस्तव- व्याख्याने— ‘प्रशान्तानन्तात्मानुभवजमहानन्दमहिम प्रसक्तस्तैमित्यानुकृतवितरङ्गार्णवदशम्’ । (१३ श्लो०) इत्यत्र शान्तोदितदशा नाम स्वात्ममात्रानुभवदशा, इतरा नित्योदितदशेति यथा- क्रमं व्याख्यातम् । विज्ञानं तुर्यव्यूहमित्यर्थः । ‘विज्ञानं यज्ञं तनुते’ (तै०उ० २।५) इत्यत्र यथा विज्ञानशब्दस्य धर्मिवाचकत्वम्, तद्वदिहापि भगवद्वाचकत्वं बोध्यम् ।

द्वितीयः परिच्छेदः २१ तत्त्राणयतीति तथोक्तः । शान्तोदितसंज्ञकपररूपं प्रति नित्योदितसंज्ञकपरात्परवासु- देवस्य कारणत्वात् तत्त्राणत्वमस्येति भावः । तथा च तत्त्वत्रयव्याख्याने— नित्योदितात् संभूय तथा शान्तोदितो हरिः । चातुरात्म्यमथापीदं कृपया परमेष्ठिनः । उपासकानुग्रहार्थं यः परश्चेति कीर्त्यते ॥ शान्तोदितात् प्रवृत्तं च चातुरात्म्यत्रयं तथा । उपासकानुग्रहार्थं सेनेश मम तत्पुनः ॥ सुषुप्तिस्वप्नसंज्ञं यज्जाग्रद्व्यूहं तथा परम् । चातुरात्म्यं महाभाग पञ्चमं पारमेश्वरम् ॥ (पृ० १३३) इति । सर्वदर्शिने सर्वज्ञाय चैतन्याय ज्ञानरूपाय परात्परवासुदेवायेत्यर्थः । 'ज्ञानात्मकं परं रूपं ब्रह्मणो मम चोभयोः' (२।२५) इति लक्ष्मीतन्त्रे । नमस्तस्मै सकलविधकैङ्क- र्याणि करवाणि मदर्थं न करवाणीति प्रसिद्धोऽयं नमश्शब्दार्थः ॥ ३३-३४ ॥ मन्त्र का स्वरूप है—ॐ शान्तोदितविज्ञानप्राणाय सर्वदर्शिने चैतन्याय नमः । इस मन्त्र में २२ अक्षर एवं ६ पद इस प्रकार हैं—ॐ (१), शान्तोदित (२), विज्ञानप्राणाय (३), सर्वदर्शिन (४), चैतन्याय (५), नमः (६) । उसमें एक अक्षर वाला पद (ॐ) ज्ञान का वाचक है, चार अक्षर वाला पद (शान्तोदित) बल का वाचक है, षडक्षर पद (विज्ञानप्राणाय) ऐश्वर्य का वाचक है, पञ्चाक्षर पद (सर्वदर्शिन) वीर्य का वाचक है । चार वर्णों वाला पद (चैतन्याय) तेज का वाचक है । दो अक्षर वाला (नमः) पद शक्ति का वाचक है ॥ ३३-३४ ॥ तेजो वीर्यं बलं शक्तिरैश्वर्यं ज्ञानमेव च ॥ ३४ ॥ दृगस्त्रं कवचं शैखं शिरो हृत् षड् यथाक्रमम् । अङ्गमन्त्रसिद्ध्यर्थमुक्तानां ज्ञानादीनां हृदयाद्यङ्गैः सह योजनक्रममाह—तेज इत्या- दिना । तथा चैवं प्रयोगः—ॐ ॐ ज्ञानाय हृदयाय नमः । ॐ विज्ञानप्राणाय ऐश्वर्याय शिरसे स्वाहा । ॐ नमः शक्त्यै शिखायै वौषट् । ॐ शान्तोदित बलाय कवचाय हुं । ॐ सर्वदर्शिन वीर्याय अस्त्राय फट् । ॐ चैतन्याय तेजसे नेत्राभ्यां वौषट् । एवमेषां मन्त्राणां प्रणवादित्वं नमः स्वाहादिजात्यन्तत्वं च नृसिंहकल्पपरिच्छेदे वक्ष्यति— सर्वेषां प्रणवः पूर्वः स्वसंज्ञान्ते नियोज्य तु । स्वकीया जातयश्चान्ते वौषडन्ताः क्रमेण तु ॥ (१७।१०-११) इति ॥ ३५ ॥ अङ्ग मन्त्र की सिद्धि के लिये उक्त षट् ज्ञानादिक का हृदयादि छः अङ्गों के साथ योजना का क्रम कहते हैं—तेज, वीर्य, बल, शक्ति, ऐश्वर्य और ज्ञान । उसका प्रयोग इस प्रकार करे—१. ॐ ॐ ज्ञानाय हृदयाय नमः, २. ॐ विज्ञानप्राणाय ऐश्वर्याय शिरसे स्वाहा, ३. ॐ नमः शक्त्यै शिखायै वौषट्, ४. ॐ शान्तोदित बलाय कवचाय हुं, ५. ॐ सर्वदर्शिन वीर्याय अस्त्राय फट्, ६. ॐ चैतन्याय तेजसे नेत्राभ्यां वौषट् ।

२२ सात्वतसंहिता विमर्श—यहाँ अस्त्र मन्त्र और नेत्र मन्त्र का क्रम विपर्यस्त दिखाई पड़ रहा है, जबकि सर्वत्र सामान्य रूप से नेत्र मन्त्र के बाद अस्त्र मन्त्र का प्रयोग किया जाता है, जो भी हो किन्तु सात्त्वतग्रन्थ में यही तथा अन्यत्र भी इसी क्रम का उपदेश किया गया है ॥ ३४-३५ ॥ मन्त्रः समाधिविषये नानाभूमिजयेषु च॥ ३५ ॥ निराकारो निरङ्गश्च स्मर्तव्यो ब्रह्मलक्षणः । तत्प्राप्त्युपाये प्रथमे यागहोमादिके तु वै॥ ३६ ॥ साकारं संस्मरेत् साङ्गं परिवारेण चावृतम् । उक्तस्यास्य मूलमन्त्रस्य विषयभेदेन साकारत्वं निराकारत्वं चाह—मन्त्रः समाधिविषय इति द्वाभ्याम् । यागहोमादिके = यागो बिम्बादिषु भगवदर्चनम्, होमो वह्निसन्तर्पणम्, आदिशब्देनावशिष्टं पाञ्चकालिकं कर्मोच्यते । प्रथमे तत्प्राप्त्युपाये = कर्मज्ञानभक्तिप्रपत्तिनाम्नां चतुर्विधानां भगवत्प्राप्त्युपायानां प्रथमे उपाये, कर्मयोग इत्यर्थः ॥ ३६-३७ ॥ आनीता व्यक्ततां येन स्वयं ज्ञानादयो गुणाः ॥ ३७ ॥ शश्वद् यागसमाप्त्यर्थं कर्मिणामनुकम्पया । सोऽनङ्गः संस्मृतो मन्त्रो भक्तिश्रद्धावशेन तु ॥ ३८ ॥ फलं यच्छति वै नूनं नित्यं तद्भावितात्मनाम् । एतत्कर्मयोगनिष्ठानां साकारस्मरणं विना भगवदर्चनादेः कर्तुमशक्यतया भगवान् स्वयमेव तेषु कृपातिशयेन षाड्गुण्यात्मकं निजाकारं प्रकाशयति । योगिनां तु ‘सर्वत्र विदितात्मनाम्’ इत्युक्तरीत्या तन्निरपेक्ष्यान्निराकारं संस्मृतोऽपि तद्भक्त्यतिशय- सन्तुष्टः फलं प्रयच्छतीत्याह—आनीता इति द्वाभ्याम् ॥ ३८-३९ ॥ यह ब्रह्मलक्षण मन्त्र विषयभेद से निराकार तथा साकार दोनों है—समाधि विषय में तथा नानाभूमि जय में निराकार और निरङ्ग रूप में इसका स्मरण करे । कर्म, ज्ञान, भक्ति और प्रपत्ति इन चार प्रकार के भगवत् प्राप्ति के उपायों में प्रथम यागहोमादिकर्म में साङ्ग एवं परिवारावृत साकार विग्रह का स्मरण करे । क्योंकि इस कर्म में निष्ठा रखने वाले भक्तों के लिए साकार स्मरण के बिना अर्चनादि कर्म सर्वथा अशक्य होते हैं । इसलिये भगवान् स्वयं उन भक्तों पर कृपा कर स्वयं अपना षड्गुण्यात्मक स्वरूप प्रकाशित करने के लिये साकार रूप में व्यक्त हो जाते हैं । किन्तु योगियों द्वारा निराकार रूप का संस्मरण किये जाने पर तथा साकार रूप से निरपेक्ष होने पर भी केवल उनकी भक्ति से प्रसन्न होकर वह निराकार रूप से भी उन्हें फल प्रदान करते हैं ॥ ३५-३९ ॥ प्राधान्येन क्रतोः स्थैर्यं मोक्षो यत्रानुषङ्गतः ॥ ३९ ॥ तत्र तद्विघ्नशान्त्यर्थं मन्त्रार्थं विद्धि मन्त्रपम् ।

द्वितीयः परिच्छेदः २३ विपर्यये तु नेत्रान्तो मन्त्रो यस्मान्महामते ॥ ४० ॥ दृग्दृष्टिशुद्धमार्गाणां क्व विघ्नाः शान्तचेतसाम् । ऐश्वर्यप्रधाने कर्मण्यस्य मन्त्रस्याङ्गन्यासादिष्वस्त्रान्तत्वं मोक्षप्रधाने कर्मणि नेत्रा- न्तत्वं चाह—प्राधान्येनेति द्वाभ्याम् । तत्र तस्मिन् कर्मणि तद्विघ्नशान्त्यर्थं तस्य कर्मण- स्तज्जन्यैश्वर्यस्य तदानुषङ्गिकमोक्षस्य च ये विघ्नाः सम्भवन्ति, तत्तच्छान्त्यर्थमित्यर्थः । विपर्यये तु मोक्षस्य प्राधान्ये ऐश्वर्यस्यानुषङ्गिकत्वे इत्यर्थः । दृग्दृष्टिशुद्धमार्गाणां दृग् नेत्रमन्त्रः, तेन दृष्टिः अवलोकनम्, तेन शुद्धः पावनीकृतो मार्गो येषां तेषां तथोक्तानाम् । नेत्रमन्त्रावलोकनस्य परिशुद्यावहत्वं व्यक्तमुक्तमीश्वरपारमेश्वरयोः— देवं हृत्कमलाकाशे तेजोरूपतया स्थितम् । तस्मात् स्थानात् समानीय तं कुर्यान्नेत्रमध्यगम् ॥ वासुदेवाभिधानं तु प्रागुक्तं च समाश्रयेत् । ततो लोचनयुग्मेन स्तब्धेन मुनिपुङ्गवाः ॥ जपन् लोचनमन्त्रं तु पश्येद् यागोपयोगिनम् । संभारमखिलं तेन द्रव्यसंघो विशुध्यति ॥ इति ॥ ३९-४१ ॥ —(ई० सं० ३।२-५; पा० सं० ६।८-१०) जहाँ ऐश्वर्य प्रधान है और मोक्ष आनुषङ्गिक है वहाँ विघ्न शान्ति के लिये मन्त्रार्थ को मन्त्र समझे अर्थात् वहाँ नेत्र अस्त्रान्त न्यास करे । किन्तु जहाँ मोक्ष प्रधान है तथा ऐश्वर्य आनुषङ्गिक है, वहाँ नेत्रान्त ही अङ्गन्यास करे, क्योंकि हे महामते ! वहाँ हर दृष्टि से मार्ग शुद्ध करने वाले शान्तचित्त भगवद् भक्तों के लिये विघ्न की संभावना ही किस प्रकार संभव है? ॥ ३९-४१ ॥ स्वकमन्तर्गतं तेजः स्वातन्त्र्याच्च बहिष्कृतम् ॥ ४१ ॥ येन येन हि मन्त्रेण स च नेत्रान्वितः स्मृतः । स्वप्रकाशस्त्वनुपमो येन येन हृदन्तरे ॥ ४२ ॥ सितासितः समाकृष्यः स स तद्वाचकोत्थितः । बहिः प्रकटिततेजसां मन्त्राणां तेजोवाचकशब्दसहितत्वम् अन्तर्निगूढतेजसां तु तद्वाचकरहितत्वं चाह—स्वकमिति द्वाभ्याम् । एवं च तेजोवाचकरहितानां मन्त्राणां पञ्चाङ्गत्वमेव बोध्यम् । तदुक्तमीश्वरपारमेश्वरयोर्गरुडार्चनप्रकरणे— पञ्चाक्षर इति ख्यातो गारुडो मुनिसत्तमाः । पञ्चाङ्गानि यथापूर्वमक्षरैः स्युः सबिन्दुकैः ॥ इति । —(ई० सं० ८।१४; पा० सं० ८।१४) पारमेश्वरव्याख्याने त्वेतच्छ्लोकव्याख्यानावसरे—'अत्र पञ्चाङ्गोऽयं मन्त्रः पाद्म- सात्वतयोः षडङ्गः प्रतिपादितः। षडङ्गानि पुनः स्वयमिति—'नेत्रकर्मणि हृद्बीजं पञ्चा- ङ्गानां विधीयते' (१९।१७३) इतीत्युक्तम्, तदसङ्गतम् । यतः श्रीसात्वतेऽयं गरुड-

२४ सात्वतसंहिता पञ्चाक्षरमन्त्रो वा तदङ्गविचारो वा न दृश्यते । न चैतद् गरुडमन्त्राङ्गविचारदर्शनेऽपि 'नेत्रकर्मणि हृद्बीजं पञ्चाङ्गानां विधीयते' (१९।१७३) इति तत्रोक्तत्वात् पञ्चाङ्गमन्त्र- सामान्यस्य हृद्बीजयोजनया षडङ्गत्वसिद्धेरस्यापि तथा षडङ्गत्त्वं सिद्धमिति वाच्यम्, यत एवं हृद्बीजेन सह षडङ्गत्त्वे संभवति सात्वते पञ्चाङ्गानामित्युक्तिरेव न संभवेत् । किञ्च सात्वतोपबृंहणे ईश्वरे (८।१४) पारमेश्वरे (८।१४) च गरुडमन्त्रस्य षडङ्गत्त्वकथनं विना पञ्चाङ्गत्वमात्रोक्तिरपि न घटते । अतस्तदर्थमिदं सावधानं शृणु—पञ्चाङ्गानां मन्त्राणां दीक्षादाविति शेषः । नेत्रकर्मणि नेत्रमन्त्रेण कर्तव्ये कर्मणि, पाचयेत् मूलमन्त्रेण दृष्ट्वा नेत्रेण संस्कृतम् । (१८।१०२) इति, वर्मणा तत्फलप्राप्तिं तल्लयत्वमपि स्मरेत् ॥ सुतृप्तिमथ नेत्रेण कुर्यात्तेनैव तत्स्थितिम् । (१९।८८-८९) इति चैवमादिके हृद्बीजं विधीयते । पञ्चाङ्गानां नेत्रबीजाभावात् तत्स्थाने हृद्- बीजं योजयेदिति भावः । एवमेव निरङ्गानां मन्त्राणामङ्गमन्त्रसामान्याभावात् तत्साध्येषु कर्मसु प्रणवो नियोक्तव्य इति च सात्वते उक्तम्— निरङ्गानां तुमन्त्राणामङ्गमन्त्रोक्तकर्मणाम् । प्रणवो विनियोक्तव्यः सह कर्मपदेन तु ॥ इति । (१९।१७३-१७४) नैतावता पञ्चाङ्गानां षडङ्गत्त्वं निरङ्गानां साङ्गत्त्वं च सिध्यतीति बोध्यम् ॥ ४१-४३ ॥ अपना तेज बाहर प्रगट करने वाले मन्त्रों को तेजोवाचक शब्द के सहित तथा अपने अन्तरात्मा में तेज को छिपाने वाले मन्त्रों को तेजोवाचक शब्द से रहित होना ही चाहिये । अतः वहाँ पञ्चाङ्गन्यास ही करे । षडङ्गन्यास (नेत्रन्यास) न करे ॥ ४१-४३ ॥ अथ मन्त्रवरस्यास्य शृणुष्वाराधनं यथा ॥ ४३ ॥ सबाह्याभ्यन्तरावस्थं समासादमलेक्षण । एतावदन्तं मन्त्रस्वरूपमुक्त्वा इतः परमर्चनप्रकारं शृणुष्वेत्याह—अथेति । स- बाह्याभ्यन्तरावस्थं = मानस बाह्योभयाराधनमित्यर्थः ॥ ४४ ॥ अब हे संकर्षण ! इस मन्त्र की आराधना जिस प्रकार से की जाती है आप उस विधि को सुनिए—हे अमलेक्षण ! वैष्णव साधक बाहरी और भीतरी मलों को बाहर निकाल कर स्नान करे ॥ ४४ ॥ परिच्युतमलः स्नातः शुद्धवासा जितेन्द्रियः ॥ ४४ ॥ वाग्यतः पुष्पदूर्भाद्यैर्द्वाराग्रस्थं पतत्रिणम् । सचक्रं पूजयित्वादौ संविशेद् भगवद्गृहम् ॥ ४५ ॥ आदौ पूजकस्य स्नानादिनियममाह—परिच्युतेति सार्धेन । परिच्युतमलः ब्राह्म- मुहूर्तसमुत्थानभगवद्ध्याननामसंकीर्तनादिभिः परिहृतान्तरमलः, शौचाचमनदन्तधाव- नादिभिः परिहृतबाह्यमलश्चेत्यर्थः । स्नातः— दिव्याप्यमान्त्रवायव्यभौमतैजसमानसैः ।

द्वितीयः परिच्छेदः २५ एतैः समस्तैर्व्यस्तैर्वा कृतशुद्धिर्यथाबलम् ॥ इत्युक्तरीत्याऽनुष्ठितस्नानः । एतेषामनुष्ठानप्रकारास्तु पारमेश्वरादिषु द्रष्टव्याः । यद्यपि जयाख्योक्तं पारमेश्वरे चोपबृंहितमौदकस्नानं ग्राह्यम्, तथापि स्वसूत्रोक्तस्नानाद्य- नुष्ठानपारम्पर्ये सति तत्परित्यज्यान्यत्र ग्राह्यमिति निर्णीतं पाञ्चरात्ररक्षायाम् । अत्र स्नात इत्यनेनैव पार्थिवस्नानरूपमूर्ध्वपुण्ड्रधारणमपि संगृहीतम्, सन्ध्यावन्दनादिकमप्युपल- क्षितम् । शुद्धवासा इत्यनेन— गन्धैः स्रग्भिरलङ्कारैः सोत्तरीयैश्चभूषितः । कर्णभूषणहाराद्यैः कटकैरङ्गुलीयकैः ॥ इत्याद्यर्थः संगृहीतः । क्षिप्तः । जितेन्द्रिय इत्यनेनाभिगमनं सूचितं भवति । यतः— जपध्यानार्चनस्तोत्रैः कर्मवाक्चित्तसंयुतैः ॥ अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम् । (ज.सं. २२।६८-६९) इत्युक्ताभिगमनेन हीन्द्रियजयः सिद्ध्यति । पुष्पदर्भैधैरित्यनेनोपादानमुक्तं भवति । आदौ द्वाराग्रस्थं सचक्रं पतन्त्रिपं पूजयित्वेत्यनेनानयोः सर्वद्वारपालमुख्यत्वं सूच्यते । अत एवेश्वरपारमेश्वरयोश्चण्डादिषु जागरुकेष्वपि— 'नियोज्य तत्र रक्षार्थं चक्रं च पतगेश्वरम्' (ई० सं० ६।११६; पार०सं० ७।५२३) इत्युक्तम् । किञ्च, यागगेहद्वारार्चनप्रकरणेऽपि चण्डादीनामप्यर्चनाशक्तौ 'सर्वद्वारेषु वा पूज्यः सहेतीशः पतत्रिपः' (ई० सं० ९।३००; पार० सं० ११।३०३) इत्युक्तम् । अर्चनस्थानं च तत्रैव व्यक्तमुक्तम्— 'ध्यायेद् द्वाराग्रदेशे तु गरुडं काञ्चनप्रभम्' (ई० सं० ९।२२; पार० सं० ११।२१) इति प्रक्रम्य, प्राणाधिदैवतं चक्रे बलिमण्डलमध्यगे । संस्थितं संस्मरेत् सर्वैरङ्गैः पुरुषरूपिणम् ॥ इति । —(ई० सं० ९।२५-२६; पार० सं० ११।२५) बलिमण्डलाभावस्थले गोमयादिना सद्यः कल्पितेनाऽर्चनमुक्तं तत्रैव— स्थिते वा कल्पिते तत्र पूजयेद् बलिमण्डले । सर्वं खगेशपूर्वं तु परिवारं हि साच्युतम् ॥ इति (ई.सं.२।९-१०) अस्मिन्नवसरे गर्भगेहद्वारपालार्चनमपि कार्यम् । तदत्रैव वक्ष्यति नृसिंह- कल्पपरिच्छेदे— स्नातो बद्धकचो मौनी शुद्धवासोऽर्घ्यपुष्पधृक् । कृत्वा द्वास्थ्यर्चनाद्यं तु उपविश्यासने ततः ॥ (१७।१६) इति । इदमेवोपबृंहितमीश्वरेऽपि— 'वास्तूपूरुषमन्यांश्च समभ्यर्च्य यथाक्रमम्' (२।११) इति । संविशेद भगवद्गृहमित्यत्र ईश्वरे द्वारविभाग उक्तः— प्रासादान्तःप्रवेशार्थं ततो द्वारं तु चेतसा । त्रिभागीकृत्य तन्मध्यभागमेकं द्विधा पुनः ॥ सा० सं० - 6

२६ सात्वतसंहिता विभज्य वामदेशेन दक्षिणेनाङ्घ्रिणा ततः । शनैः शनैः प्रविश्यान्तः ................. ॥ (२।१४-१५) इति । अन्ये चात्र तत्र तत्रापेक्षिता बहवो विशेषा एतदुपबृंहणयोरीश्वरपारमेश्वरयोरेव संगृहीता ग्राह्याः ॥ ४४-४५ ॥ शुद्ध वस्त्र धारण करे और इन्द्रियों को वश में कर चित्त को स्थिर रखे । फिर मौन धारण कर पुष्प दर्भादि से द्वार के अग्रभाग में स्थित चक्र सहित गरुड की पूजा कर भगवान् के मन्दिर में प्रवेश करे ॥ ४४-४५ ॥ उपार्जितं पुरा यद्वै यागोपकरणं महत् । तत्सर्वं दक्षिणे कृत्वा वामे तु करकं न्यसेत् ॥ ४६ ॥ गालितेनाम्भसा पूर्णं मध्ये भद्रासनं न्यसेत् । मृत्काष्ठोपलधातूत्थमेकद्वित्रिशमं तु वा ॥ ४७ ॥ चतुरश्रमथाष्टाश्रं चतुरश्रायतं तु वा । चतुष्पादसमायुक्तं चतुरावरणाङ्कितम् ॥ ४८ ॥ मकरस्यप्रणालं तु प्रमाणेनोपलक्षितम् । यागोपकरणानामासादनस्थाननियममाह—उपार्जितमिदमिति सपादेन । गर्भगृह- मध्ये भद्रपीठस्थापनं तल्लक्षणादिकं चाह—मध्य इत्यादिभिः । एकद्वित्रिशमं तु वा चतुरङ्गुलमष्टाङ्गुलं द्वादशाङ्गुलं वेत्यर्थः । ‘शमं तु चतुरङ्गुलम्' (३।१।५२) इति वैजयन्ती ॥ ४६-५० ॥ यज्ञ के निमित्त जो-जो यज्ञोपकरण उपार्जित किया गया है, उसे अपनी दाहिनी ओर रखे और बाईं ओर करके बायीं ओर करवा (= करक) रखे ॥ ४६ ॥ वह करक वस्त्र से छने हुये पवित्र जल से पूर्ण होना चाहिये तथा इन दोनों के मध्य में भद्रासन रखे । वह भद्रासन मिट्टी, काष्ठ, पत्थर अथवा धातु से निर्मित एक शम (चार अङ्गुल), दो शम (आठ अङ्गुल), तीन शम (बारह अङ्गुल) ऊँचा होना चाहिये । चार कोणों का या आठ कोणों का चौकोर होना चाहिये । वह भद्रासन, चतुष्पाद तथा चार आवरणों से युक्त होना चाहिये । प्रमाण में वह मकर के मुख के समान उसका प्रणाल (= नाली) होना चाहिये ॥ ४७-४९ ॥ तदधश्चोत्तरस्यां वै चलं वा क्ष्मातलाश्रितम् ॥ ४९ ॥ शङ्खचक्राङ्कितं कुर्याज्जलाधारं सुलक्षणम् । उसके बाद उसके उत्तर दिशा में कुछ नीचे जल अथवा पृथ्वी के आश्रित शङ्ख चक्राङ्कित सुलक्षण जलाधार स्थापित करे ॥ ४९-५० ॥ अथोपविश्य वै दार्भे काष्ठजे वाऽजिनासने ॥ ५० ॥ बद्धपद्मासनः कुर्यान्न्यासं मन्त्रवरेण तु ।

द्वितीयः परिच्छेदः २७ अभिन्नं मस्तके तावदादित्यातपवन्न्यसेत् ॥ ५१ ॥ व्यापकत्वेन तदनु विन्यसेद् भिन्नलक्षणम् । अङ्गुष्ठद्वितयाद् यावत् कनिष्ठाद्वितयावधिः ॥ ५२ ॥ ज्ञानाद्यं वीर्यपर्यन्तं विन्यसेदङ्गपञ्चकम् । मूलवद् व्यापकत्वेन नेत्रमूर्ध्वाङ्गुलीषु च ॥ ५३ ॥ आब्रह्मरन्ध्रात् पादान्तमथ मन्त्रं तु विग्रहे । ततस्तु हृदये ज्ञानं यतो व्यज्येत तत्र तत् ॥ ५४ ॥ ऐश्वर्यं शिरसो देशे यस्मादुपरि तिष्ठति । प्राकृतं तात्त्विकं वापि सर्वत्र कमलेक्षण ॥ ५५ ॥ हृदग्नेरूर्ध्वगायां तु शिखायां शक्तिमन्त्रराट् । बलं चाखिलगात्राणां तद्गतं वायुना सह ॥ ५६ ॥ मूर्च्छितं सर्वगात्रैर्यत्तद्वीर्यं हस्तयोर्न्यसेत् । अन्तर्बोधस्वरूपं यत् प्राकृतध्वान्तशान्तिकृत् ॥ ५७ ॥ तेजस्तत्तैजसे स्थाने न्यासकाले समस्यते । इदानीमेवं भद्रासनन्यासोक्तिश्चलबिम्बादीनां तदुपरि स्थापनार्थं वा बिम्बाधिकं विना तत्रैवार्चनार्थं वेति ज्ञेयम् । स्थिरबिम्बानां पीठस्तु प्रतिष्ठाकाल एव स्थाप्यते । स्वासनोपवेशनपूर्वकं मन्त्रन्यासविधिमाह—अथोपविश्येत्यादिभिः । अत्र न्यासात् पूर्वं प्राणायामभूतशुद्धेः, मन्त्रन्यासानन्तरं भूषणादिन्यासस्य चानुक्तावपि नृसिंहकल्पे वक्ष्य- माणरीत्या ग्राह्यम् ॥ ५०-५८ ॥ इसके बाद साधक कुशा के आसन पर अथवा काष्ठ के आसान पर अथवा मृग चर्म के आसन पर पद्मासन से बैठकर श्रेष्ठ मन्त्र से न्यास करे । सर्वप्रथम मस्तक पर आदित्य के आतप के समान अभिन्न न्यास करे । इसके बाद व्यापक से अङ्गुष्ठ द्वितय से आरम्भ कर कनिष्ठ द्वितय पर्यन्त भिन्न लक्षण न्यास करे । फिर ज्ञानादि से लेकर वीर्य पर्यन्त पञ्चाङ्गन्यास करे । मूल युक्त व्यापक से नेत्र एवं ऊपर तथा अङ्गुलियों में न्यास करे । फिर शिर से लेकर पाद पर्यन्त शरीर में मन्त्र न्यास करे । हृदय में ज्ञान से न्यास करे क्योंकि ज्ञान हृदय से ही प्रगट होता है । ऐश्वर्य का न्यास शिरःप्रदेश में करे, क्योंकि वह सबसे ऊपर रहता है ॥ ५०-५५ ॥ हे कमलेक्षण सङ्कर्षण ! प्राकृत तथा तात्त्विक न्यास सर्वत्र करे । हृदय रूप अग्नि के ऊपर जाने वाली शिखा में शक्ति मन्त्रराट् से न्यास करे । वायु के साथ समस्त शरीर में सञ्चार करने वाले बल का न्यास समस्त शरीर में करे जो समस्त शरीर में फैल हुआ है । उस वीर्य का न्यास दोनों हाथों में करे जो अन्तःकरण में ज्ञान स्वरूप से बोध कराता है तथा प्राकृत न्यास अन्धकार को (विनष्ट) करने वाला है अतः वह तेज न्यास काल में तैजस स्थान (नेत्र) में स्थापित करे ॥ ५५-५८ ॥